भामतीव्याख्या
समुदायाधिकरणविषयाः
समुदाय उभयहेतुकेऽपि तदप्राप्तिः ।
अवान्तरसङ्गतिमाह
वैशेषिकराद्धान्त इति ।
वैशेषिकाः खल्वर्धवैनाशिकाः । ते हि परमाण्वाकाशादिक्कालात्ममनसां च सामान्यविशेषसमवायानां च गुणानां च केषाञ्चिन्नित्यत्वमभ्युपेत्य शेषाणां निरन्वयविनाशमुपयन्ति, तेन तेऽर्धवैनाशिकाः । तेन तदुपन्यासो वैनाशिकत्वसाम्येन सर्ववैनाशिकान् स्मारयतीति तदनन्तरं वैनाशिकमतनिराकरणमिति । अर्धवैनाशिकानां स्थिरभाववादिनां समुदायारम्भ उपपद्येतापि, क्षणिकभाववादिनां त्वसौ दूरापेत इत्युपपादयिष्यामः । तेन नतरामित्युक्तम् । तदिदं दूषणाय वैनाशिकमतमुपन्यसितुं तत्प्रकारभेदानाह
स च बहुप्रकार इति ।
वादिवैचित्र्यात्खलु, केचित्सर्वास्तित्वमेव राद्धान्तं प्रतिपद्यन्ते केचिज्झानमात्रास्तित्वम् । केचित्सर्वशून्यताम् । अथ त्वत्रभवतां सर्वज्ञानां तत्त्वप्रतिपत्तिभेदो न सम्भवति, तत्त्वस्यैकरूप्यादित्येतदपरितोषेणाह
विनेयभेदाद्वा ।
हीनमध्यमोत्कृष्टधियो हि शिष्या भवन्ति । तत्र ये हीनमतयस्ते सर्वास्तित्ववादेन तदाशयानुरोधाच्छून्यतायामवतार्यन्ते । ये तु मध्यमास्ते ज्ञानमात्रास्तित्वेन शून्यतायामवतार्यन्ते । ये तु प्रकृष्टमतयस्तेभ्यः साक्षादेव शून्यतातत्त्वं प्रतिपाद्यते । यथोक्तं बोधिचित्तविवरणे -“देशना लोकनाथानां सत्त्वाशयवशानुगाः । भिद्यन्ते बहुधा लोक उपायैर्बहुभिः पुनः ॥ १ ॥ गम्भीरोत्तानभेदेन क्वचिच्चोभयलक्षणा । भिन्नापि देशनाभिन्ना शून्यताद्वयलक्षणा” ॥ २ ॥ इति । यद्यपि वैभाषिकसौत्रान्तिकयोरवान्तरमतभेदोऽस्ति, तथापि सर्वास्तितायामस्ति सम्प्रतिपत्तिरित्येकीकृत्योपन्यासः । तथा च त्रित्वमुपपन्नमिति । पृथिवी स्वरस्वभावा, आपः स्नेहस्वभावाः, अग्निरुष्णस्वभावः, वायुरीरणस्वभावः । ईरणं प्रेरणम् । भूतभौतिकानुक्त्वा चित्तचैत्तिकानाह
तथा रूपेति ।
रूप्यन्ते एभिरिति रूप्यन्त इति च व्युत्पत्या सविषयाणीन्द्रियाणि रूपस्कन्धः । यद्यपि रूप्यमाणाः पृथिव्यादयो बाह्यास्तथापि कायस्थत्वाद्वा इन्द्रियसम्बन्धाद्वा भवन्त्याध्यात्मिकाः । विज्ञानस्कन्धोऽहमित्याकारो रूपादिविषय इन्द्रियादिजन्यो वा दण्डायमानः । वेदनास्कन्धो या प्रियाप्रियानुभयविषयस्पर्शे सुखदुःखतद्रहितविशेषावस्था चित्तस्य जायते स वेदनास्कन्धः । संज्ञास्कन्धः सविकल्पप्रत्ययः संज्ञासंसर्गयोग्यप्रतिभासः, यथा डित्थः कुण्डली गौरो ब्राह्मणो गच्छतीत्येवंजातीयकः । संस्कारस्कन्धो रागादयः क्लेशाः, उपक्लेशाश्च मदमानादयः, धर्माधर्मौ चेति । तदेतेषां समुदायः पञ्चस्कन्धी ।
तस्मिन्नुभयहेतुकेऽपीति ।
बाह्ये पृथिव्या द्व्यणुहेतुके भूतभौतिकसमुदाये, रूपविज्ञानादिस्कन्धहेतुके च समुदाय आध्यात्मिकेऽभिप्रेयमाणे तदप्राप्तिस्तस्य समुदायस्यायुक्तता । कुतः ।
समुदायिनामचेतनत्वात् ।
