भामतीव्याख्या
समानाधिकरणविषयः
समान एवं चाभेदात् ।
इहाभ्यासाधिकरणन्यायेन पूर्वः पक्षः । द्वयोर्विद्याविध्योरेकशाखागतयोरगृह्ममाणविशेषतया कस्य कोऽनुवाद इति विनिश्चयाभावादज्ञातज्ञापनाप्रवृत्तप्रवर्तनारूपस्य च विधित्वस्य स्वरससिद्धेरुभयत्रोपासनाभेदः । नच गुणान्तरविधानायैकत्रानुवाद उभयत्रापि गुणान्तरविधानोपलब्धेर्विनिगमनाहेत्वभावात्समानगुणानभिधानप्रसङ्गाच्च । तस्मात्समिधो यजतीत्यादिवदभ्यासादुपासनाभेद इति प्राप्त उच्यते - ऐककर्म्यमेकत्वेन प्रत्यभिज्ञानात् । न चागृह्यमाणविशेषता । यत्र भूयांसो गुणा यस्य कर्मणो विधीयन्ते तत्र तस्य प्रधानस्य विधिरितरत्र तु तदनुवादेन कतिपयगुणविधिः । यथा यत्र छत्रचामरपताकाहास्तिकाश्वीयशक्तीकयाष्टीकधानुष्ककार्पाणिकप्रासिकपदातिप्रचयस्तत्रास्ति राजेति गम्यते न तु कतिपयगजवाजिपदातिभाजि तदमात्ये, तथेहापि । न चैकत्र विहितानां गुणानामितरत्रोक्तिरनर्थिका प्रत्यभिज्ञानदार्ढ्यार्थत्वात् । अस्तु वास्मिन्नित्यानुवादो नह्यनुवादानामवश्यं सर्वत्र प्रयोजनवत्त्वम् । अनुवादमात्रस्यापि तत्र तत्रोपलब्धेः । तस्मात्तदेव बृहदारण्यकेऽप्युपासनं तद्गुणेनोपसंहारादिति सिद्धम् ॥ १९ ॥