अद्वैतशारदा

भामतीव्याख्या

सुषुप्त्युत्क्रान्त्यधिकरणविषयौ

व्याख्याः

सुषु­प्त्यु­त्क्रा­न्त्यो­र्भे­देन ।
'आदि­म­ध्या­व­सा­नेषु संसा­रि­प्र­ति­पा­द­नात् । तत्परे ग्रन्थसन्दर्भे सर्वं तत्रैव योज्यते” ॥ संसार्येव ताव­दा­त्मा­ह­ङ्का­रा­स्प­द­प्रा­णा­दि­प­रीतः सर्वजनसिद्धः । तमेव च “योऽयं विज्ञानमयः प्राणेषु”(बृ. उ. ४ । ३ । ७) इत्या­दि­श्रु­ति­स­न्दर्भ आदि­म­ध्या­व­सा­ने­ष्वा­मृ­श­तीति तदनुवादपरो भवितुमर्हति । एवं च संसार्यात्मैव किञ्चिदपेक्ष्य महान् , संसारस्य चाना­दि­त्वे­ना­ना­दि­त्वा­दज उच्यते, न तु तदतिरिक्तः कश्चिदत्र नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भावः प्रतिपाद्यः । यत्तु सुषु­प्त्यु­त्क्रान्त्योः प्राज्ञेनात्मना सम्परिष्वक्त इति भेदं मन्यसे, नासौ भेदः किन्त्व­य­मा­त्म­शब्दः स्वभाववचनः, तेन सुषु­प्त्यु­त्क्रा­न्त्य­व­स्थायां विशे­ष­वि­ष­या­भा­वा­त्स­म्पि­ण्डि­त­प्र­ज्ञेन प्राज्ञेनात्मना स्वभावेन परिष्वक्तो न किञ्चि­द्वे­दे­त्य­भे­देऽपि भेदवदुपचारेण योजनीयम् । यथाहुः - “प्राज्ञः सम्पि­ण्डि­त­प्रज्ञः” इति । प्रत्यादयश्च शब्दाः संसारिण्येव कार्य­क­र­ण­स­ङ्घा­ता­त्म­कस्य जगतो जीव­क­र्मा­र्जि­त­तया तद्भोग्यतया च योजनीयाः । तस्मा­त्सं­सा­र्ये­वा­नू­द्यते न तु परमात्मा प्रतिपाद्यत इति प्राप्तम् । एवं प्राप्तेऽ­भि­धी­यते - सुषु­प्त्यु­त्क्रा­न्त्यो­र्भे­देन व्यप­दे­शा­दि­त्य­नु­व­र्तते । अयमभिसन्धिः - किं संसारिणोऽन्यः परमात्मा नास्ति, तस्मा­त्सं­सा­र्या­त्म­परं “योऽयं विज्ञानमयः प्राणेषु” इति वाक्यम् , आहोस्विदिह संसा­रि­व्य­ति­रे­केण पर­मा­त्म­नोऽ­स­ङ्की­र्त­ना­त्सं­सा­रि­ण­श्चा­दि­म­ध्या­व­सा­ने­ष्व­व­म­र्श­ना­त्सं­सा­र्या­त्म­परं, न ताव­त्सं­सा­र्य­ति­रि­क्तस्य तस्याभावः । तत्प्रतिपादका हि शतश आगमाः “ईक्ष­ते­र्ना­श­ब्दम्”(ब्र. सू. १ । १ । ५) “गतिसामान्यात्”(ब्र. सू. १ । १ । १०) इत्यादिभिः सूत्र­स­न्द­र्भै­रु­प­पा­दिताः । न चात्रापि संसा­र्य­ति­रि­क्त­प­र­मा­त्म­स­ङ्की­र्त­ना­भावः, सुषु­प्त्यु­त्क्रा­न्त्यो­स्त­त्स­ङ्की­र्त­नात् । नच प्राज्ञस्य परमात्मनो जीवाद्भेदेन सङ्कीर्तनं सति सम्भवे राहोः शिर इतिवदौपचारिकं युक्तम् । नच प्राज्ञशब्दः प्रज्ञा­प्र­क­र्ष­शा­लिनि निरूढवृत्तिः कथञ्चिदज्ञविषयो व्याख्या­तु­मु­चितः । नच प्रज्ञा­प्र­क­र्षोऽ­स­ङ्कु­च­द्वृ­त्ति­र्वि­दि­त­स­म­स्त­वे­दि­त­व्या­त्स­र्व­वि­दोऽ­न्यत्र सम्भवति । न चेत्थम्भूतो जीवात्मा । तस्मा­त्सु­षु­प्त्यु­त्क्रा­न्त्यो­र्भे­देन जीवा­त्प्रा­ज्ञस्य परमात्मनो व्यपदेशात् “योऽयं विज्ञानमयः”(बृ. उ. ४ । ३ । ७) इत्यादिना जीवात्मानं लोकसिद्धमनूद्य तस्य पर­मा­त्म­भा­वोऽ­न­धि­गतः प्रतिपाद्यते । नच जीवा­त्मा­नु­वा­द­मा­त्र­प­रा­ण्ये­तानि वचांसि । अन­धि­ग­ता­र्था­व­बो­ध­न­परं हि शाब्दं प्रमाणं, न त्वनु­वा­द­मा­त्र­निष्ठं भवितुमर्हति । अत एव च संसारिणः पर­मा­त्म­भा­व­वि­धा­ना­या­दि­म­ध्या­व­सा­ने­ष्व­नु­वा­द्य­त­याऽ­व­मर्श उपपद्यते । एवं च महत्त्वं चाजत्वं च सर्वगतस्य नित्यस्यात्मनः सम्भ­वा­न्ना­पे­क्षिकं कल्पयिष्यते ।

