भामतीव्याख्या
परमाणुजगदकारणत्वाधिकरणविषयाः
उभयथापि न कर्मातस्तदभावः ।
परमाणूनामाद्यस्य कर्मणः कारणाभ्युपगमेऽनभ्युपगमे वा न कर्मातस्तदभावस्तस्य द्व्यणुकादिक्रमेण सर्गस्याभावः । अथवा यद्यणुसमवाय्यदृष्टमथवा क्षेत्रज्ञसमवायि, उभयथापि तस्याचेतनस्य चेतनानधिष्ठितस्याप्रवृत्तेः कर्माभावोऽतस्तदभावः सर्गाभावः । निमित्तकारणतामात्रेण त्वीश्वरस्याधिष्ठातृत्वमुपरिष्टान्निराकरिष्यते । अथवा संयोगोत्पत्त्यर्थं विभागोत्पत्त्यर्थमुभयथापि न कर्मातः सर्गहेतोः संयोगस्याभावात्प्रलयहेतोर्विभागस्याभावात्तदभावः । तयोः सर्गप्रलययोरभाव इत्यर्थः । तदेतत्सूत्रं तात्पर्यतो व्याचष्टे
इदानीं परमाणुकारणवादमिति ।
निराकार्यस्वरूपमुपपत्तिसहितमाह
स च वाद इति ।
स्वानुगतैः स्वसम्बद्धैः । सम्बन्धश्चाधार्याधारभूत इहप्रत्ययहेतुः समवायः । पञ्चमभूतस्यानवयवत्वात्
तानीमानि चत्वारि भूतानीति ।
तत्र परमाणुकारणवादे इदमभिधीयते सूत्रम् । तत्र प्रथमां व्याख्यामाह
कर्मवतामिति ।
अभिघातादीत्यादिग्रहणेन नोदनसंस्कारगुरुत्वद्रवत्वानि गृह्यन्ते । नोदनसंस्कारावभिघातेन समानयोगक्षेमौ, गुरुत्वद्रवत्वे च परमाणुगते सदातने इति कर्मसातत्यप्रसङ्गः । द्वितीयं व्याख्यानमाशङ्कापूर्वमाह
अथादृष्टं धर्माधर्मौ । आद्यस्य कर्मण इति । आत्मनश्च क्षेत्रज्ञस्य अनुत्पन्नचैतन्यस्येति । अदृष्टवता पुरुषेणेति ।
संयुक्तसमवायसम्बन्ध इत्यर्थः ।
सम्बन्धस्य सातत्यादिति ।
यद्यपि परमाणुक्षेत्रज्ञयोः संयोगः परमाणुकर्मजस्तथापि तत्प्रवाहस्य सातत्यमिति भावः । सर्वात्मना चेदुपचयाभावः । एकदेशेन हि संयोगे यावण्वोरेकदेशौ निरन्तरौ ताभ्यामन्ये एकदेशाः संयोगेनाव्याप्ता इति प्रथिमोपपद्यते । सर्वात्मना तु नैरन्तर्ये परमाणावेकस्मिन् परमाण्वन्तराण्यपि संमान्तीति न प्रथिमा स्यादित्यर्थः । शङ्कते यद्यपि निष्प्रदेशाः परमाणवस्तथापि संयोगस्तयोरव्याप्यवृत्तिरेवंस्वभावत्वात् । कैषा वाचोयुक्तिर्निष्प्रदेशं संयोगो न व्याप्नोतीति । एषैव वाचोयुक्तिर्यद्यथा प्रतीयते तत्तथाभ्युपेयत इति । तामिमां शङ्कां सूद्धारामाह
परमाणूनां कल्पिता इति ।
नह्यस्ति सम्भवो निरवयव एकस्तदैव तेनैव संयुक्तश्चासंयुक्तश्चेति, भावाभावयोरेकस्मिन्नद्वये विरोधात् । अविरोधे वा न क्वचिदपि विरोधोऽवकाशमासादयेत । प्रतीतिस्तु प्रदेशकल्पनयापि कल्प्यते । तदिदमुक्तम्
कल्पिताः प्रदेशा इति ।
तथा च सूद्धारेयमिति तामुद्धरति
कल्पितानामवस्तुत्वादिति ।
तृतीयां व्याख्यामाह
यथा चादिसर्ग इति ।
नन्वभिघातनोदनादयः प्रलयारम्भसमये कस्माद्विभागारम्भककर्महेतवो न सम्भवन्त्यत आह
