अद्वैतशारदा

भामतीव्याख्या

भूमाधिकरणविषयाः

व्याख्याः

भूमा सम्प्र­सा­दा­द­ध्यु­प­दे­शात् ।
नारदः खलु देवर्षिः कर्म­वि­द­ना­त्म­वि­त्तया शोच्यमात्मानं मन्यमानो भग­व­न्त­मा­त्म­ज्ञ­मा­जा­न­सिद्धं महायोगिनं सन­त्कु­मा­र­मु­प­स­साद । उपसद्य चोवाच , भगवन् , अना­त्म­ज्ञ­ता­ज­नि­त­शो­क­सा­ग­र­पा­र­मु­त्ता­र­यतु मां भगवानिति । तदुपश्रुत्य सनत्कुमारेण ‘नाम ब्रह्मे­त्यु­पास्स्व’ इत्युक्ते नारदेन पृष्टं किंनाम्नोऽस्ति भूय इति । तत्र सनत्कुमारस्य प्रतिवचनम् - “वाग्वाव नाम्नो भूयसी”(छा. उ. ७ । २ । १) इति तदेवं नार­द­स­न­त्कु­मा­र­यो­र्भू­यसी । प्रश्नोत्तरे वागि­न्द्रि­य­मु­प­क्रम्य मनः­स­ङ्क­ल्प­चि­त्त­ध्या­न­वि­ज्ञा­न­ब­ला­न्न­तो­य­वा­यु­स­हि­त­ते­जो­न­भः­स्म­रा­शा­प्रा­णेषु पर्यवसिते । कर्त­व्या­क­र्त­व्य­वि­वेकः सङ्कल्पः, तस्य कारणं पूर्वा­प­र­वि­ष­य­नि­मि­त्त­प्र­यो­ज­न­नि­रू­पणं चित्तम् । स्मरः स्मरणम् । प्राणस्य च सम­स्त­क्रि­या­का­र­क­फ­ल­भे­देन पित्रा­द्या­त्म­त्वेन च रथा­र­ना­भि­दृ­ष्टा­न्तेन सर्व­प्र­ति­ष्ठ­त्वेन च प्राण­भू­य­स्त्व­द­र्शि­नोऽ­ति­वा­दि­त्वेन च नामा­दि­प्र­प­ञ्चा­दा­शा­न्ता­द्भू­य­स्त्व­मु­क्त्वा­पृष्ट एव नारदेन सनत्कुमार एकग्रन्थेन “एष तु वा अतिवदति यः सत्येनातिवदति”(छा. उ. ७ । १५ । १) इति सत्या­दी­न्कृ­ति­प­र्य­न्ता­नु­क्त्वो­प­दि­देश - “सुखं त्वेव विजि­ज्ञा­सि­त­व्यम्”(छा. उ. ७ । २२ । १) इति । तदुपश्रुत्य नारदेन - “सुखं त्वेव भगवो विजिज्ञासे”(छा. उ. ७ । २१ । १) इत्युक्ते सनत्कुमारः “यो वै भूमा तत्सुखम्”(छा. उ. ७ । २३ । १) इत्युपक्रम्य भूमानं व्युत्पा­द­या­म्ब­भूव - “यत्र नान्यत्पश्यति”(छा. उ. ७ । २४ । १) इत्यादिना । तदीदृशे विषये विचार आरभ्यते । तत्र संशयःकिं प्राणो भूमा स्यादाहो परमात्मेति । भाव­भ­वि­त्रो­स्ता­दा­त्म्य­वि­व­क्षया सामानाधिकरण्यं संशयस्य बीजमुक्तं भाष्यकृता । तत्र “एतस्मिन् ग्रन्थसन्दर्भे यदु­क्ता­द्भू­य­सोऽ­न्यतः । उच्यमानं तु तद्भूय उच्यते प्रश्नपूर्वकम्” ॥ नच प्राणात्किं भूय इति पृष्टम् । नापि भूमा वास्मा­द्भू­या­निति प्रत्युक्तम् । तस्मा­त्प्रा­ण­भू­य­स्त्वा­भि­धा­ना­न­न्त­र­म­पृ­ष्ठेन भूमोच्यमानः प्राणस्यैव भवितुमर्हति । अपिच भूमेति भावो न भवितारमन्तरेण शक्यो निरूपयितुमिति भवि­ता­र­म­पे­क्ष­माणः प्राण­स्या­न­न्त­र्येण बुद्धि­सं­नि­धा­ना­त्त­मेव भवितारं प्राप्य निर्वृणोति । “यस्योभयं हवि­रा­र्ति­मा­र्च्छेत्” इत्य­त्रा­र्ति­रि­वार्तं हविः । यथाहुः “मृष्यामहे हविषा विशेषणम्” इति । न चात्मनः प्रकरणादात्मैव बुद्धिस्थ इति तस्यैव भूमा स्यादिति युक्तम् । सनत्कुमारस्य ‘नाम ब्रह्मे­त्यु­पास्स्व’ इति प्रती­को­प­दे­श­रू­पे­णो­त्त­रेण नार­द­प्र­श्न­स्यापि तद्विषयत्वेन पर­मा­त्मो­प­दे­श­प्र­क­र­ण­स्या­नु­त्था­नात् । अतद्विषयत्वे चोत्तरस्य प्रश्नो­त्त­र­यो­र्वै­य­धि­क­र­ण्येन विप्र­ति­प­त्ते­र­प्रा­मा­ण्य­प्र­स­ङ्गात् । तस्मादसति प्रकरणे प्राण­स्या­न­न्त­र्या­त्त­स्यैव भूमेति युक्तम् । तदेतत्संशयबीजं दर्शयता भाष्यकारेण सूचितं पूर्व­प­क्ष­सा­ध­न­मिति न पुनरुक्तम् । नच भूयोभूयः प्रश्ना­त्प­र­मा­त्मैव नारदेन जिज्ञासित इति युक्तम् । प्राणो­प­दे­शा­न­न्तरं तस्योपरमात् । तदेवं प्राण एव भूमेति स्थिते यद्य­त्त­द्वि­रो­धि­तया वचः प्रतिभाति तत्तदनुगुणतया नेयम् । नीतं च भाष्यकृता ।

