भामतीव्याख्या
लिङ्गभूयस्त्वाधिकरणविषयाः
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ।
इह सिद्धान्तेनोपक्रम्य पूर्वपक्षयित्वा सिद्धान्तयति । तत्र यद्यपि भूयांसि सन्ति लिङ्गानि मनश्चिदादीनां स्वातन्त्र्यसूचकानि तथापि न तानि स्वातन्त्र्येण स्वातन्त्र्यं प्रति प्रापकाणि । प्रमाणप्रापितं तु स्वातन्त्र्यमुपोद्बलयन्ति । न चात्रास्ति स्वातन्त्र्यप्रापकं प्रमाणम् । न चेदं सामर्थ्यलक्षणं लिङ्गं येनास्य स्वातन्त्र्येण प्रापकं भवेत् । तद्धि सामर्थ्यमाभिधानस्य वार्थस्य वा स्यात् । तथा पूषाद्यनुमन्त्रणमन्त्रस्य पूषानुमन्त्रणे, यथा वा ‘पशुना यजेत’ इत्येकत्वसङ्ख्याया अर्थस्य सङ्ख्येयावच्छेतसामर्थ्यम् । न चेदमन्यस्यार्थदर्शनलक्षणं लिङ्गं तथा । स्तुत्यर्थत्वेनास्य विध्युद्देशेनैकवाक्यतया विधिपरत्वात् । तस्मादसति सामर्थ्यलक्षणे विरोद्धरि प्रकरणप्रत्यूहं मनश्चिदादीनां क्रियाशेषतामवगमयति । नच ते हैते विद्याचित एवेत्यवधारणश्रुतिः क्रियानुप्रवेशं वारयति । येन श्रुतिविरोधे सति न प्रकरणं भवेत् , बाह्यसाधनतापाकरणार्थत्वादवधारणस्य । नच विद्यया हैवैत एवंविदश्चिता भवन्तीति पुरुषसम्बन्धमापादयद्वाक्यं प्रकरणमपबाधितुमर्हति । अन्यार्थदर्शनं खल्वेतदपि । नच तत्स्वातन्त्र्येण प्रापकमित्युक्तम् । तस्मात्तदपि न प्रकरणविरोधायालमिति साम्पादिका अप्येते अग्नयः प्रकरणात्क्रियानुप्रवेशिन एव मानसवत् । द्वादशाहे तु श्रूयते “अनया त्वा पात्रेण समुद्रं रसया प्राजापत्यं मनोग्रहं गृह्णामि” इति । तत्र संशयः किं मानसं द्वादशाहा दहरन्तरमुत तन्मध्यपातिनो दशमस्याह्नाङ्गमिति । तत्र वाग्वै द्वादशाहो मनो मानसमिति मानसस्य द्वादशाहाद्भेदेन व्यपदेशाद्वाङ्मनसभेदवद्भेदः । निर्धूतानि द्वादशाहस्य गतरसानि छन्दांसि तानि मानसेनैवाप्यायन्तीति च द्वादशाहस्य मानसेन स्तूयमानत्वाद्भेदे च सति स्तुतिस्तुत्यभावस्योपपत्तेर्द्वादशाहादहरन्तरं न तदङ्गं, पत्नीसंयाजान्तत्वाच्चाह्नां पत्नीः संयाज्य मानसाय प्रसर्पन्तीति च मानसस्य पत्नीसंयाजस्य परस्ताच्छ्रुतेः । त्रयोदशाहेऽप्यवयुज्य द्वादशसङ्ख्यासमवायात्कथञ्चिज्जघन्ययापि वृत्त्या द्वादशाहसंज्ञाविरोधाभावादिति प्राप्तेऽभिधीयते प्रमाणान्तरेण हि त्रयोदशत्वेऽह्नां सिद्धे द्वादशाह इति जघन्यया वृत्त्योन्नीयेत । न त्वस्ति तादृशं प्रमाणान्तरम् । नच व्यपदेशभेदोऽहरन्तरत्वं कल्पयितुमर्हति । अङ्गाङ्गिभेदेनापि तदुपपत्तेः । अत एव च स्तुत्यस्तावकभावस्याप्युपपत्तिः देवदत्तस्येव दीर्घैः केशैः । पत्नीसंयाजान्तता तु यद्यप्यौत्सर्गिकी तथापि दशमस्याह्नो विशेषवचनान्मानसानि ग्रहणासादनहवनादीनि पत्नीसंयाजात्पराञ्चि भविष्यन्ति । किमिव हि न कुर्याद्वचनमिति । एष वै दशमस्याह्नो विसर्गो यन्मानसमिति वचनाद्दशमाहरङ्गता गम्यते । विसर्गोऽन्तोऽन्तवतो धर्मो न स्वतन्त्र इति दशमेऽहनि मानसाय प्रसर्पन्तीति दशमस्याह्न आधारत्वनिर्देशाच्च तदङ्गं मानसं नाहरन्तरमिति सिद्धम् । तदिह द्वादशाहसम्बन्धिनो दशमस्याह्नोऽङ्गं मानसमिति धर्ममीमांसासूत्रकृतोक्तम् । दशरात्रगस्यापि दशमस्याह्नोऽङ्गमिति भगवन्भाष्यकारः ।
