भामतीव्याख्या
उपसंहाराधिकरणविषयः
कञ्चिद्विशेषमाशङ्क्य पूर्वतन्त्रप्रसाधितम् । वक्ष्यमाणार्थसिद्ध्यर्थमर्थमाह स्म सूत्रकृत् ॥ चिन्ताप्रयोजनप्रदर्शनार्थं सूत्रम् –
उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ।
अत्रैदमाशङ्कते भवतु सर्वशाखाप्रत्ययमेकं विज्ञानं तथापि शाखान्तरोक्तानां तदङ्गान्तराणां न शाखान्तरोक्ते तस्मिन्नुपसंहारो भवितुमर्हति । तस्यैकस्य कर्मणो यावन्मात्रमङ्गजातमेकस्यां शाखायां विहितं तावान्मात्रेणैवोपकारसिद्धेरधिकानपेक्षणात् । अपेक्षणे चाधिकमपि तत्र विधीयेत । नच विहितम् । तस्माद्यथा नैमित्तिकं कर्म सकलाङ्गवद्विहितमपि अशक्तौ यावच्छक्यमङ्गमनुष्ठातुं तावन्मात्रजन्येनोपकारेणौपकृतं भवत्येवमिहाप्यङ्गान्तराविधानादेव भविष्यतीति । एवं प्राप्त उच्यते सर्वत्रैकत्वे कर्मणः स्थिते गृहमेधीयन्यायेन नोपकारावच्छेदो युज्यते । नहि तदेव कर्म सत्तदङ्गमपेक्षते नापेक्षते चेति युज्यते । नैमित्तिके तु निमित्तानुरोधादवश्यकर्तव्ये सर्वाङ्गोपसंहारस्य सदातनत्वासम्भवादुपकारावच्छेदः कल्प्यते । प्राकृतोपकारपिण्डे चोदकप्राप्ते आज्यभागविधानाद्गृहमेधीयेऽप्युपकारावच्छेदः स्यात् । इह तु शाखान्तरे कतिपयाङ्गविधानं तानि विधत्ते नेतराणि परिसञ्चष्टे । नच तदुपकारपिण्डे चोदकप्राप्ते आज्यभागवत्तन्मात्रविधानम् । तस्मात्तत्त्वेन कर्मणां सर्वाङ्गसङ्गम औत्सर्गिकोऽसति बलवति बाधके नापवदितुं युक्त इति ॥ ५ ॥