भामतीव्याख्या
पारिप्लवाधिकरणविषयौ
पारिप्लवार्था इति चेन्न विशेषितत्वात् ।
यद्यपि उपनिषदाख्यानानि विद्यासंनिधौ श्रुतानि तथापि “सर्वाण्याख्यानानि पारिप्लवे” इति सर्वश्रुत्या निःशेषार्थतया दुर्बलस्य संनिधेर्बाधितत्वात्पारिप्लवार्थान्येवाख्यानानि । नच सर्वा दाशतयीरनुब्रूयादिति विनियोगेऽपि दाशतयीनां प्रातिस्विकविनियोगात्तत्र तत्र कर्मणि यथा विनियोगो न विरुध्यते तथेहापि सत्यपि पारिप्लवे विनियेगे संनिधानाद्विद्याङ्गत्वमपि भविष्यतीति वाच्यम् । दाशतयीषु प्रातिस्विकानां विनियोगानां समुदायविनियोगस्य च तुल्यबलत्वादिह तु संनिधानात्श्रुतेर्बलीयस्त्वात् । तस्मात्पारिप्लवार्थान्येवाख्यानानीति प्राप्त उच्यते - नैषामाख्यानानां पारिप्लवे विनियोगः । किन्तु पारिप्लवमाचक्षीतेत्युपक्रम्य यान्याम्नातानि मनुर्वैवस्वतो राजेत्यादीनि तेषामेव तत्र विनियोगः, तान्येव हि पारिप्लवेन विशेषितानि । इतरथा पारिप्लवे सर्वाण्याख्यानानित्येतावतैव गतत्वात्पारिप्लवमाचक्षीतेत्यनर्थकं स्यात् । आख्यानविशेषणत्वे त्वर्थवत् । तस्माद्विशेषाणानुरोधात्सर्वशब्दस्तदपेक्षो न त्वशेषवचनः । यथा सर्वे ब्राह्मणा भोजयितव्या इत्यत्र निमन्त्रितापेक्षः सर्वशब्दः । तथा चोपनिषदाख्यानानां विद्यासंनिधिरप्रतिद्वन्दीं विद्यैकवाक्यतां सोऽरोदीदित्यादीनामिव विद्येकवाक्यत्वं गमयतीति सिद्धम् । प्रतिपत्तिसौकर्याच्चेत्युपाख्यानेन हि बाला अप्यवधीयन्ते यथा तन्त्रोपाख्यायिकयेति ॥ २३ ॥
तथा चैकवाक्यतोपबन्धात् ॥ २४ ॥