अद्वैतशारदा

भामतीव्याख्या

व्याप्त्यधिकरणविषयः

व्याख्याः

व्याप्तेश्च समञ्जसम् । अध्यासो नामेति ।
गौणी बुद्धिरध्यासः । यथा माण­व­केऽ­नि­वृ­त्ता­या­मेव माण­व­क­बु­द्धि­व्य­प­दे­श­वृत्तौ सिंह­बु­द्धि­व्य­प­दे­श­वृत्तिः सिंहो माणवक इति, एवं प्रतिमायां वासु­दे­व­बु­द्धि­र्नाम्नि च ब्रह्म­बु­द्धि­स्त­थो­ङ्कार उद्गी­थ­बु­द्धि­व्य­प­दे­शा­विति । अप­वा­दै­क­त्व­वि­शे­ष­णानि चोक्तानि । एकार्थेऽपि च शब्दद्वयप्रयोगो दृश्यते । यथा वैश्व­दे­व्या­मिक्षा विज्ञानमानन्दम् । व्याख्यायां च पर्यायाणमपि सहप्रयोगो यथा सिन्धुरः करी पिकः कोकिल इति ।

विमृ­श्या­न­ध्य­व­सा­य­ल­क्षणं पक्षं गृह्णाति –
तत्रान्यतम इति ।

सिद्धान्तमाह –
इदमुच्यते व्याप्तेश्च ।
प्रत्यनुवाकं प्रत्यृ­च­मु­प­क्रमे च समाप्तौ चोकारः सर्दवेदव्यापीति किङ्ग­तोऽ­य­मो­ङ्का­र­स्त­त्त­दा­प्त्या­दि­गु­ण­वि­शि­ष्ट­स्तस्मै तस्मै कामा­वा­प्त्या­दि­फ­ला­यो­पा­स्य­त्वे­ना­धि­क्रि­यत इत्य­पे­क्षा­या­मु­द्गी­थ­प­दे­नेति विशिष्यते । उद्गी­थ­प­दे­नों­का­रा­द्य­व­य­व­घ­टि­त­सा­म­भ­क्ति­भे­दा­भि­धा­यिना समु­दा­य­स्या­व­य­व­भा­वा­नु­प­प­त्ते­स्त­त्स­म्ब­न्ध्य­व­यव ओङ्कारो लक्ष्यते, न पुन­रो­ङ्का­रे­णा­व­य­विन उद्गीथस्य लक्षणा । ओङ्का­र­स्यै­वो­प­रि­ष्टात्तु तत्त­द्गु­ण­वि­शि­ष्टस्य तत्त­त्फ­ल­वि­शि­ष्टस्य चोप­व्या­ख्या­स्य­मा­न­त्वात् । दृष्टश्च समु­दा­य­श­ब्दोऽ­व­यवे लक्षणया यथा ग्रामो दग्धः पटो दग्ध इति तदेकदेशदाहे । अध्यासे तु लक्षणा फलकल्पना च । तथाहि आप्त्या­दि­गु­ण­क­प्र­ण­वो­पा­स­ना­दि­द­मु­द्गी­थ­तो­पा­सनं प्रणवस्यान्यत् । नचात्राप्यादि उपासनेष्विव फलं श्रूयते । तस्मा­त्क­ल्प­नी­यम् । उद्गी­थ­स­म्ब­न्धि­प्र­ण­वो­पा­स­ना­धि­का­र­परे वाक्ये नायं दोषः । अपिच गौण्या वृत्ते­र्ल­क्ष­णा­वृ­त्ति­र्ब­ली­यसी लाघवात् । लक्षणाया हि लक्षणीयपरत्वं पदस्य तस्यैव वाक्या­र्था­न्त­र्भा­वात् । यथा गङ्गायां घोष इति लक्ष्यमाणस्य तीरस्य वाक्या­र्थेऽ­न्त­र्भा­वोऽ­धि­क­र­ण­तया । गौर्वाहीक इत्यत्र तु गोस­म्ब­न्धि­ति­ष्ठ­न्मू­त्र­पु­री­षा­दि­ल­क्ष­णया न तत्परत्वं गोशब्दस्य । अपितु तत्क­क्षा­ध्य­व­सि­त­त­द्गु­ण­यु­क्त­वा­ही­क­प­र­त्व­मिति गौण्या वृत्ते­र्दु­र्ब­ल­त्वम् ।

तदिदमुक्तं –
लक्षणायामपि त्विति ।
गौण्यपि वृत्ति­र्ल­क्ष­णा­व­य­व­त्वा­ल्ल­क्ष­णोक्ता । यद्यपि वैश्व­दे­वी­प­द­मा­मि­क्षायां प्रवर्तते तथाप्यर्थभेदः स्फुटतरः । आमिक्षापदं हि रूपेणामिक्षायां प्रवर्तते । वैश्वदेवीपदं तु तस्यामेव विश्व­दे­व­वि­शि­ष्टा­याम् । एवं हि विज्ञा­ना­न­न्द­यो­रपि स्फुटतरः प्रवृ­त्ति­नि­मि­त्त­भेदः सत्यपि ब्रह्म­ण्यै­कार्थ्ये । नच व्याख्या­न­मु­भ­यो­रपि प्रसि­द्धा­र्थ­त्वा­द्भि­न्ना­र्थ­त्वाच्च । शेष­म­ति­रो­हि­ता­र्थम् ॥ ९ ॥