चेतनो हि कुलालादिः सर्वं मृद्दण्डाद्युपसंहृत्य समुदायात्मकं घटमारचयन् दृष्टः । नह्यसति मृद्दण्डादिव्यापारिणि विदुषि कुलाले स्वयमचेतना मृद्दण्डादयो व्यापृत्य जातु घटमारचयन्ति । न चासति कुविन्दे तन्तुवेमादयः पटं वयन्ते । तस्मात्कार्योत्पादस्तदनुगुणकारणसमवधानाधीनस्तदभावे न भवति । कार्योत्पादानुगुणं च कारणसमवधानं चेतनप्रेक्षाधीनमसत्यां चेतनप्रेक्षायां न भवितुमुत्सहत इति कार्योत्पत्तिश्चेतनप्रेक्षाधीनत्वव्याप्ता व्यापकविरुद्धोपलब्ध्या चेतनानधिष्ठितेभ्यः कारणेभ्यो व्यावर्तमाना चेतनाधिष्ठितत्व एवावतिष्ठत इति प्रतिबन्धसिद्धिः । यद्युच्येत अद्धा चेतनाधीनैव कार्योत्पत्तिः, अस्ति तु चित्तं चेतनं, तद्धीन्द्रियादिविषयस्पर्शे सत्यभिज्वलत्तत्कारणचक्रं यथायथा कार्याय पर्याप्तं तथातथा प्रकाशयदचेतनानि कारणान्यधिष्ठाय कार्यमभिनिर्वर्तयतीति, तत्राह
चित्ताभिज्वलनस्य च समुदायसिद्ध्यधीनत्वात् ।
न खलु बाह्याभ्यन्तरसमुदायसिद्धिमन्तरेण चित्ताभिज्वलनं, ततस्तु तामिच्छन् दुरुत्तरमितरेतराश्रयमाविशेदिति । न च प्राग्भवीया चित्ताभिदीप्तिरुत्तरसमुदायं घटयति । घटनसमये तस्याश्चिरातीतत्वेन सामर्थ्यविरहात् । अस्मद्राद्धान्तवदन्यस्यचेतनस्य भोक्तुः प्रशासितुर्वा स्थिरस्य सङ्घातकर्तुरनभ्युपगमात् । कारणविन्यासभेदं हि विद्वान् कर्ता भवति । न चान्वयव्यतिरेकावन्तरेण तद्विन्यासभेदं वेदितुमर्हति । नच सक्षणिकोऽन्वयव्यतिरेककालानवस्थायी ज्ञातुमन्वयव्यतिरेकावुत्सहते । अत उक्तम्
स्थिरस्येति ।
यद्युच्येत असमवहितान्येव कारणानि कार्यं करिष्यन्ति परस्परानपेक्षाणि, कृतमत्र समवधाययित्रा चेतनेनेत्यत आह
निरपेक्षप्रवृत्त्यभ्युपगमे चेति ।
यद्युच्यते अस्त्यालयविज्ञानमहङ्कारास्पदं पूर्वापरानुसन्धातृ, तदेव कारणानां प्रतिसन्धातृ भविष्यतीति, तत्राह
आशयस्यापीति ।
यत्खल्वेकं यदि स्थिरमास्थीयेत ततो नामान्तरेणात्मैव । अथ क्षणिकं, तत उक्तदोषापत्तिः । नच तत्सन्तानस्तस्यान्यत्वे नामान्तरेणात्माभ्युपगतोऽनन्यत्वे च विज्ञानमेव, तच्च क्षणिकमेवेत्युक्तदोषापत्तिः । आशेरतेऽस्मिन् कर्मानुभववासना इत्याशय आलयविज्ञानं तस्य । अपि च प्रवृत्तिः समुदायिनां व्यापारः । नच क्षणिकानां व्यापारो युज्यते । व्यापारो हि व्यापारवदाश्रयस्तत्कारणकश्च लोके प्रसिद्धः । तेन व्यापारवता व्यापारात्पूर्वं व्यापारसमये च भवितव्यम् । अन्यथा कारणत्वाश्रयत्वयोरयोगात् । न च समसमययोरस्ति कार्यकारणभावः । नापि भिन्नकालयोराधाराधेयभावः । तथा च क्षणिकत्वहानिरित्याह
क्षणिकत्वाभ्युपगमाच्चेति ॥ १८ ॥
इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ।
यद्यपीति ।
अयमर्थः सङ्क्षेपतो हि प्रतीत्यसमुत्पादलक्षणमुक्तं बुद्धेन ‘इदं प्रत्ययफलम्’ इति । “उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैषा धर्माणां धर्मता” । “धर्मस्थितिता धर्मनियामकता प्रतीत्यसमुत्पादानुलोमता” इति । अथ पुनरयं प्रतीत्यसमुत्पादो द्वाभ्यां कारणाभ्यां भवति हेतूपनिबन्धतश्च प्रत्ययोपनिबन्धतश्च । स पुनर्द्विविधो बाह्य आध्यात्मिकश्च । तत्र बाह्यस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः यदिदं बीजादङ्कुरोऽङ्कुरात्पत्रं पत्रात्काण्डं काण्डान्नालो नालाद्गर्भो गर्भाच्छूकः शूकात्पुष्पं पुष्पात्फलमिति । असति बीजेऽङ्कुरो न भवति, यावदसति पुष्पे फलं न भवति । सति तु बीजेऽङ्कुरो भवति, यावत्पुष्पे सति फलमिति । तत्र बीजस्य नैवं भवति ज्ञानमहमङ्कुरं निर्वर्तयामीति । अङ्कुरस्यापि नैवं भवति ज्ञानमहं बीजेन निर्वर्तित इति । एवं यावत्पुष्पस्य नैवं भवत्यहं फलं निर्वर्तयामीति । एवं फलस्यापि नैवं भवत्यहं पुष्पेणाभिनिर्वर्तितमिति । तस्मादसत्यपि चैतन्ये बीजादीनामसत्यपि चान्यस्मिन्नधिष्ठातरि कार्यकारणभावनियमो दृश्यते । उक्तो हेतूपनिबन्धः । प्रत्ययोपनिबन्धः प्रतीत्यसमुत्पादस्योच्यते । प्रत्ययो हेतूनां समवायः । हेतुं हेतुं प्रत्ययन्ते हेत्वन्तराणीति, तेषामयमानानां भावः प्रत्ययः । समवाय इति यावत् । यथा षण्णां धातूनां समवायाद्बीजहेतुरङ्कुरो जायते । तत्र च पृथिवीधातुर्बीजस्य सङ्ग्रहकृत्यं करोति यतोऽङ्कुरः कठिनो भवति, अब्धातुर्बीजं स्नेहयति, तेजोधातुर्बीजं परिपाचयति, वायुधातुर्बीजमभिनिर्हरति यतोऽङ्कुरो बीजान्निर्गच्छति, आकाशधातुर्बीजस्यानावरणकृत्यं करोति, ऋतुरपि बीजस्य परिणामं करोति, तदेतेषामविकलानां धातूनां समवाये बीजे रोहित्यङ्कुरो जायते नान्यथा । तत्र पृथिवीधातोर्नैवं भवत्यहं बीजस्य सङ्ग्रहकृत्यं करोमीति, यावदृतोर्नैवं भवत्यहं बीजस्य परिणामं करोमीति । अङ्कुरस्यापि नैवं भवत्यहमेभिः प्रत्ययैर्निर्वर्तित इति । तथाध्यात्मिकः प्रतीत्यसमुत्पादो द्वाभ्यां कारणाभ्यां भवति हेतूपनिबन्धतः प्रत्ययोपनिबन्धतश्च । तत्रास्य हेतूपनिबन्धो यदिदमविद्याप्रत्ययाः संस्कारा यावज्जातिप्रत्ययं जरामरणादीति । अविद्या चेन्नाभविष्यन्नैव संस्कारा अजनिष्यन्त । एवं यावज्जातिः । जातिश्चेन्नाभविष्यन्नैव जरामरणादय उत्पत्स्यन्त । तत्राविद्याया नैवं भवत्यहं संस्कारानभिनिर्वर्तयामीति । संस्काराणामपि नैवं भवति वयमविद्यया निर्वर्तिता इति । एवं यावज्जात्या अपि नैवं भवत्यहं जरामरणाद्यभिनिर्वर्तयामीति । जरामरणादीनामपि नैवं भवति वयं जात्यादिभिर्निर्वर्तिता इति । अथ च सत्स्वविद्यादिषु स्वयमचेतनेषु चेतनान्तरानधिष्ठितेष्वपि संस्कारादीनामुत्पत्तिः, बीजादिष्विव सत्स्वचेतनेषु चेतनान्तरानधिष्ठितेष्वप्यङ्कुरादीनाम् । इदं प्रतीत्य प्राप्येदमुत्पद्यत इत्येतावन्मात्रस्य दृष्टत्वाच्चेतनाधिष्ठानस्यानुपलब्धेः । सोऽयमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः । अथ प्रत्ययोपनिबन्धः पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातूनां समवायाद्भवति कायः । तत्र कायस्य पृथिवीधातुः काठिन्यं निर्वर्तयति । अब्धातुः स्नेहयति कायम् । तेजोधातुः कायस्याशितपीते परिपाचयति । वायुधातुः कायस्य श्वासादि करोति । आकाशधातुः कायस्यान्तः सुषिरभावं करोति । यस्तु नामरूपाङ्कुरमभिनिर्वर्तयति पञ्चविज्ञानकार्यसंयुक्तं सास्रवं च मनोविज्ञानं, सोऽयमुच्यते विज्ञानधातुः । यदा ह्याध्यात्मिकाः