अद्वैतशारदा

भामतीव्याख्या

सङ्ख्योपसङ्ग्रहाधिकरणविषयाः

व्याख्याः

न सङ्ख्यो­प­स­ङ्ग्र­हा­दपि नाना­भा­वा­द­ति­रे­काच्च ।

अवा­न्त­र­स­ङ्ग­ति­माह -
एवं परिहृतेऽपीति ।
पञ्चजना इति हि समासार्थः पञ्चसङ्ख्यया सम्बध्यते । नच “दिक्सङ्ख्ये संज्ञायाम्”(पा.सू. २।१।५०) इति समा­स­वि­धा­ना­न्म­नु­जेषु निरूढोऽयं पञ्चजनशब्द इति वाच्यम् । तथाहि सति पञ्चमनुजा इति स्यात् । एवं चात्मनि पञ्च­म­नु­जा­ना­मा­का­शस्य च प्रतिष्ठानमिति निस्तात्पर्यं, सर्वस्यैव प्रतिष्ठानात् । तस्मा­द्रू­ढे­र­स­म्भ­वा­त्त­त्त्या­गे­नात्र योग आस्थेयः । जनशब्दश्च कथ­ञ्चि­त्त­त्त्वेषु व्याख्येयः । तत्रापि किं पञ्च प्राणादयो वाक्यशेषगता विवक्ष्यन्ते उत तदतिरिक्ता अन्य एव वा केचित् । तत्र पौर्वा­प­र्य­प­र्या­लो­च­नया कण्व­मा­ध्य­न्दि­न­वा­क्य­यो­र्वि­रो­धात् । एकत्र हि ज्योतिषा पञ्च­त्व­म­न्ने­ने­त­रत्र । नच षोड­शि­ग्र­ह­ण­व­द्वि­क­ल्प­स­म्भवः । अनुष्ठानं हि विकल्प्यते न वस्तु । वस्तुतत्त्वकथा चेयं नानुष्ठानकथा, विध्यभावात् । तस्मा­त्का­नि­चि­देव तत्त्वानीह पञ्च प्रत्येकं पञ्च­स­ङ्ख्या­यो­गीनि पञ्च­विं­श­ति­त­त्त्वानि भवन्ति । साङ्ख्यैश्च प्रकृत्यादीनि पञ्च­विं­श­ति­त­त्त्वानि स्मर्यन्त इति तान्येवानेन मन्त्रेणोच्यन्त इति नाशब्दं प्रधानादि । न चाधा­र­त्वे­ना­त्मनो व्यव­स्था­ना­त्स्वा­त्मनि चाधाराधेयभावस्य विरोधात् आकाशस्य च व्यतिरेचनात् त्रयो­विं­श­ति­र्जना इति स्यान्न पञ्च पञ्चजना इति वाच्यम् । सत्य­प्या­का­शा­त्म­नो­र्व्य­ति­रे­चने मूलप्रकृतिभागैः सत्त्व­र­ज­स्त­मोभिः पञ्च­विं­श­ति­स­ङ्ख्यो­प­पत्तेः । तथाच सत्या­त्मा­का­शाभ्यां सप्त­विं­श­ति­स­ङ्ख्यायां पञ्च­विं­श­ति­त­त्त्वा­नीति स्वसि­द्धा­न्त­व्या­कोप इति चेत् , न मूल­प्र­कृ­ति­त्व­मा­त्रे­णै­की­कृत्य सत्त्व­र­ज­स्त­मांसि पञ्च­विं­श­ति­त­त्त्वो­प­पत्तेः । हिरुग्भावेन तु तेषां सप्त­विं­श­ति­त्वा­वि­रोधः । तस्मान्नाशाब्दी साङ्ख्य­स्मृ­ति­रिति प्राप्तम् ।

मूलप्रकृतिः प्रधानम् । नासावन्यस्य विकृतिरपि तु प्रकृतिरेव तदिदमुक्तम् -
मूलेति ।
मह­द­ह­ङ्का­र­प­ञ्च­त­न्मा­त्राणि प्रकृतयश्च विकृतयश्च । तथाहि - मह­त्त­त्त्व­म­ह­ङ्का­रस्य तत्त्वान्तरस्य प्रकृ­ति­र्मू­ल­प्र­कृ­तेस्तु विकृतिः । एव­म­ह­ङ्का­र­तत्त्वं महतो विकृतिः, प्रकृतिश्च तदेव तामसं सत् पञ्च­त­न्मा­त्रा­णाम् । तदेव सात्त्विकं सत् प्रकृ­ति­रे­का­द­शे­न्द्रि­या­णाम् । पञ्चतन्मात्राणि चाहङ्कारस्य विकृ­ति­रा­का­शा­दीनां पञ्चानां प्रकृतिः ।