नहि तत्रापि किञ्चिन्नियतमिति ।
सम्भवन्त्यभिघातादयः कदाचित्क्वचित् । न त्वपर्यायेण सर्वस्मिन् । नियमहेतोरभावादित्यर्थः ।
न प्रलयप्रसिद्ध्यर्थमिति ।
यद्यपि शरीरादिप्रलयारम्भेऽस्ति दुःखभोगस्तथाप्यसौ पृथिव्यादिप्रलये नास्तीत्यभिप्रेत्येदमुदितमिति मन्तव्यम् ॥ १२ ॥
समवायाभ्युपगमाच्च साम्यादनवस्थितेः ।
व्याचष्टे
समवायाभ्युपगमाच्चेति ।
न तावत्स्वतन्त्रः समवायोऽत्यन्तं भिन्नः समवायिभ्यां समवायिनौ घटयितुमर्हत्यतिप्रसङ्गात् । तस्मादनेन समवायिसम्बन्धिना सता समवायिनौ घटनीयौ, तथा च समवायस्य सम्बन्धान्तरेण समवायिसम्बन्धेऽभ्युपगम्यमानेऽनवस्था । अथासौ सम्बन्धिभ्यां सम्बन्धे न सम्बन्धान्तरमपेक्षते सम्बन्धिसम्बन्धनपरमार्थत्वात् । तथाहि नासौ भिन्नेऽपि सम्बन्धिनिरपेक्षो निरूप्यते । न च तस्मिन् सति समबन्धिनावसम्बन्धिनौ भवतः । तस्मात्स्वभावादेव समवायः समवायिनोर्न सम्बन्धान्तरेणेति नानवस्थेति चोदयति
नन्विहप्रत्ययग्राह्या इति ।
परिहरति
नेत्युच्यते ।
संयोगोऽप्येवमिति ।
तथाहिसंयोगोऽपि सम्बन्धिसम्बन्धनपरमार्थः । नच भिन्नोऽपि संयोगिभ्यां विना निरूप्यते । नच तस्मिन् सति संयोगिनावसंयोगिनौ भवत इति तुल्यचर्चः । यद्युच्येत गुणः संयोगः, नच द्रव्यासमवेतो गुणो भवति, न चास्य समवायं विना समवेतत्वं, तस्मात्संयोगस्यास्ति समवाय इति शङ्कामपाकरोति
नच गुणत्वादिति ।
यद्यसमवायेऽस्यागुणत्वं भवति कामं भवतु न नः काचित्क्षतिः, तदिदमुक्तम्
गुणपरिभाषायाश्चेति ।
परमार्थतस्तु द्रव्याश्रयीत्युक्तम् । तच्च विनापि समवायं स्वरूपतः संयोगस्योपपद्यत एव । नच कार्यत्वात्समवाय्यसमवायिकारणापेक्षितया संयोगः समवायीति युक्तम् , अजसंयोगस्यातथात्वप्रसङ्गात् । अपि च समवायस्यापि सम्बन्ध्यधीनसद्भावस्य सम्बन्धिनश्चैकस्य द्वयोर्वा विनाशित्वेन विनाशित्वात्कार्यत्वम् । नह्यस्ति सम्भवो गुणो वा गुणगुणिनौ वावयवो वावयवावयविनौ वा न स्तोऽप्यस्ति च तयोः सम्बन्ध इति । तस्मात्कार्यः समवायः । तथा च यथैष निमित्तकारणमात्राधीनोत्पाद एवं संयोगोऽपि । अथ समवायोऽपि समवाय्यसमवायिकारणे अपेक्षते तथापि सैवानवस्थेति । तस्मात्समवायवत्संयोगोऽपि न सम्बन्धान्तरमपेक्षते । यद्युच्येत सम्बन्धिनावसौ घटयति नात्मानमपि सम्बन्धिभ्यां, तत्किमसावसम्बद्ध एव सम्बन्धिभ्याम् , एवं चेदत्यन्तभिन्नोऽसम्बद्धः कथं सम्बन्धिनौ सम्बन्धयेत् । सम्बन्धने वा हिमवद्विन्ध्यावपि सम्बन्धयेत् । तस्मात्संयोगः संयोगिनोः समवायेन सम्बद्ध इति वक्तव्यम् । तदेतत्समवायस्यापि समवायिसम्बन्धे समानमन्यत्राभिनिवेशात् । तथा चानवस्थेति भावः ॥ १३ ॥