श्रुत्यन्तरबलेनाह –
यथा दशरात्रस्य दशमेऽहन्यविवाक्य इति ।
अविवाक्य इति दशमस्याह्नो नाम ॥ ४४ ॥
पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ॥ ४५ ॥
अतिदेशाच्च ।
नहि साम्पादिकानामग्नीनामिष्टकासु चितेनाग्निना किञ्चिदस्ति सादृश्यमन्यत्र क्रियानुप्रवेशात् । तस्मादपि न स्वतन्त्र इति प्राप्तेऽभिधीयते ॥ ४६ ॥
विद्यैव तु निर्धारणात् ।
मा भूदन्येषां श्रुतविध्युद्देशानामन्यार्थदर्शनानामप्राप्तप्रापकत्वमेतेषु त्वश्रुतविध्युद्देशेषु “वचनानि त्वपूर्वत्वात्” इति न्यायाद्विधिरुन्नेतव्यः । तथा चैतेभ्यो यादृशोऽर्थः प्रतीयते तदनुरूप एव स भवति । प्रतीयते चैतेभ्यो मनश्चिदादीनां सान्तत्यं चावधारणं च फलभेदसमन्वयश्च पुरुषसम्बन्धश्च । न चास्य गोदोहनादिवत्क्रत्वर्थाश्रितत्वं येन पुरुषार्थस्य कर्मपारतन्त्र्यं भवेत् । नच विद्याचित एवेत्यवधारणं बाह्यसाधनापाकरणार्थम् । स्वभावत एव विद्याया बाह्यानुपेक्षत्वसिद्धेः । तस्मात्परिशेषान्मानसग्रहवत्क्रियानुप्रवेशशङ्कापाकरणार्थमवधारणम् । न चैवमर्थत्वे सम्भवति । द्योतकत्वमात्रेण निपातश्रुतिः पीडनीया । तस्माच्छ्रुतिलिङ्गवाक्यानि प्रकरणमपोद्य स्वातन्त्र्यं मनश्चिदादीनामवगमयन्तीति सिद्धम् । अनुबन्धातिदेशश्रुत्यादिभ्य एवमेव विज्ञेयम् । ते च भाष्य एव स्फुटाः । यदुक्तं पूर्वपक्षिणा क्रत्वङ्गत्वे पूर्वेणेष्टकाचितेन मनश्चिदादीनां विकल्प इति ।
तदुतल्यकार्यत्वेन दूषयति –
नच सत्येव क्रियासम्बन्ध इति ।
अपिच पूर्वापरयोर्भागयोर्विद्याप्राधान्यदर्शनात्तन्मध्यपातिनोऽपि तत्सामान्याद्विद्याप्रधानत्वमेव लक्ष्यते न कर्माङ्गत्वमित्याह सूत्रेण –
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ।
स्फुटमस्य भाष्यम् । अस्ति राजसूयः “राजा स्वाराज्यकामो राजसूयेन यजेत” इति । तं प्रकृत्यामनन्ति अवेष्टिं नामेष्टिम् । आग्नेयोऽष्टाकपालो हिरण्यं दक्षिणेत्येवमादि तां प्रकृत्याधीयते । यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिं हुत्वाभिधारयेद्यदि वैश्यो वैश्वदेवं यदि राजन्य ऐन्द्रमिति । तत्र सन्दिह्यते किं ब्राह्मणादीनां प्राप्तानां निमित्तार्थेन श्रवणमुत ब्राह्मणादीनामयं यागो विधीयत इति । तत्र यदि प्रजापालनकण्टकोद्धरणादि कर्म राज्यं तस्य कर्ता राजेति राजशब्दस्यार्थस्ततो राजा राजसूयेन यजेतेति राज्यस्य कर्तू राजसूयेऽधिकारः । तस्मात्सम्भवन्त्यविशिषेण ब्राह्मणक्षत्रियवैश्या राज्यस्य कर्तार इति