स्यादेतत् । “एष तु वा अतिवदति”(छा. उ. ७ । १७ । १) इति तुशब्देन प्राण­द­र्शि­नोऽ­ति­वा­दिनो व्यवच्छिद्य सत्ये­ना­ति­वा­दित्वं वदन् कथं प्राणस्य भूमा­न­म­भि­द­धी­ते­त्यत आह -
प्राणमेव त्विति ।

प्राण­द­र्शि­न­श्चा­ति­वा­दि­त्व­मिति ।
नामा­द्या­शा­न्त­म­तीत्य वद­न­शी­ल­त्व­मि­त्यर्थः । एतदुक्तं भवति - नायं तुशब्दः प्राणा­ति­वा­दि­त्वा­द्व­य­व­च्छि­नत्ति, अपितु तद­ति­वा­दि­त्व­म­प­रि­त्यज्य प्रत्युत तदनुकृष्य तस्यैव प्राणस्य सत्यस्य श्रव­ण­म­न­न­श्र­द्धा­नि­ष्ठा­कृ­ति­भि­र्वि­ज्ञा­नाय निश्चयाय सत्येनातिवदतीति प्राण­व्र­त­मे­वा­ति­वा­दि­त्व­मु­च्यते । तुशब्दो नामा­द्य­ति­वा­दि­त्वा­द्व्य­व­च्छि­नत्ति । न नामा­द्या­शा­न्त­वा­द्य­ति­वादि, अपितु सत्य­प्रा­ण­वा­द्य­ति­वा­दी­त्यर्थः । अत्र चाग­मा­चा­र्यो­प­दे­शाभ्यां सत्यस्य श्रवणम् । अथा­ग­मा­वि­रो­धि­न्या­य­नि­वे­शनं मननं, मत्वा च गुरु­शि­ष्य­स­ब्र­ह्म­चा­रि­भि­र­न­सू­युभिः सह संवाद्य तत्त्वं श्रद्धत्ते । श्रद्धानन्तरं च विषयान्तरदर्शी विरक्तस्ततो व्यावृ­त्त­स्त­त्त्व­ज्ञा­ना­भ्यासं करोति, सेयमस्य कृतिः प्रयत्नः । अथ तत्त्व­ज्ञा­ना­भ्या­स­निष्ठा भवति, यदनन्तरमेव तत्त्व­वि­ज्ञा­न­म­नु­भवः प्रादुर्भवति । तदेतद्बाह्या । अप्याहुः - “भूता­र्थ­भा­व­ना­प्र­क­र्ष­प­र्य­न्तजं योगिज्ञानम्” इति भावनाप्रकर्षस्य पर्यन्तो निष्ठा तस्माज्जायते तत्त्वानुभव इति । तस्मात्प्राण एव भूमेति प्राप्तेऽ­भि­धी­यते “एष तु वा अतिवदति यः सत्येनातिवदति”(छा. उ. ७ । १७ । १) इत्युक्त्वा भूमोच्यते । तत्र सत्यशब्दः परमार्थे निरूढवृत्तिः श्रुत्या परमार्थमाह । परमार्थश्च परमात्मैव । ततो ह्यन्यत्सर्वं विकारजातमनृतं कयाचिदपेक्षया कथ­ञ्चि­त्स­त्य­मु­च्यते । तथाच “एष तु वा अतिवदति यः