नित्यमेव च भावात् ।
प्रवृत्तेरप्रवृत्तेर्वेति शेषः । अतिरोहितार्थमस्य भाष्यम् ॥ १४ ॥
रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ।
यत्किल भूतभौतिकानां मूलकारणं तद्रूपादिमान् परमाणुर्नित्य इति भवद्भिरभ्युपेयते, तस्य चेद्रूपादिमत्त्वमभ्युपेयेत परमाणुत्वनित्यत्वविरुद्धे स्थौल्यानित्यत्वे प्रसज्येयातां, सोऽयं प्रसङ्ग एकधर्माभ्युपगमे धर्मान्तरस्य । नियता प्राप्तिर्हि प्रसङ्गलक्षणं, तदनेन प्रसङ्गेन जगत्कारणप्रसिद्धये प्रवृत्तं साधनं रूपादिमन्नित्यपरमाणुसिद्धेः प्रच्याव्य ब्रह्मगोचरतां नीयते । तदेतद्वैशेषिकाभ्युपगमोपन्यासपूर्वकमाह
सावयवानां द्रव्याणामिति ।
परमाणुनित्यत्वसाधनानि च तेषामुपन्यस्य दूषयति
यच्च नित्यत्वे कारणमिति ।
सदिति
प्रागभावाद्व्यवच्छिनत्ति ।
अकारणवदिति
घटादेः ।
यदपि नित्यत्वे द्वितीयमिति ।
लब्धरूपं हि क्वचित्किञ्चिदन्यत्र निषिध्यते । तेनानित्यमिति लौकिकेन निषेधेनान्यत्र नित्यत्वसद्भावः कल्पनीयः, ते चान्ये परमाणव इति । तन्न । आत्मन्यपि नित्यत्वोपपत्तेः । व्यपदेशस्य च प्रतीतिपूर्वकस्य तदभावे निर्मूलस्यापि दर्शनात् । यथेह वटे यक्ष इति ।
यदपि नित्यत्वे तृतीयं कारणमविद्येति ।
यदि सतां परमाणूनां परिदृश्यमानस्थूलकार्याणां प्रत्यक्षेण कारणाग्रहणमविद्या तया नित्यत्वम् , एवं सति द्व्यणुकस्यापि नित्यत्वम् । अथाद्रव्यत्वे सतीति विशेष्येत तथा सति न द्व्यणुके व्यभिचारः, तस्यानेकद्रव्यत्वेनाविद्यमानद्रव्यत्वानुपपत्तेः । तथाप्यकारणवत्त्वमेव नित्यतानिमित्तमापद्येत, यतोऽद्रव्यत्वमविद्यमानकारणभूतद्रव्यत्वमुच्यते, तथा च पुनरुक्तमित्याह
तस्य चेति ।
अपि चाद्रव्यत्वे सति सत्त्वादित्यत एवेष्टार्थसिद्धेरविद्येति व्यर्थम् । अथाविद्यापदेन द्रव्यविनाशकारणद्वयाविद्यमानत्वमुच्यते, द्विविधो हि द्रव्यनाशहेतुरवयवविनाशोऽवयवव्यतिषङ्गविनाशश्च, तदुभयं परमाणौ नास्ति, तस्मान्नित्यः परमाणुः । नच सुखादिभिर्व्यभिचारः, तेषामद्रव्यत्वादित्याह
अथापीति ।
निराकरोति
नावश्यमिति ।
यदि हि संयोगसचिवानि बहूनि द्रव्याणि द्रव्यान्तरमारभेरन्निति प्रक्रिया सिध्येत्, सिध्येद् द्रव्यद्वयमेव( ? )तद्विनाशकारणमिति । नत्वेतदस्ति, द्रव्यस्वरूपापरिज्ञानात् । न तावत्तन्त्वाधारस्तद्व्यतिरिक्तः पटो नामास्ति यः संयोगसचिवैस्तन्तुभिरारभ्येतेत्युक्तमधस्तात् । षट्पदार्थाश्च दूषयन्नग्रे वक्ष्यति । किन्तु कारणमेव विशेषवदवस्थान्तरमापद्यमानं कार्यं, तच्च सामान्यात्मकम् । तथाहि मृद्वा सुवर्णं वा सर्वेषु घटरुचकादिष्वनुगतं