पृथिव्यादिधातवो भवन्त्यविकलास्तदा सर्वेषां समवायाद्भवति कायस्योत्पत्तिः । तत्र पृथिव्यादिधातूनां नैवं भवति वयं कायस्य काठिन्यादि निर्वर्तयाम इति । कायस्यापि नैवं भवति ज्ञानमहमेभिः प्रत्ययैरभिनिर्वर्तित इति । अथ च पृथिव्यादिधातुभ्योऽचेतनेभ्यश्चेतनान्तरानधिष्ठितेभ्योऽङ्कुरस्येव कायस्योत्पत्तिः । सोऽयं प्रतीत्यसमुत्पादो दृष्टत्वान्नान्यथयितव्यः । तत्रैतेष्वेव षट्सु धातुषु यैकसंज्ञा, पिण्डसंज्ञा, नित्यसंज्ञा, सुःखसंज्ञा, सत्त्वसंज्ञा, पुद्गलसंज्ञा, मनुष्यसंज्ञा, मातृदुहितृसंज्ञा, अहङ्कारममकारसंज्ञा, सेयमविद्या संसारानर्थसम्भारस्य मूलकारणं, तस्यामविद्यायां सत्यां संस्कारा रागद्वेषमोहा विषयेषु प्रवर्तन्ते । वस्तुविषया विज्ञप्तिर्विज्ञानं, विज्ञानाच्चत्वारो रूपिण उपादानस्कन्धास्तन्नाम, तान्युपादाय रूपमभिनिर्वर्तते । तदैकध्यमभिसङ्क्षिप्य नामरूपं निरुच्यते शरीरस्यैव कललबुद्बुदाद्यवस्था नामरूपसंमिश्रितानीन्द्रियाणि षडायतनं, नामरूपेन्द्रियाणां त्रयाणां सन्निपातः स्पर्शः, स्पर्शाद्वेदना सुखादिका, वेदनायां सत्यां कर्तव्यमेतत्सुखं पुनर्मयेत्यध्यवसानं तृष्णा भवति । ततौपादानं वाक्कायचेष्टा भवति । ततो भवो भवत्यस्माज्जन्मेति भवो धर्माधर्मौ, तद्धेतुकः स्कन्धप्रादुर्भावो जातिःजन्म । जन्महेतुका उत्तरे जरामरणादयः । जातानां स्कन्धानां परिपाको जरा । स्कन्धानां नाशो मरणम् । म्रियमाणस्य मूढस्य साभिषङ्गस्य पुत्रकलत्रादावान्तर्दाहः शोकः । तदुत्थं प्रलपनं हा मातः, हा तात, हा च मे पुत्रकलत्रादीति परिदेवना । पञ्चविज्ञानकार्यसंयुक्तमसाध्वनुभवनन्दुःखम् । मानसं च दुःखन्दौर्मनस्यम् । एवंजातीयकाश्चोपायास्त उपक्लेशा गृह्यन्ते । तेऽमी परस्परहेतुकाः, जन्मादिहेतुका अविद्यादयोऽविद्यादिहेतुकाश्च जन्मादयो घटीयन्त्रवदनिशमावर्तमानाः सन्तीति तदेतैरविद्यादिभिराक्षिप्तः सङ्घात इति । तदेतद्दूषयति
तन्न कुतः, उत्पत्तिमात्रनिमित्तत्वादिति ।
अयमभिसन्धिः यत्खलु हेतूपनिबद्धं कार्यं तदन्यानपेक्षं हेतुमात्राधीनोत्पादत्वादुत्पद्यतां नाम । पञ्चस्कन्धसमुदायस्तु प्रत्ययोपनिबद्धो न हेतुमात्राधीनोत्पत्तिः । अपि तु नानाहेतुसमवधानजन्मा । न च चेतनमन्तरेणान्यः संनिधापयितास्ति कारणानामित्युक्तम् । बीजादङ्कुरोत्पत्तेरपि प्रत्ययोपनिबद्धाया विवादाध्यासितत्वेन पक्षनिक्षिप्तत्वात् , पक्षेण च व्यभिचारोद्भावनायामतिप्रसङ्गेन सर्वानुमानोच्छेदप्रसङ्गात् । स्यादेतत् । अनपेक्षा एवान्त्यक्षणप्राप्ताः क्षित्यादयोऽङ्कुरमारभन्ते । तेषां तूपसर्पणप्रत्ययवशात्परस्परसमवधानम् । न चैकस्मादेव कारणात्कार्यसिद्धेः किमन्यैः कारणैरिति वाच्यम् । कारणचक्रानन्तरं कार्योत्पादात्सिद्धमित्येव नास्ति । न चैकोऽपि तत्कारणसमर्थ इत्यन्य उदासत इति युक्तम् । नहि ते प्रेक्षावन्तो येनैवमालोचयेयुरस्मासु समर्थ एकोऽपि कार्ये इति कृतं नः संनिधिनेति । किन्तूपसर्पणप्रत्ययाधीनपरस्परसंनिधानोत्पादा नानुत्पत्तुं