तदिदमुक्तम् -
महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारः ।
षोड­श­स­ङ्ख्या­व­च्छिन्नो गणो विकार एव । पञ्च­भू­ता­न्य­त­न्मा­त्रा­ण्ये­का­द­शे­न्द्रि­या­णीति षोडशको गणः । यद्यपि पृथिव्यादयो गोघटादीनां प्रकृतिस्तथापि न ते पृथि­व्या­दि­भ्य­स्त­त्त्वा­न्त­र­मिति न प्रकृतिः । तत्त्वा­न्त­रो­पा­दा­नत्वं चेह प्रकृ­ति­त्व­म­भि­मतं नोपा­दा­न­मा­त्र­त्व­मि­त्य­वि­रोधः । पुरुषस्तु कूट­स्थ­नि­त्योऽ­प­रि­णामो न कस्य­चि­त्प्र­कृ­ति­र्नापि विकृतिरिति ।

एवं प्राप्तेऽ­भि­धी­यते -
न सङ्ख्यो­प­स­ङ्ग्र­हा­दपि प्रधानादीनां श्रुति­म­त्त्वा­शङ्का कर्तव्या । कस्मात् नानाभावात् । नाना ह्येतानि पञ्च­विं­श­ति­त­त्त्वानि । नैषां पञ्चशः पञ्चशः साधा­र­ण­ध­र्मोऽस्ति ।
न खलु सत्त्व­र­ज­स्त­मो­म­ह­द­ह­ङ्का­रा­णा­मेकः क्रिया वा गुणो वा द्रव्यं वा जातिर्वा धर्मः पञ्च­त­न्मा­त्रा­दिभ्यो व्यावृत्तः सत्त्वादिषु चानुगतः कश्चिदस्ति । नापि पृथि­व्य­प्ते­जो­वा­यु­घ्रा­णा­नाम् । नापि रस­न­च­क्षु­स्त्व­क्श्रो­त्र­वा­चाम् । नापि पाणि­पा­द­पा­यू­प­स्थ­म­नसां, येनै­के­ना­सा­धा­र­णे­नो­प­गृ­हीताः पञ्च पञ्चका भवितुमर्हन्ति ।

पूर्व­प­क्षै­क­दे­शि­न­मु­त्था­प­यति -
अथोच्येत पञ्च­विं­श­ति­स­ङ्ख्यै­वे­य­मिति ।

यद्यपि परस्यां सङ्ख्या­या­म­वा­न्त­र­सङ्ख्या द्वित्वादिका नास्ति तथापि तत्पूर्वं तस्याः सम्भवात् पौर्वा­प­र्य­ल­क्ष­णया प्रत्यासत्त्या पर­स­ङ्ख्यो­प­ल­क्ष­णार्थं पूर्व­स­ङ्ख्यो­प­न्य­स्यत इति दूषयति -
अय­मे­वा­स्मि­न्पक्षे दोष इति ।

न च पञ्चशब्दो जनशब्देन समस्तोऽसमस्तः शक्यो वक्तुमित्याह -
परश्चात्र पञ्चशब्द इति ।

ननु भवतु समासस्तथापि किमित्यत आह -
समस्तत्वाच्चेति ।

अपि च वीप्सायां पञ्चकद्वयग्रहणे दशैव तत्त्वानीति न साङ्ख्य­स्मृ­ति­प्र­त्य­भि­ज्ञा­न­मि­त्य­स­मा­स­म­भ्यु­पे­त्याह -
न च पञ्चकद्वयग्रहणं पञ्च पञ्चेति ।

न चैका पञ्चसङ्ख्या पञ्च­स­ङ्ख्या­न्त­रेण शक्या विशेष्टुम् । पञ्चशब्दस्य सङ्ख्यो­प­स­र्ज­न­द्र­व्य­व­च­न­त्वेन सङ्ख्याया उपसर्जनतया विशे­ष­णे­ना­सं­यो­गा­दि­त्याह -
एकस्याः पञ्चसङ्ख्याया इति ।