सामान्यमनुभूयते । न चैते घटरुचकादयो मृत्सुवर्णाभ्यां व्यतिरिच्यन्त इत्युक्तम् । अग्रे च वक्ष्यामः । तस्मान्मृत्सुवर्णे एव तेन तेनाकारेण परिणममाने घट इति च रुचक इति च कपालशर्कराकणमिति च शकलकणिकाचूर्णमिति च व्याख्यायेते । तत्र तत्रोपादानयोर्मृत्सुवर्णयोः प्रत्यभिज्ञानात् । न तु घटादयो वा कपालादिषु कपालादयो वा घटादिषु च रुचकादयो वा शकलादिषु शकलादयो वा रुचकादिषु प्रत्यभिज्ञायन्ते यत्र कार्यकारणभावो भवेत् । न च विनश्यन्तमेव घटक्षणं प्रतीत्य कपालक्षणोऽनुपादान एवोत्पद्यते तत्किमुपादानप्रत्यभिज्ञानेनेति वक्तव्यम् , एतस्या अपि वैनाशिकप्रक्रियाया उपरिष्टान्निराकरिष्यमाणत्वात् । तस्मादुपजनापायधर्माणो विशेषावस्थाः सामान्यस्योपादेयाः, सामान्यात्मा तूपादानम् । एवं व्यवस्थिते यथा सुवर्णद्रव्यं काठिन्यावस्थामपहाय द्रवावस्थया परिणतं, न च तत्रावयवविभागः सन्नपि द्रवत्वे कारणं, परमाणूनां भवन्मते तदभावेन द्रवत्वानुपपत्तेः, तस्माद्यथा परमाणु द्रव्यमग्निसंयोगात्काठिन्यमपहाय द्रवत्वेना परिणमते, नच काठिन्यद्रवत्वे परमाणोरतिरिच्येते, एवं मृद्वा सुवर्णं वा सामान्यं पिण्डावस्थामपहाय कुलालहेमकारादि व्यापाराद्घटरुचकीद्यवस्थामापद्यते । न त्ववयवविनाशात्तत्संयोगविनाशाद्वा विनष्टुमर्हन्ति घटरुचकादयः । नहि कपालादयोऽस्योपादानं तत्संयोगो वासमवायिकारणमपि तु सामान्यमुपादानं, तच्च नित्यम् । नच तत्संयोगसचिवमेकत्वात् , संयोगस्य द्विष्ठत्वेनैकस्मिन्नभावात् । तस्मात्सामान्यस्य परमार्थसतोऽनिर्वाच्या विशेषावस्थास्तदधिष्ठाना भुजङ्गादय इव रज्ज्वाद्युपादानामुपजनापायधर्माण इति साम्प्रतम् । प्रकृतमुपसंहरति
तस्मादिति ॥ १५ ॥
उभयथा च दोषात् ।
अनुभूयते हि पृथिवी गन्धरूपरसस्पर्शात्मिका स्थूला, आपो रसरूपस्पर्शात्मिकाः सूक्ष्माः, रूपस्पर्शात्मकं तेजः सूक्ष्मतरं, स्पर्शात्मको वायुः सूक्ष्मतमः । पुराणेऽपि स्मर्यते “आकाशं शब्दमात्रं तु स्पर्शमात्रं समाविशत् । द्विगुणस्तु ततो वायुः शब्दस्पर्शात्मकोऽभवत् ॥ १ ॥ रूपं तथैवाविशतः शब्दस्पर्शगुणावुभौ । त्रिगुणस्तु ततो वह्निः स शब्दस्पर्शवान् भवेत् ॥ २ ॥ शब्दः स्पर्शश्च रूपं च रसमात्रं समाविशत् । तस्माच्चतुर्गुणा आपो विज्ञेयास्तु रसात्मिकाः ॥ ३ ॥ शब्दः स्पर्शश्च रूपं च रसश्चेद्गन्धमाविशत् । संहतान् गन्धमात्रेण तानाचष्टे महीमिमाम् ॥ ४ ॥ तस्मात्पञ्चगुणा भूमिः स्थूला भूतेषु दृश्यते । शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ॥ ५ ॥ परस्परानुप्रवेशाद्धारयन्ति परस्परम् ।” तेन गन्धादयः परस्परं संहन्यमानाः पृथिव्यादयः । तथा च यथायथा संहन्यमानानामुपचयस्तथातथा संहतस्य स्थौल्यं, यथायथापचयस्तथातथा सौक्ष्म्यतारतम्यं, तदेवमनुभवागमाभ्यामवस्थितमर्थं वैशेषिकैरनिच्छद्भिरप्यशक्यापह्नवमाह