सत्येनातिवदति” इति ब्रह्म­णोऽ­ति­वा­दित्वं श्रुत्या­न्य­नि­र­पे­क्षया लिङ्गादिभ्यो बलीयस्यावगमितं कथमिव संनिधानमात्रात् श्रुत्या­द्य­पे­क्षा­द­ति­दु­र्ब­ला­त्कथं चित्प्रा­ण­वि­ष­य­त्वेन शक्यं व्याख्यातुम् । एवं च प्राणादूर्ध्वं ब्रह्मणि भूमावगम्यमानो न प्राणविषयो भवितुमर्हति, किन्तु सत्यस्य परमात्मन एव । एवं चानात्मविद आत्मानं विवि­दि­षो­र्ना­र­दस्य प्रश्ने पर­मा­त्मा­न­मे­वास्मै व्याख्या­स्या­मी­त्य­भि­स­न्धि­मा­न्स­न­त्कु­मारः सोपा­ना­रो­ह­ण­न्या­येन स्थूलादारभ्य तत्त­द्भू­म­व्यु­त्पा­द­न­क्र­मेण भूमा­न­म­ति­दु­र्ज्ञा­न­तया परमसूक्ष्मं व्युत्पादयामास । नच प्रश्न­पू­र्व­ता­प्र­वा­ह­प­ति­ते­नो­त्त­रेण सर्वेण प्रश्नपूर्वेणैव भवितव्यमिति निय­मोऽ­स्ती­त्या­दि­सु­ग­मेन भाष्येण व्युत्पादितम् । विज्ञा­ना­दि­सा­ध­न­प­र­म्परा मननश्रद्धादिः, प्राणान्ते चानुशासने तावन्मात्रेणैव प्रक­र­ण­स­मा­प्तेर्न प्राण­स्या­न्या­य­त्त­तो­च्येत । तदभिधाने हि सापेक्षत्वेन न प्रकरणं समाप्येत । तस्मान्नेदं प्राणस्य प्रकरणमपि तु यदायत्तः प्राणस्तस्य, स चात्मेत्यात्मन एव प्रकरणम् ।

शङ्कते -
प्रकरणान्त इति ।
प्राण­प्र­क­र­ण­स­मा­प्ता­वि­त्यर्थः ।

निराकरोति -
न ।

स भगव इति ।
सन्दंशन्यायेन हि भूम्न एतत्प्रकरणं, स चेद्भूमा प्राणः, प्राण­स्यै­त­त्प्र­क­रणं भवेत् । तच्चा­यु­क्त­मि­त्यु­क्तम् ॥ ८ ॥

न केवलं श्रुते­र्भू­मा­त्मता परमात्मनः, लिङ्गादपीत्याह सूत्रकारः -
धर्मोपपत्तेश्च ।

यदपि पूर्वपक्षिणा कथञ्चिन्नीतं तदनुभाष्य भाष्यकारो दूषयति -
योऽप्यसौ सुषु­प्ता­व­स्था­या­मिति ।
सुषु­प्ता­व­स्था­या­मि­न्द्रि­या­द्य­सं­यो­ग्या­त्मैव । न प्राणः । पर­मा­त्म­प्र­क­र­णात् । अन्यदार्तम् । विन­श्व­र­मि­त्यर्थः । अति­रो­हि­ता­र्थ­म­न्यत् ॥ ९ ॥