नाप्यसंनिधातुमीशते । तांश्च सर्वाननपेक्षान् प्रतीत्य कार्यमपि न नोत्पत्तुमर्हति । नच स्वमहिम्ना सर्वे कार्यमुत्पादयन्तोऽपि नानाकार्याणामीशते तत्रैव तेषां सामर्थ्यात् । न च कारणभेदात्कार्यभेदः, सामग्र्या एकत्वात् । तद्भेदस्य च कार्यनानात्वहेतुत्वात्तथा दर्शनात् । तन्न । यद्यन्त्यक्षणप्राप्ता अनपेक्षाः स्वकार्योपजनने, हन्तानेन क्रमेण ततः पूर्वे ततः पूर्वे सर्व एवानपेक्षास्तत्तत्स्वकार्योपजनन इति कुसूलस्थत्वाविशेषेऽपि येन बीजक्षणेन कुसूलस्थेन स्वकार्यक्षणपरम्परयाङ्कुरोत्पत्तिसमर्थो बीजक्षणो जनयितव्यः सोऽनपेक्ष एव बीजक्षणः स्वकार्योपजनने एवं सर्व एव तदनन्तरानन्तरवर्तिनो बीजक्षणा अनपेक्षा इति कुसूलनिहितबीज एव स्यात्कृती कृषीवलः कृतमस्य दुःखबहुलेन कृषिकर्मणा । येन हि बीजक्षणेन स्वक्षणपरम्परयाङ्कुरो जनयितव्यस्तस्यानपेक्षासौ क्षणपरम्परा कुसूल एवाङ्कुरं करिष्यतीति । तस्मात्परस्परापेक्षा एवान्त्या वा मध्या वा पूर्वे वा क्षणाः कार्योपजनन इति वक्तव्यम् । यथाहुः “न किञ्चिदेकमेकस्मात्सामग्र्याः सर्वसम्भवः” इति । तच्चेदं समवधानं कारणानां विन्यासभेदतत्प्रयोजनाभिज्ञप्रेक्षावत्पूर्वकं दृष्टमिति नाचेतनाद्भवितुमर्हति । तदिदमुक्तम्
भवेदुपपन्नः सङ्घातो यदि सङ्घातस्य किञ्चिन्निमित्तमवगम्येतेति ।
इतरेतरप्रत्ययत्वेऽपीति ।
इतरेतरहेतुत्वेऽपीत्यर्थः ।
उक्तमभिसन्धिमविद्वान् परिचोदयति
नन्वविद्यादिभिरर्थादाक्षीप्यत इति ।
परिहरति
अत्रोच्यते, यदि तावदिति ।
किमाक्षेप उत्पादनम् , आहो ज्ञापनम् । तत्र न तावत्कारणमन्यथानुपपद्यमानं कार्यमुत्पादयति, किन्तु स्वसामर्थ्येन । तस्माज्ज्ञापनं वक्तव्यम् । तथा च ज्ञापितस्यान्यदुत्पादकं वक्तव्यम् । तच्च स्थिरपक्षेऽपि सत्यपि च भोक्तर्यधिष्ठातारं चेतनमन्तरेण न सम्भवति किमङ्ग, पुनः क्षणिकेषु भावेषु । भोक्तुर्भोगेनापि कदाचिदाक्षिप्येत सङ्घातः, स तु भोक्तापि नास्तीति दूरोत्सारितत्वं दर्शयति
भोक्तृरहितेष्विति ।
अपि च बहव उपकार्योपकारकभावेन स्थिताः कार्यं जनयन्ति । नच क्षणिकपक्ष उपकार्योपकारकभावोऽस्ति, भावस्योपकारानास्पदत्वात् । क्षणस्याभेद्यत्वादनुपकृतोपकृतत्वासम्भवात् । कालभेदेन वा तदुपपत्तौ क्षणिकत्वव्याघातात् । तदिदमाह
आश्रयाश्रयिशून्येषु चेति ।
अथायमभिप्राय इति ।
यदा हि प्रत्ययोपनिबन्धनः प्रतीत्यसमुत्पादो भवेत्तदा चेतनोऽधिष्ठातापेक्षेतापि, न तु प्रत्ययोपनिबन्धनोऽपि तु हेतूपनिबन्धनः । तथाच कृतमधिष्ठात्रा । हेतुः स्वभावत एव कार्यसङ्घातं करिष्यति केवल इति भावः । अस्तु तावद्यथा केवलाद्धेतोः कार्यं नोपजायत इति, अन्योन्याश्रयप्रसङ्गोऽस्मिन् पक्ष इत्याशयवानाह
कथं तमेवेति ।
सम्प्रति प्रत्ययोपनिबन्धनं प्रतीत्यसमुत्पादमास्थाय चोदयति
अथ मन्यसे सङ्घाता एवेति ।
अस्थिरा अपि हि भावाः सदा संहता एवोदयन्ते व्ययन्ते च । न पुनरितस्ततोऽवस्थिताः केनचित्पुञ्जीक्रियन्ते । तथा च कृतमत्र संहन्त्रा चेतनेनेति भावः ।
अनादौ इति