गन्धेति ।
अस्तु तावच्छब्दो वैशेषिकैस्तस्य पृथिव्यादिगुणत्वेनानभ्युपगमादिति चत्वारि भूतानि चतुस्त्रिद्व्येकगुणान्युदाहृतवान् । अनुभवागमसिद्धमर्थमुक्त्वा विकल्प्य दूषयति
तद्वत् ।
स्थूलपृथिव्यादिवत् ।
परमाणवोऽपीति ।
उपचितगुणानां मूर्त्युपचयात्
उपचितसंहन्यमानानां सङ्घातोपचयात् ।
अपरमाणुत्वप्रसङ्गः
स्थूलत्वादिति । यस्तु ब्रूते न गन्धादिसङ्घातः परमाणुरपि तु गन्धाद्याश्रयो द्रव्यं, नच गन्धादीनां तदाश्रयाणामुपचयेऽपि द्रव्यस्योपचयो भवितुमर्हत्यन्यत्वादिति, तं प्रत्याह
न चान्तरेणापि मूर्त्युपचयं
द्रव्यस्वरूपोपचयमित्यर्थः । कुतः ।
कार्येषु भूतेषु गुणोपचये मूर्त्युपचयदर्शनात् ।
नतावत्परमाणवो रूपतो गृह्यन्ते किन्तु कार्यद्वारा, कार्यं च न गन्धादिभ्यो भिन्नं, यदा न तदाधारतया गृह्यतेऽपि तु तदात्मकतया, तथा च तेषामुपचये तदुपचितं दृष्टमिति परमाणुभिरपि तत्कारणैरेवं भवितव्यं, तथा चापरमाणुत्वं स्थूलत्वादित्यर्थः । द्वितीयं विकल्पं दूषयति
अकल्प्यमाने तूपचितापचितगुणत्व इति ।
अथ सर्वे चतुर्गुणा इति ।
यद्यप्यस्मिन् कल्पे सर्वेषां स्थौल्यप्रसङ्गस्तथाप्यतिस्फुटतयोपेक्ष्य दूषयति
ततोऽप्स्वपीति ।
वायो रूपवत्त्वेन चाक्षुषत्वप्रसङ्ग इत्यपि द्रष्टव्यम् ॥ १६ ॥
अपरिग्रहाच्चात्यन्तमनपेक्षा ।
निगदव्याख्यातेन भाष्येण व्याख्यातम् । संप्रत्युत्सूत्रं भाष्यकृद्वैशेषिकतन्त्रं दूषयति
अपि च वैशेषिका इति ।
द्रव्याधीनत्वं
द्रव्याधीननिरूपणत्वम् । न हि यथा गवाश्वमहिषमातङ्गाः परस्परानधीननिरूपणाः स्वतन्त्रा निरूप्यन्ते, वह्न्याद्यनधीनोत्पत्तयो वा धूमादयो यथा वह्न्याद्यनधीननिरूपणाः स्वतन्त्रा निरूप्यन्ते, एवं गुणादयो न द्रव्याद्यनधीननिरूपणाः, अपि तु यदा यदा निरूप्यन्ते तदा तदा तदाकारतयैव प्रथन्ते न तु प्रथायामेषामस्ति स्वातन्त्र्यं, तस्मान्नातिरिच्यन्ते द्रव्यादपि तु द्रव्यमेव सामान्यरूपं तथा तथा प्रथत इत्यर्थः । द्रव्यकार्यत्वमात्रं गुणादीनां द्रव्याधीनत्वमिति मन्वानश्चोदयति
नन्वग्नेरन्यस्यापीति ।
परिहरति
भेदप्रतीतेरिति ।
न तदधीनोत्पादतां तदधीनत्वमाचक्ष्महे किन्तु तदाकारतां, तथा च न व्यभिचार इत्यर्थः ।
शङ्कते
गुणानां द्रव्याधीनत्वं द्रव्यगुणयोरयुतसिद्धत्वादिति यद्युच्येत ।