यस्तु मध्ये बुद्धा­न्ता­द्य­व­स्थो­प­न्या­सा­दिति ।
नाने­ना­व­स्था­वत्त्वं विवक्ष्यते । अपि त्वव­स्था­ना­मु­प­ज­ना­पा­य­ध­र्म­क­त्वेन तद­ति­रि­क्त­म­व­स्था­र­हितं परमात्मानं विवक्षति, उप­रि­त­न­वा­क्य­स­न्द­र्भा­लो­च­ना­दिति ॥ ४२ ॥

पत्या­दि­श­ब्देभ्यः ।

सर्वस्य वशी ।
वशः सामर्थ्यं सर्वस्य जगतः प्रभवत्ययम् , व्यूहा­व­स्था­न­स­मर्थ इति । अत एव सर्वस्येशानः, सामर्थ्येन ह्ययमुक्तेन सर्वस्येष्टे, तदि­च्छा­नु­वि­धा­ना­ज्ज­गतः । अत एव सर्वस्याधिपतिः सर्वस्य नियन्ता । अन्तर्यामीति यावत् । किञ्च स एवंभूतो हृद्य­न्त­र्ज्योतिः पुरुषो विज्ञानमयो न साधुना कर्मणा भूयानुत्कृष्टो भव­ती­त्ये­व­माद्याः श्रुत­योऽ­सं­सा­रिणं परमात्मानमेव प्रतिपादयन्ति । तस्मा­ज्जी­वा­त्मानं माना­न्त­र­सि­द्ध­म­नूद्य तस्य ब्रह्म­भा­व­प्र­ति­पा­द­न­परो “योऽयं विज्ञानमयः”(बृ. उ. ४ । ३ । ७) इत्या­दि­वा­क्य­स­न्दर्भ इति सिद्धम् ॥ ४३ ॥
इति श्रीम­द्वा­च­स्प­ति­मि­श्र­वि­र­चि­त­शा­री­र­क­भ­ग­व­त्पा­द­भा­ष्य­वि­भागे भामत्यां प्रथ­म­स्या­ध्या­यस्य तृतीयः पादः ॥ ३ ॥
॥ इति प्रथमाध्यायस्य ज्ञेय­ब्र­ह्म­प्र­ति­पा­द­का­स्प­ष्ट­श्रु­ति­स­म­न्व­या­ख्य­स्तृ­तीयः पादः ॥