परस्पराश्रयं निवर्तयति ।
तदेतद्विकल्प्य दूषयति
तथापि सङ्घातादिति ।
स खलु सङ्घातसन्ततिवर्ति धर्माधर्माह्वयः संस्कारसन्तानो यथायथं सुखदुःखे जनयन्नागन्तुकं कञ्चनानासाद्य स्वत एव जनयेत् , आसाद्य वा । अनासाद्यजनने सदैव सुखदुःखे जनयेत् , समर्थस्यानपेक्षस्याक्षेपायोगात् । आसाद्य जनने तदासादनकारणं प्रेक्षावानभ्युपेयः । तथाच न प्रत्ययोपनिबन्धनः प्रतीत्यसमुत्पादः । तस्मादनेनागन्तुकानपेक्षस्य सन्धातसन्तानस्यैव सदृशजनने विसदृशजनने वा स्वभाव आस्थेयः । तथा च भाष्योक्तं दूषणमिति ।
अपि च यद्भोगार्थः सङ्घातः स्यादिति ।
अप्राप्तभोगो हि भोगार्थी भोगमाप्तुकामस्तत्साधने प्रवर्तत इति प्रत्यात्मसिद्धम् । सेयं प्रवृत्तिर्भोगादन्यस्मिन् स्थिरे भोक्तरि भोगतत्साधनसमयव्यापिनि कल्प्यते नास्थिरे । नच भोगादनन्यस्मिन् । नहि भोगो भोगाय कल्पते नाप्यन्यो भोगायान्यस्य । एवं मोक्षेऽपि द्रष्टव्यम् । तत्र बुभुक्षुमुमुक्षू चेत्स्थिरावास्थीयेयातां तदाभ्युपेतहानम् , अस्थैर्ये वा प्रवृत्तिप्रसङ्ग इत्यर्थः ।
न तु सङ्घातः सिध्येद्भोक्त्रभावादिति ।
भोक्त्रभावेन प्रवृत्त्यनुपपत्तेः कर्त्रभावः । ततः कर्माभावात्सङ्घातासिद्धिरित्यर्थः ॥ १९ ॥
उत्तरोत्पादे च पूर्वनिरोधात् ।
पूर्वसूत्रेण सङ्गतिमस्याह
उक्तमेतदिति ।
हेतूपनिबन्धनं प्रतीत्यसमुत्पादमभ्युपेत्य प्रत्ययोपनिबन्धनः प्रतीत्यसमुत्पादो दूषितः । सम्प्रति हेतूपनिबन्धनमपि तं दूषयतीत्यर्थः ।
दूषणमाह
इदमिदानीमिति ।
निरुध्यमानस्येति ।
न तावद्वैशेषिकवन्निरोधकारणसांनिध्यं निरुध्यमानता स्वीक्रियते वैनाशिकैरकारणं विनाशमभ्युपगच्छद्भिस्तस्यानिष्ठत्वाद् । तस्माद्विनाशग्रस्तत्वमचिरनिरुद्धत्वं निरुध्यमानत्वं वक्तव्यम् । निरुद्धत्वं च चिरनिरुद्धत्वं विवक्षितं, तथा चोभयोरप्यभावग्रस्तत्वाद्धेतुत्वानुपपत्तिः । शङ्कते
अथ भावभूत इति ।
कारणस्य हि कार्योत्पादात्प्राक्कालसत्ताऽर्थवती न कार्यकाला, तदा कार्यस्य सिद्धत्वेन तत्सिद्ध्यर्थायाः सत्ताया अनुपयोगादिति भावः । तदेतल्लोकदृष्ट्या दूषयति
भावभूतस्येति ।
भूत्वा व्यापृत्य भावाः प्रायेण हि कार्यं कुर्वन्तो लोके दृश्यन्ते । तथा च स्थिरत्वम् , इतरथा तु लोकविरोध इति । पुनः शङ्कते
अथ भाव एवेति ।
यथाहुःऽभूतिर्येषां क्रिया सैव कारकं सैव चोच्यतेऽइति । भवत्येवं व्यापारवत्ता तथापि क्षणिकस्य न कारणत्वमित्याह
तथापि नैवोपपद्यते
क्षणिकस्य कारणभावः । मृत्सुवर्णकारणा हि घटादयश्च रूचकादयश्च मृत्सुवर्णात्मानोऽनुभूयन्ते । यदि च न कार्यसमये कारणं सत्कथं तेषां तदात्मनानुभवः । नच कारणसादृश्यं कार्यस्य न तु तादात्म्यमिति वाच्यम् । असति कस्यचिद्रूपस्यानुगमे सादृश्यस्याप्यनुपपत्तेः । अनुगमे वा तदेव कारणं, तथा च तस्य कार्यतादात्म्यमिति सिद्धमक्षणिकत्वमित्यर्थः । सर्वथा वैलक्षण्ये तु हेतुफलभावस्तन्तुघटादावपि प्राप्त इत्यतिप्रसङ्ग इत्याह
विनैव वेति ।