यत्र हि द्वावाकारिणौ विभिन्नाभ्यामाकाराभ्यामवगम्येते तौ सम्बद्धासम्बद्धौ वा वैयधिकरण्येन प्रतिभासेते, यथेह कुण्डे दधि यथा वा गौरश्व इति, न तथा गुणकर्मसामान्यविशेषसमवायाः, तेषां द्रव्याकारतयाकारान्तरायोगेन द्रव्यादाकारिणोऽन्यत्वेनाकारितया व्यवस्थानाभावात्सेयमयुतसिद्धिः । तथा च सामानाधिकरण्येन प्रथेत्यर्थः । तामिमामयुतसिद्धिं विकल्प्य दूषयति
तत्पुनरयुतसिद्धत्वमिति ।
तत्रापृथग्देशत्वं तदभ्युपगमेन विरुध्यत इत्याह
अपृथग्देशत्व इति ।
यदि तु संयोगिनोः कार्ययोः सम्बन्धिभ्यामन्यदेशत्वे युतसिद्धिस्ततोऽन्यायुतसिद्धिः, नित्ययोस्तु संयोगिनोर्द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वं युतसिद्धिस्ततोऽन्यायुतसिद्धिः, तथा चाकाशपरमाण्वोः परमाण्वोश्च संयुक्तयोर्युतसिद्धिः सिद्धा भवति । गुणगुणिनोश्च शौक्ल्यपटयोरयुतसिद्धिः सिद्धा भवति । नहि तत्र शौक्ल्यपटाभ्यां सम्बन्धिभ्यामन्यदेशौ शौक्ल्यपटौ । सत्यपि पटस्य तदन्यतन्तुदेशत्वे शौक्ल्यस्य सम्बन्धिपटदेशत्वात् । तन्न । नित्ययोरात्माकाशयोरजसंयोगे उभयस्या अपि युतसिद्धेरभावात् । न हि तयोः पृथगाश्रयाश्रितत्वमनाश्रयत्वात् । नापि द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वममूर्तत्वेनोभयोरपि निष्क्रियत्वात् । न चाजसंयोगो नास्ति तस्यानुमानसिद्धत्वात् । तथाहि आकाशमात्मसंयोगि, मूर्तद्रव्यसङ्गित्वात् , घटादिवदित्यनुमानम् । पृथगाश्रयाश्रयित्वपृथग्गतिमत्त्वलक्षणयुतसिद्धेरन्या त्वयुतसिद्धिर्यद्यपि नाभ्युपेतविरोधमावहति तथापि न सामानाधिकरण्यप्रथामुपपादयितुमर्हति । एवं लक्षणेऽपि हि समवाये गुणगुणिनोरभ्युपगम्यमाने सम्बद्धे इति प्रत्ययः स्यान्न तादात्म्यप्रत्ययः । अस्य चोपपादनाय समवाय आस्थीयते भवद्भिः । स चेदास्थितोऽपि न प्रत्ययमिममुपपादयेत्कृतं तत्कल्पनया । न च प्रत्यक्षः सामानाधिकरण्यप्रत्ययः समवायगोचरः, तद्विरुद्धार्थत्वात् । तद्गोचरत्वे हि पटे शुक्ल इत्येवमाकरः स्यान्न तु पटः शुक्ल इति । नच शुक्लपदस्य गुणविशिष्टगुणिपरत्वादेवं प्रथेति साम्प्रतम् । नहि शब्दवृत्त्यनुसारि प्रत्यक्षम् । नह्यग्निर्माणवक इत्युपचरिताग्निभावो माणवकः प्रत्यक्षेण दहनात्मना प्रथते । न चायमभेदविभ्रमः समवायनिबन्धनो भिन्नयोरपीति वाच्यम् , गुणादिसद्भावे तद्भेदे च प्रत्यक्षानुभवादन्यस्य प्रमाणस्याभावात्तस्य च भ्रान्तत्वे सर्वाभावप्रसङ्गात् । तदाश्रयस्य तु भेदसाधनस्य तद्विरुद्धतयोत्थानासम्भवात् । तदिदमुक्तम्
तस्य तादात्म्येनैव प्रतीयमानत्वादिति ।
अपि चायुतसिद्धशब्दोऽपृथगुत्पत्तौ मुख्यः, सा च भवन्मते न द्रव्यगुणयोरस्ति, द्रव्यस्य प्राक्सिद्धेर्गुणस्य च पश्चादुत्पत्तेः, तस्मान्मिथ्यावादोऽयमित्याह