तदेवं पूर्व­प­क्षै­क­दे­शिनि दूषिते पर­म­पू­र्व­प­क्षि­ण­मु­त्था­प­यति -
नन्वा­प­न्न­प­ञ्च­स­ङ्ख्याका जना एवेति ।
अत्र तावद्रूढौ सत्यां न योगः सम्भवतीति वक्ष्यते ।

तथापि यौगिकं पञ्च­ज­न­श­ब्द­म­भ्यु­पेत्य दूषयति -
युक्तं यत्प­ञ्च­पू­ली­श­ब्द­स्येति ।
पञ्चपूलीत्यत्र यद्यपि पृथ­क्त्वै­का­र्थ­सं­वा­यिनी पञ्च­स­ङ्ख्या­व­च्छे­दि­कास्ति तथापीह समु­दा­यि­नोऽ­व­च्छि­नत्ति न समुदायं समा­स­प­द­ग­म्य­म­त­स्त­स्मिन् कति ते समुदाया इत्यपेक्षायां पदान्तराभिहिता पञ्चसङ्ख्या सम्बध्यते पञ्चेति । पञ्चजना इत्यत्र तु पञ्च­स­ङ्ख्य­यो­त्प­त्ति­शि­ष्टया जना­ना­म­व­च्छि­न्न­त्वा­त्स­मु­दा­यस्य च पञ्च­पू­ली­व­द­त्रा­प्र­ती­तेर्न पदान्तराभिहिता सङ्ख्या सम्बध्यते ।

स्यादेतत् । सङ्ख्येयानां जनानां मा भूच्छ­ब्दा­न्त­र­वा­च्य­स­ङ्ख्या­व­च्छेदः । पञ्च­स­ङ्ख्या­यास्तु तयावच्छेदो भविष्यति । नहि साप्य­व­च्छि­न्ने­त्यत आह -
भवदपीदं विशेषणमिति ।
उक्तोऽत्र दोषः । नह्युपसर्जनं विशेषणेन युज्यते पञ्चशब्द एव ताव­त्स­ङ्ख्ये­यो­प­स­र्ज­न­स­ङ्ख्या­माह विशेषतस्तु पञ्चजना इत्यत्र समासे । विशे­ष­णा­पे­क्षायां तु न समासः स्यात् , असामर्थ्यात् । नहि भवति ऋद्धस्य राजपुरुष इति समासोऽपि तु (पद)वृत्तिरेव ऋद्धस्य राज्ञः पुरुष इति । सापे­क्ष­त्वे­ना­सा­म­र्थ्या­दि­त्यर्थः ।

अतिरेकाच्चेति ।
अभ्यु­च्च­य­मा­त्रम् । यदि सत्त्व­र­ज­स्त­मांसि प्रधा­ने­नै­की­कृ­त्या­त्मा­काशौ तत्त्वेभ्यो व्यतिरिच्येते तदा सिद्धा­न्त­व्या­कोपः । अथ तु सत्त्व­र­ज­स्त­मांसि मिथो भेदेन विवक्ष्यन्ते तथापि वस्तु­त­त्त्व­व्य­व­स्था­पने आधारत्वेनात्मा निष्कृष्यताम् । आधे­या­न्त­रे­भ्य­स्त्वा­का­श­स्या­धे­यस्य व्यति­रे­च­न­म­न­र्थ­क­मिति गमयितव्यम् ।

कथं च सङ्ख्या­मा­त्र­श्र­वणे सतीति ।
'दिक्सङ्ख्ये संज्ञायाम्” इति संज्ञायां समासस्मरणात् पञ्च­ज­न­श­ब्द­स्ता­व­दयं क्वचिन्निरूढः । नच रूढौ सत्या­म­व­य­व­प्र­सि­द्धे­र्ग्र­हणं, सापेक्षत्वात् , निरपेक्षत्वाच्च रूढेः । तद्यदि रूढौ मुख्योऽर्थः प्राप्यते ततः स एव ग्रहीतव्योऽथ त्वसौ न वाक्ये सम्बन्धार्हः पूर्वा­प­र­वा­क्य­वि­रोधी वा । ततो रूढ्य­प­रि­त्या­गे­नैव वृत्त्य­न्त­रे­णा­र्था­न्तरं कल्पयित्वा वाक्य­मु­प­पा­द­नी­यम् । यथा “श्येनेनाभिचरन् यजेत” इति श्येनशब्दः शकुनिविशेषे निरू­ढ­वृ­त्ति­स्त­द­प­रि­त्या­गे­नैव निप­त्या­दा­न­सा­दृ­श्ये­ना­र्थ­वा­दि­केन क्रतुविशेषे वर्तते, तथा पञ्च­ज­न­श­ब्दोऽ­व­य­वा­र्थ­यो­गा­न­पेक्ष एकस्मिन्नपि वर्तते । यथा सप्तर्षिशब्दो वसिष्ठ एकस्मिन् सप्तसु च वर्तते । न चैष तत्त्वेषु रूढः । पञ्च­विं­श­ति­स­ङ्ख्या­नु­रो­धेन तत्त्वेषु वर्तयितव्यः । रूढौ सत्यां पञ्चविंशतेरेव सङ्ख्याया अभावात्कथं तत्त्वेषु वर्तते ॥ ११ ॥

