अद्वैतशारदा

भामतीव्याख्या

शब्दादिभेदाधिकरणविषयः

व्याख्याः

नाना­श­ब्दा­दि­भे­दात् ।
सिद्धं कृत्वा विद्या­भे­द­म­ध­स्तनं विचा­र­जा­त­म­भि­नि­र्व­र्ति­तम् । सम्प्रति तु सर्वा­सा­मी­श्व­र­गो­च­राणां विद्यानां किमभेदो भेदो वा, एवं प्राणा­दि­गो­च­रा­स्विति विचारयितव्यम् । ननु यथा प्रत्य­या­भि­धे­याया अपूर्वभावनाया आजानतो भेदाभावेऽपि धात्वर्थेन निरू­प्य­मा­ण­त्वा­त्तस्य च यागा­दे­र्भे­दा­त्प्र­कृ­त्य­र्थ­या­गा­दि­धा­त्व­र्था­नु­ब­न्ध­भे­दा­द्भेदः । तदनुरक्ताया एव तस्याः प्रतीयमानत्वात् । एवं विद्यानामपि रूपतो वेद्य­स्ये­श्व­र­स्या­भे­देऽपि तत्त­त्स­त्य­स­ङ्क­ल्प­त्वा­दि­गु­णो­प­धा­न­भे­दा­द्वि­द्या­भेद इति नास्त्य­भे­दा­शङ्का । उच्यते - युक्त­म­नु­ब­न्ध­भे­दा­त्का­र्य­रू­पा­णा­म­पू­र्व­भा­व­नानां भेद इति । इह ब्रह्मणः सिद्ध­रू­प­त्वा­द्गु­णा­ना­मपि सत्य­स­ङ्क­ल्प­त्वा­दीनां तदाश्रयाणां सिद्धतया सर्वत्राभेदो विद्यासु । नहि विशा­ल­व­क्षा­श्च­को­रे­क्षणः क्षत्रिययुवा दुश्च्य­व­न­ध­र्मेति एक­त्रो­प­दि­ष्टोऽ­न्यत्र सिंहास्यो वृषस्कन्धः स एवो­प­दि­श्य­मा­न­श्च­को­रे­क्ष­ण­त्वा­द्य­प­ज­हाति न खलु प्रत्युपदेशं वस्तु भिद्यते । तस्य सर्वत्र तादवस्थ्यात् । अतादवस्थ्ये वा तदेव न भवेत् । नहि वस्तु विकल्प्यत इति । तस्मा­द्वे­द्या­भे­दा­द्वि­द्यानां भेद इति प्राप्तम् । एवं प्राप्त उच्यते - भवेदेतदेवं यदि वस्तु­नि­ष्ठा­न्यु­पा­स­न­वा­क्यानि किन्तु तद्वि­ष­या­मु­पा­स­ना­भा­वनां विदधति । सा च कार्यरूपा । यद्यपि चोपासनाभावना उपा­स­ना­धी­न­नि­रू­प­णो­पा­सनं चोपा­स्या­धी­न­नि­रू­प­ण­मु­पास्यं चेश्वरादि व्यवस्थितरूपम् , तथा­प्यु­पा­स­ना­वि­ष­यी­भा­वोऽस्य कदा­चि­त्क­स्य­चि­त्के­न­चि­द्रू­पे­णे­त्य­प­रि­नि­ष्ठित एव । यथैकः स्त्रीकायः केन­चि­द्भ­क्ष्य­तया केन­चि­दु­प­ग­न्त­व्य­तया केनचिदपत्यतया केनचिन्मातृतया केन­चि­दु­पे­क्ष­णी­य­तया विषयीक्रियमाणः पुरु­षे­च्छा­तन्त्रः । एवमिहापि उपासनानि पुरु­षे­च्छा­त­न्त्र­तया विधेयतां नातिक्रामन्ति । नच तत्त­द्गु­ण­त­यो­पा­स­नानि गुणभेदान्न भिद्यन्ते । न चाग्नि­हो­त्र­मि­वो­प­सनां विधाय दधि­त­ण्डु­ला­दि­गु­ण­व­दिह सत्य­स­ङ्क­ल्प­त्वा­दि­गु­ण­वि­धि­र्ये­नै­क­शा­स्त्रत्वं स्यात् । अपि तूत्प­त्ता­वे­वो­पा­स­नानां तत्त­द्गु­ण­वि­शि­ष्टा­ना­म­व­ग­मात् । तत्रा­गृ­ह्य­मा­ण­वि­शे­ष­तया सर्वासां भेदस्तुल्यः । नच सम­स्त­शा­खा­वि­हि­त­स­र्व­गु­णो­प­सं­हारः शक्या­नु­ष्ठा­न­स्त­स्मा­द्भेदः ।

न चास्मिन्पक्षे सामाना सन्तः सत्यकामादय इति ।
केचित्खलु गुणाः कासु­चि­द्वि­द्यासु समा­ना­स्ते­नै­क­वि­द्यात्वे आवर्तयितव्याः । एकत्रोक्तत्वात् । विद्याभेदे तु न पौन­रु­क्त्य­मे­कस्यां विद्यायामुक्ता विद्यान्तरे नोक्ता इति विद्या­न्त­र­स्यापि तद्गुणत्वाय वक्तव्या अनु­क्ता­ना­म­प्रा­प्ते­रिति ॥ ५८ ॥