युतसिद्धयोरिति ।
अथ भवतु कारणस्य युतसिद्धिः, कार्यस्य त्वयुतसिद्धिः कारणातिरेकेणाभावादित्याशङ्क्यान्यथा दूषयति
एवमपीति ।
सम्बन्धिद्वयाधीनसद्भावो हि सम्बन्धो नासत्येकस्मिन्नपि सम्बन्धिनि भवितुमर्हति । नच समवायो नित्यः स्वतन्त्र इति चोक्तमधस्तात् । नच कारणसमवायादनन्या कार्यस्योत्पत्तिरिति शक्यं वक्तुम् , एवं हि सति समवायस्य नित्यत्वाभ्युपगमात्कारणवैयर्थ्यप्रसङ्गः । उत्पत्तौ च समवायस्य सैव कार्यस्यास्तु किं समवायेन । सिद्धयोस्तु सम्बन्धे युतसिद्धिप्रसङ्गः । न चान्यायुतसिद्धिः सम्भवतीत्येतदुक्तम् । ततश्च यदुक्तं वैशेषिकैर्युतसिद्ध्यभावात् ।
कार्यकारणयोः संयोगविभागौ न विद्येते इतीदं दुरुक्तं स्यात् ।
युतसिद्ध्यभावस्यैवाभावात् । एतेनाप्राप्तिसंयोगौ युतसिद्धिरित्यपि लक्षणमनुपपन्नम् । मा भूदप्राप्तिः कार्यकारणयोः, प्राप्तिस्त्वनयोः संयोग एव कस्मान्न भवति, तत्रास्या असंयोगत्वायान्यायुतसिद्धिर्वक्तव्या । तथा च सैवोच्यतां किमनया परस्पराश्रयदोषग्रस्तया । न चान्या सम्भवतीत्युक्तम् । यद्युच्येताप्राप्तिपूर्विका प्राप्तिरन्यतरकर्मजोभयकर्मजा वा संयोगः, यथा स्थाणुश्येनयोर्मल्लयोर्वा । नच तन्तुपटयोः सम्बन्धस्तथा, उत्पन्नमात्रस्यैव पटस्य तन्तुसम्बन्धात् । तस्मात्समवाय एवायमित्यत आह
यथा चोत्पन्नमात्रस्येति ।
संयोगजोऽपि हि संयोगो भवद्भिरभ्युपेयते न क्रियाज एवेत्यर्थः । न चाप्राप्तिपूर्विकैव प्राप्तिः संयोगः, आत्माकाशसंयोगे नित्ये तदभावात् , कार्यस्य चोत्पन्नमात्रस्यैकस्मिन् क्षणे कारणप्राप्तिविरहाच्चेति । अपि च सम्बन्धिरूपातिरिक्ते सम्बन्धे सिद्धे तदवान्तरभेदाय लक्षणभेदोऽनुश्रीयेत स एव तु सम्बन्ध्यतिरिक्तोऽसिद्धः, उक्तं हि परस्तादतिरिक्तः सम्बन्धिभ्यां सम्बन्धोऽसम्बद्धो न सम्बन्धिनौ घटयितुमीष्टे । सम्बन्धिसम्बन्धे चानवस्थितिः । तस्मादुपपत्त्यनुभवाभ्यां न कार्यस्य कारणादन्यत्वम् , अपि तु कारणस्यैवायमनिर्वाच्यः परिणामभेद इति । तस्मात्कार्यस्य कारणादनतिरेकात् किं केन सम्बद्धं, संयोगस्य च संयोगिभ्यामनतिरेकात्कस्तयोः संयोग इत्याह
नापि संयोगस्येति ।
विचारासहत्वेनानिर्वाच्यतामस्यापरिभावयन्नाशङ्कते
सम्बन्धिशब्दप्रत्यव्यतिरेकेणेति ।
निराकरोति
न । एकत्वेऽपि स्वरूपबाह्यरूपापेक्षयेति ।
तत्तदनिर्वचनीयानेकविशेषावस्थाभेदापेक्षयैकस्मिन्नपि नानाबुद्धिव्यपदेशोपपत्तिरिति । यथैको देवदत्तः स्वगतविशेषापेक्षया मनुष्यो ब्राह्मणोऽवदातः, स्वगतावस्थाभेदापेक्षया बालो युवा स्थविरः, स्वक्रियाभेदापेक्षया श्रोत्रियः, परापेक्षया तु पिता पुत्रः पौत्रो भ्राता जामातेति । निदर्शनान्तरमाह