नच तद्भावभावो नियामकः, तस्यैकस्मिन् क्षणेऽशक्यग्रहत्वात् , सामान्यस्य चाकारणत्वात् । कारणत्वे वा क्षणिकत्वहानेरस्मत्पक्षपातप्रसङ्गाच्चेति भावः । अपि चोत्पादनिरोधयोर्विकल्पत्रयेऽपि वस्तुनः शाश्वतत्वप्रसङ्ग इत्याह
अपि चोत्पादनिरोधौ नामेति ।
पर्यायत्वापादनेऽपि नित्यत्वापादनं मन्तव्यम् ।
वस्तूत्पादनिरोधाभ्यामसंसृष्टमिति वस्तुनः शाश्वतत्वप्रसङ्गः ।
संसर्गेऽप्यसता संसर्गानुपपत्तेः । सत्त्वाभ्युपगमे शाश्वतत्वमित्यपि द्रष्टव्यम् । शेषं निगदव्याख्यातम् ॥ २० ॥
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ।
नीलाभासस्य हि चित्तस्य नीलादालम्बनप्रत्ययान्नीलाकारता । समनन्तरप्रत्ययात्पूर्वविज्ञानाद्बोधरूपता । चक्षुषोऽधिपतिप्रत्ययाद्रूपग्रहणप्रतिनियमः । आलोकात्सहकारिप्रत्ययाद्धेतोः स्पष्टार्थता । एवं सुखादीनामपि चैत्तानां चित्ताभिन्नहेतुजानां चत्वार्येतान्येव कारणानि । सेयं प्रतिज्ञा चतुर्विधान् हेतून् प्रतीत्य चित्तचैत्ता उत्पद्यन्त इत्यभावकारणत्व उपरुध्येत ।
अथोत्तरक्षणोत्पत्तिं यावत्तावदवतिष्ठत इति ।
उत्पत्तिरुत्पद्यमानाद्भावादभिन्ना, तथा च क्षणिकत्वहानिरिति प्रतिज्ञाहानिः ॥ २१ ॥
प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाप्राप्तिरविच्छेदात् ।
भावप्रतीपा सङ्ख्या बुद्धिः प्रतिसङ्ख्या, तया निरोधः प्रतिसङ्ख्यानिरोधः । सन्तमिममसन्तं करोमीत्येवमाकारता च बुद्धेर्भावप्रतीपत्वम् । एतेनाप्रतिसङ्ख्यानिरोधोऽपि व्याख्यातः । सन्तानगोचरो वा निरोधः, सन्तानिक्षणगोचरो वा । न तावत्सन्तानस्य निरोधः सम्भवति । हेतुफलभावेन हि व्यवस्थिताः सन्तानिन एवोदयव्ययधर्माणः सन्तानाः । तत्र योऽसावन्त्यः सन्तानी, यन्निरोधात्सन्तानोच्छेदेन भवितव्यम् , स किं फलं किञ्चिदारभते न वा । आरभते चेत् , नान्त्यः । तथा च न सन्तानोच्छेदः । अनारम्भे तु भवेदन्त्यः सः, किन्तु स्यादसन् , अर्थक्रियाकारितायाः सत्तालक्षणस्य विरहात् । तदसत्वे तज्जनकमप्यसज्जनकत्वेनासदित्यनेन क्रमेणासन्तः सर्व एव सन्तानिन इति तत्सन्तानो नितरामसन्निति कस्य प्रतिसङ्ख्यया निरोधः । नच सभागानां सन्तानिनां हेतुफलभावः सन्तानः, तस्य विसभागोत्पादो निरोधः, विसभागोत्पादक एव च क्षणः सन्तानस्यान्त्यः । तथासति रूपविज्ञानप्रवाहे रसादिविज्ञानोत्पत्तौ सन्तानोच्छेदप्रसङ्गः । कथञ्चित्सारूप्ये वा विसभागेऽप्यन्ततः सत्तया तदस्तीति न सन्तानोच्छेदः । तदनेनाभिसन्धिनाह
सर्वेष्वपि सन्तानेषु सन्तानिनामविच्छिन्नेनहेतुफलभावेन सन्तानविच्छेदस्यासम्भवादिति ।
नापि भावगोचरौ सम्भवतः प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधौ । अत्र तावदुत्पन्नमात्राप्रवृत्तस्य भावस्य न प्रतिसङ्ख्यानिरोधः सम्भवति, तस्य पुरुषप्रयत्नापेक्षाभावादित्यस्त्येव दूषणं, तथापि दोषान्तरमुभयस्मिन्नपि निरोधो ब्रूते
न हि भावानामिति ।
यतो निरन्वयो विनाशो न सम्भवत्यतो निरूपाख्योऽपि न सम्भवति, तेनैवान्वयिना रूपेण भावस्य नष्टस्याप्युपाख्येयत्वात् । निरन्वयविनाशाभावे हेतुमाह