एवं च के ते पञ्चजना इत्यपेक्षायां किं वाक्यशेषगताः प्राणादयो गृह्यन्तामुत पञ्च­विं­श­ति­स्त­त्त्वा­नीति विशये तत्त्वा­ना­म­प्रा­मा­णि­क­त्वात् , प्राणादीनां च वाक्यशेषे श्रव­णा­त्त­त्प­रि­त्यागे श्रुत­हा­न्य­श्रु­त­क­ल्प­ना­प्र­स­ङ्गा­त्प्रा­णा­दय एव पञ्चजनाः । नच काण्व­मा­ध्य­न्दि­न­यो­र्वि­रो­धान्न प्राणादीनां वाक्य­शे­ष­ग­ता­ना­मपि ग्रहणमिति साम्प्रतम् , विरोधेऽपि तुल्यबलतया षोड­शि­ग्र­ह­ण­व­द्वि­क­ल्पो­प­पत्तेः । न चेयं वस्तुस्वरूपकथा, अपि­तू­पा­स­ना­नु­ष्ठा­न­विधिः, “मन­सै­वा­नु­द्र­ष्ट­व्यम्”(बृ. उ. ४ । ४ । १९) इति विधिश्रवणात् ।
कथं पुनः प्राणादिषु जनशब्दप्रयोग इति ।
जनवाचकः शब्दो जनशब्दः । पञ्चजनशब्द इति यावत् । तस्य कथं प्राणा­दि­ष्व­ज­नेषु प्रयोग इति व्याख्येयम् । अन्यथा तु प्रत्य­स्त­मि­ता­व­य­वार्थे समुदायशब्दार्थे जनशब्दार्थो नास्ती­त्य­प­र्य­नु­योग एव ।

रूढ्य­प­रि­त्या­गे­नैव वृत्त्यन्तरं दर्शयति -
जन­स­म्ब­न्धा­च्चेति ।
जनशब्दभाजः पञ्चजनशब्दभाजः ।

ननु सत्या­म­व­य­व­प्र­सिद्धौ समु­पा­य­श­क्ति­क­ल्प­न­म­नु­प­पन्नं, सम्भवति च पञ्चविंशत्यां तत्त्वे­ष्व­व­य­व­प्र­सि­द्धि­रि­त्यत आह -
समासबलाच्चेति ।

स्यादेतत् । समा­स­ब­ला­च्चे­द्रू­ढि­रा­स्थी­यते हन्त न दृष्टस्तर्हि तस्य प्रयो­गोऽ­श्व­क­र्णा­दि­व­द्वृ­क्षा­दिषु । तथाच लोक­प्र­सि­द्ध्य­भा­वान्न रूढि­रि­त्या­क्षि­पति -
कथं पुनरसतीति ।

जनेषु ताव­त्प­ञ्च­ज­न­श­ब्दश्च प्रथमः प्रयोगो लोकेषु दृष्ट इत्यसति प्रथमप्रयोग इत्यसिद्धमिति स्थवी­य­स्त­या­न­भि­धा­या­भ्यु­पेत्य प्रथ­म­प्र­यो­गा­भावं समाधत्ते -
शक्यो­द्भि­दा­दि­व­दिति ।
आचार्यदेशीयानां मतभेदेष्वपि न पञ्च­विं­श­ति­स्त­त्त्वानि सिध्यन्ति ।

परमार्थतस्तु पञ्चजना वाक्यशेषगता एवेत्याशयवानाह -
कैश्चित्त्विति ।
शेष­म­ति­रो­हि­ता­र्थम् ॥ १२ ॥ ॥ १३ ॥