अद्वैतशारदा

भामतीव्याख्या

रश्म्यधिकरणविषयौ

व्याख्याः

रश्म्यनुसारी ।
रात्रावहनि चाविशेषेण रश्म्यनुसारी सन्ना­दि­त्य­म­ण्डलं प्राप्नोतीति सिद्धा­न्त­प­क्ष­प्र­तिज्ञा ॥ १८ ॥

पूर्व­प­क्ष­मा­श­ङ्कते सूत्रावयवेन –
निशि नेति चेन् ।

सूत्रा­व­य­वा­न्त­रेण निराकरोति –
न सम्बन्धस्य याव­द्दे­ह­भा­वि­त्वा­द्द­र्श­यति च ।
यावद्देहभावि हि शिरा­कि­र­ण­स­म्पर्कः प्रमा­णा­न्त­रा­त्प्र­ती­यते । दर्शयति चैतमर्थं श्रुतिरप्यशेषेण । अमु­ष्मा­दा­दि­त्या­त्प्र­ता­यन्ते रश्मयस्त आसु नाडीषु सृप्ता भवन्ति य आभ्यो नाडीभ्यः प्रतायन्ते विस्तार्यन्ते ते रश्म­योऽ­मु­ष्मि­न्ना­दित्ये सृप्ताः ।

प्रता­पा­दि­का­र्य­द­र्श­ना­दिति ।

आदिग्रहणेन चन्द्रापः सङ्गृह्यन्ते । चन्द्रमसा खल्वम्मयेन सम्बध्यमानानां सूरीणां भासां चन्द्रिकात्वम् । तस्मादप्यस्ति निशि सौर्य­र­श्मि­प्र­चार इति । ये त्वाहुः स याव­त्क्षि­प्ये­न्म­न­स्ता­व­दा­दित्यं गच्छेदिति निर­पे­क्ष­श्र­व­णा­द्रात्रौ प्रेते नास्ति रश्म्यपेक्षेति । तान्प्रत्याह –
यदि च रात्रौ प्रेत इति ।

नह्ये­त­द्वि­शि­ष्या­धी­य­तेऽ­ध्ये­तारः । ये तु मन्यन्ते विद्वानपि रात्रि­प्रा­य­णा­प­रा­धेन नोर्ध्वमाक्रमत इति तान्प्रत्याह –
अथ तु विद्वानपीति ।
नित्य­व­त्फ­ल­स­म्ब­न्धेन विहिता विद्या न पाक्षिकफला युक्तेति ।

ये तु रात्रौ प्रेतस्य विदु­षोऽ­ह­र­पेक्षां सूर्य­म­ण्ड­ल­प्रा­प्ति­मा­च­क्षते तन्मतमाशङ्क्याह –
अथापि रात्राविति ।
याव­त्ता­व­दु­प­ब­न्धे­ना­न­पेक्षा गतिः श्रुता । न चापेक्षा शक्यावगमा उप­ब­न्ध­वि­रो­धा­दिति ॥ १९ ॥