यथा चैकापि सती रेखेति ।
दार्ष्टान्तिके योजयति
तथा सम्बन्धिनोरिति ।
अङ्गुल्योर्नैरन्तर्यं संयोगः, दधिकुण्डयोरौत्तराधर्यं संयोगः । कार्यकारणयोस्तु तादात्म्येऽप्यनिर्वाच्यस्य कार्यस्य भेदं विवक्षित्वासम्बन्धिनोरित्युक्तम् ।
नापि सम्बन्धिविषयत्वे सम्बन्धशब्दप्रत्यययोः
इत्येतदप्यनिर्वाच्यभेदाभिप्रायम् । अपिचादृष्टवत्क्षेत्रज्ञसंयोगात्परमाणुमनसोश्चाद्यं कर्म भवद्भिरिष्यते । “अग्नेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनमणुमनसोश्चाद्यं कर्मेत्यदृष्टकारितानि”(वै.सू. ५-२-१२) इति वचनात् । न चाणुमनसोरात्मनाप्रदेशेन संयोगः सम्भवति । सम्भवे चाणुमनसोरात्मव्यापित्वात्परममहत्त्वेनानणुत्वप्रसङ्गात् । नच प्रदेशवृत्तिरनयोरात्मना संयोगोऽप्रदेशत्वादात्मनः, कल्पनायाश्च वस्तुतत्त्वव्यवस्थापनासहत्वादतिप्रसङ्गादित्याह
तथाण्वात्ममनसामिति ।
किञ्चान्यत् द्वाभ्यामणुभ्यां कारणाभ्यां सावयवस्य कार्यस्य द्व्यणुकस्याकाशेनेव संश्लेषानुपपत्तिः । संश्लेषः सङ्ग्रहो यत एकसम्बन्ध्याकर्षे सम्बन्ध्यन्तराकर्षो भवति तस्यानुपपत्तिरिति । अत एव संयोगादन्यः कार्यकारणद्रव्ययोराश्रयाश्रितभावोऽन्यथा नोपपद्यत इत्यवश्यं कल्पनीयः समवाय इति चेत् । निराकरोति
न ।
कुतः ।
इतरेतराश्रयत्वात् ।
तद्विभजते
कार्यकारणयोर्हीति ।
किञ्चान्यत् । परमाणूनामिति ।
ये हि परिच्छिन्नास्ते सावयवाः, यथा घटादयः । तथा च परमाणवः, तस्मात्सावयवा अनित्याः स्युः । अपरिच्छिन्नत्वे चाकाशादिवत्परमाणुत्वव्याघातः शङ्कते
यांस्त्वमिति ।
निराकरोति
न । स्थूलेति ।
किं सूक्ष्मत्वात्परमाणवो न विनश्यन्त्यथ निरवयवतया तत्र पूर्वस्मिन् कल्पे इदमुक्तम्
वस्तुभूतापीति ।
भवन्मते उत्तरं कल्पमाशङ्क्य निराकरोति
विनश्यन्तोऽप्यवयवविभागेनेति ।
यथा हि घृतसुवर्णादीनामविभज्यमानावयवानामपीति ।
यथा हि पिष्टपिण्डोऽविनश्यदवयवसंयोग एव प्रथते, प्रथमानश्चाश्वशफाकारतां नीयमानः पुरोडाशतामापद्यते, तत्र पिण्डो नश्यति पुरोडाशश्चोत्पद्यते, नहि तत्र पिण्डावयवसंयोगा विनश्यन्ति, अपि तु संयुक्ता एव सन्तः परं प्रथनेन नुद्यमाना अधिकदेशव्यापका भवन्ति, एवमग्निसंयोगेन सुवर्णद्रव्यावयवाः संयुक्ता एव सन्तो द्रवीभावमापद्यन्ते, नतु मिथो विभज्यन्ते । तस्माद्यथावयवसंयोगविनाशावन्तरेणापि सुवर्णपिण्डो विनश्यति, संयोगान्तरोत्पादमन्तरेण च सुवर्णे द्रव उपजायते, एवमन्तरेणाप्यवयवसंयोगविनाशं परमाणवो विनङ्क्ष्यन्त्यन्ये चोत्पत्स्यन्त इति सर्वमवदातम् ॥ १७ ॥