सिद्धं सर्वम् एवैते राजसूये प्राप्ता इति “यदि ब्राह्मणो यजेत” इत्येवमादयो निमित्तार्थाः श्रुतयः । अथ तु राज्ञः कर्म राज्यमिति राजकर्तृयोगात्तत्कर्म राज्यं ततः को राजेत्यपेक्षायामार्येषु तत्प्रसिद्धेरभावात्पिकनेमतामरसादिशब्दार्थावधारणाय म्लेच्छप्रसिद्धिरिवान्ध्राणां क्षत्रियजातौ राजशब्दप्रसिद्धिस्तदवधारणकारणमिति क्षत्रिय एव राजेति न ब्राह्मणवैश्ययोः प्राप्तिरिति राजसूयप्रकरणं भित्त्वा ब्राह्मणादिकर्तृकाणि पृथगेव कर्माणि प्राप्यन्त इति न नैमित्तिकानि । तत्र किं तावत्प्राप्तं, नैमित्तिकानीति । राज्यस्य कर्ता राजेत्यार्याणामान्ध्राणां चाविवादः । तथाहि - ब्राह्मणादिषु प्रजापालनकर्तृषु कनकदण्डातपत्रश्वेतचामरादिलाञ्छनेषु राजपदमान्ध्राश्चार्याश्चाविवादं प्रयुञ्जाना दृश्यन्ते । तेनाविप्रतिपत्तेर्विप्रतिपत्तावप्यार्यान्ध्रप्रयोगयोर्यववराहवदायर्प्रसिद्धेरान्ध्रप्रसिद्धितो बलीयसीत्वात् । बलवदार्यप्रसिद्धिविरोधे त्वतन्मूलायाः पाणिनीयप्रसिद्धेः “विरोधे त्वनपेक्षं स्यात्”(जै० सू० ११३ ॥ ३) इति न्यायेन बाधनात्तदनुगुणतया वा कथञ्चिन्नखनकुलादिवदन्वाख्यानामात्रपरतया नीयमानत्वाद्रज्यस्य कर्ता राजेति सिद्धे निमित्तार्थाः श्रुतयः । तथाच यदिशब्दोऽप्याञ्जसः स्यादिति प्राप्तम् । एवं प्राप्त उच्यते - “रूपतो न विशेषोऽस्ति ह्यार्यम्लेच्छप्रयोगयोः । वैदिकाद्वाक्यशेषात्तु विशेषस्तत्र दर्शितः” ॥ तदिह राजशब्दस्य कर्मयोगाद्वा कर्तरि प्रयोगः कर्तृप्रयोगाद्वा कर्मणीति विशये वैदिकवाक्यशेषवदभियुक्ततरस्यात्रभवतः पाणिनेः स्मृतेर्निर्णीयते प्रसिद्धिरान्ध्रणामनादिरादिमती चार्याणां प्रसिद्धिर्गोगाव्यादिशब्दवत् । नच सम्भावितादिमद्भावा प्रसिद्धिः पाणिनिस्मृतिमपोद्यानादिप्रसिद्धिमादिमतीं कर्तुमुत्सहते । गाव्यादिशब्दप्रसिद्धेरनादित्वेन गवादिपदप्रसिद्धेरप्यादिमत्त्वापत्तेः । तस्मात्पाणिनीयस्मृत्यनुमतान्ध्रप्रसिद्धिबलीयस्त्वेन क्षत्रियत्वजातौ राजशब्दे मुख्ये तत्कर्तर्यतज्जातौ राजशब्दो गौण इति क्षत्रियस्यैवाकाराद्राजसूये तत्प्रकरणमपोद्यावेष्टेरुत्कर्षः । अन्वयानुरोधी यदिशब्दो न त्वपूर्वविधौ सति तमन्यथयितुमर्हति । अत एवाहुः “यदि शब्दपरित्यागो रुच्यध्यहारकल्पना” इति । इयं च राजसूयादधिकारान्तरमेतयान्नाद्यकामं याजयेदिति नास्तीतिकृत्वा चिन्ता । एतस्मिंस्त्वधिकारेऽन्नाद्यकामस्य त्रैवर्णिकस्य सम्भवात्प्राप्तेर्निमित्तार्थता ब्राह्मणादिश्रवणस्य दुर्वारैवेति ॥ ४७ ॥
दर्शनाच्च ॥ ४८ ॥
श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥ ४९ ॥
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् ॥ ५० ॥
न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॥ ५१ ॥
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॥ ५२ ॥