भामतीव्याख्या
प्रदानाधिकरणविषयौ
प्रदानवदेव तदुक्तम् ।
तत्तच्छ्रुत्यर्थालोचनया वायुप्राणयोः स्वरूपाभेदे सिद्धे तदधीननिरूपणतया तद्विषयोपासनाप्यभिन्ना न चाध्यात्माधिदैवगुणभेदाद्भेदः । नहि गुणभेदे गुणवतो भेदः । नह्यग्निहोत्रं जुहोतीत्युत्पन्नस्याग्निहोत्रस्य तण्डुलादिगुणभेदाद्भेदो भवति । उत्पद्यमानकर्मसंयुक्तो हि गुणभेदः कर्मणो भेदकः । यथामिक्षावाजिनसंयुक्तयोः कर्मणोः । नोत्पन्नकर्मसंयुक्तः । अध्यात्माधिदैवोपदेशेषु चोत्पन्नोपासनासंयोगः । तथोपक्रमोपसंहारालोचनया विद्यैकत्वविनिश्चयादेकैव सकृत्प्रवृत्तिरिति पूर्वपक्षः । राद्धान्तस्तु सत्यं विद्यैकत्वं तथापि गुणभेदात्प्रवृत्तिभेदः । सायम्प्रातःकालगुणभेदाद्यथैकस्मिन्नप्यग्निहोत्रे प्रवृत्तिभेदः एवमिहाप्यध्यात्माधिदैवगुणभेदादुपासनस्यैकस्यापि प्रवृत्तिभेद इति सिद्धम् ।
आध्यानार्थो ह्ययमध्यात्माधिदैवविभागोपदेश इति ।
अग्निहोत्रस्येवाध्यानस्य कृते दधितण्डुलादिवदयं पृथगुपदेशः ।
एतेन व्रतोपदेश इति ।
एतेन तत्त्वाभेदेन । एवकारश्च वागादिव्रतनिराकरणार्थः ।
नन्वेतस्यै देवतायै इति देवतामात्रं श्रूयते न तु वायुस्तत्कथं वायुप्राप्तिमाहेत्यत आह –
देवतेत्यत्र वायुरिति ।
वायुः खल्वग्न्यादीन्संवृणुत इत्यग्न्यादीनपेक्ष्यानवच्छिन्नोऽग्न्यादयस्तुतेनैवावच्छिन्ना इति संवर्णगुणतया वायुरनवच्छिन्ना देवता ।
सर्वेषामभिगमयन्निति ।
मिलितानां श्रवणाविशेषादिन्द्रस्य देवताया अभेदात्रयाणामपि पुरोडाशानां सहप्रदानाशङ्कायामुत्पत्तिवाक्य एव राजाधिराजस्वराजगुणभेदाद्याज्यानुवाक्याव्यत्यासविधानाच्च यथान्यासमेव देवतापृथक्त्वात्प्रदानपृथक्त्वं भवति । सहप्रदाने हि व्यत्यासविधानमनुपपन्नम् । क्रमवति प्रदाने व्यत्यासविधिरर्थवान् । तथाविधस्यैव क्रमस्य विवक्षितत्वात् । सुगममन्यत् ॥ ४३ ॥