सर्वास्वप्यवस्थास्विति ।
यद्यदन्वयिरूपं तत्तत्परमार्थसद्भावः । अवस्थास्तु विशेषाख्या उपजनापायधर्माणः, तासां सर्वासामनिर्वचनीयतया स्वतो न परमार्थसत्त्वम् । अन्वय्येव तु रूपं तासां तत्त्वम् । तस्य च सर्वत्र प्रत्यभिज्ञायमानत्वान्न विनाश इत्यवस्थावतोऽविनाशान्नावस्थानां निरन्वयो विनाश इति । तासां तत्त्वस्यान्वयिनः सर्वत्राविच्छेदात् । स्यादेतत् । मृत्पिण्डमृद्घटमृत्कपालादिषु सर्वत्र मृत्तत्त्वप्रत्यभिज्ञानाद्भवत्वेवम् । तप्तोपलतलपतितनष्टस्य तूदबिन्दोः किमस्ति रूपमन्वयि प्रत्यभिज्ञायमानं, येनास्य न निरन्वयो नाशः स्यादित्यत आह
अस्पष्टप्रत्यभिज्ञानास्वपीति ।
अत्रापि तत्तोयं तेजसा मार्तण्डमण्डलमम्बुदत्वाय नीयत इत्यनुमेयं, मृदादीनामन्वयिनामविच्छेददर्शनात् । शक्यं तत्र वक्तुम् “उदबिन्दौ च सिन्धौ च तोयभावो न भिद्यते । विनष्टेऽपि ततो बिन्दावस्ति तस्यान्वयोऽम्बुधौ ॥' तस्मान्न कश्चिदपि निरन्वयो नाश इति सिद्धम् ॥ २२ ॥
उभयथा च दोषात् ।
परिकरः सामग्री सम्यग्ज्ञानस्य यमनियमादिः श्रवणमननादिश्च । मार्गाः क्षणिकनैरात्म्यादिभावनाः । अतिरोहितमन्यत् ॥ २३ ॥
आकाशे चाविशेषात् ।
एतद्व्याचष्टे
यच्च तेषामिति ।
वेदप्रामाण्ये विप्रतिपन्नानपि प्रतिशब्दगुणानुमेयत्वमाकाशस्य वक्तव्यम् । तथाहि जातिमत्त्वेन सामान्यविशेषसमवायेभ्यो विभक्तस्य शब्दस्यास्पर्शत्वे सति बाह्यैकेन्द्रियग्राह्यत्वेन गन्धादिवद्गुणत्वमनुमितम् । नायमात्मगुणो बाह्येन्द्रियगोचरत्वात् । अत एव न मनोगुणः, तद्गुणानामप्रत्यक्षत्वात् । न पृथिव्यादिगुणः, तद्गुणगन्धादिसाहचर्यानुपलब्धेः । तस्माद्गुणो भूत्वा गन्धादिवदसाधारणेन्द्रियग्राह्यो यद्द्रव्यमनुमापयति तदाकाशं पञ्चमं भूतं वस्त्विति ।
अपि चावरणाभावमाकाशमिच्छत इति ।
निषेध्यनिषेधाधिकरणनिरूपणाधीननिरूपणो निषेधो नासत्यधिकरणनिरूपणे शक्यो निरूपयितुम् । तच्चावरणाभावाधिकरणमाकाशं वस्त्विति । अतिरोहितार्थमन्यत् ॥ २४ ॥
अनुस्मृतेश्च ।
विभजते
अपि च वैनाशिकः सर्वस्य वस्तुन इति ।
यस्तु सत्यप्येतस्मिन्नुपलब्धृस्मर्त्रोरन्यत्वेऽपि समानायां सन्ततौ कार्यकारणभावात्स्मृतिरुपपत्स्यत इति मन्यमानो न परितुष्यति तं प्रति प्रत्यभिज्ञासमाज्ञातप्रत्यक्षविरोधमाह
अपि च दर्शनस्मरणयोः कर्तरीति ।
ततोऽहमद्राक्षीदिति प्रतीयात् , अहं स्मराम्यन्यस्त्वद्राक्षीदित्यर्थः । प्रत्यभिज्ञाप्रत्यक्षविरोधप्रपञ्चस्तूत्तरः ।
आ जन्मनः आ चोत्तमादुच्छ्वासात् ।
आमरणादित्यर्थः । नच सादृश्यनिबन्धनं प्रत्यभिज्ञानं, पूर्वापरक्षणदर्शिन एकस्याभावे तदनुपपत्तेः । शङ्कते
तेनेदं सदृशमिति ।
अयमर्थः विकल्पप्रत्ययोऽयं, विकल्पश्च स्वाकारं बाह्यतयाध्यवस्यति, न तु तत्त्वतः पूर्वापरौ क्षणौ तयोः सादृश्यं वा गृह्णाति । तत्कथमेकस्यानेकदर्शिनः स्थिरस्य प्रसङ्ग इति । निराकरोति
न । तेनेदमिति भिन्नपदार्थोपादानादिति ।
नानापदार्थसम्भिन्नवाक्यार्थाभासस्तावदयं विकल्पः प्रथते तत्रैते नानापदार्था न प्रथन्त इति ब्रुवाणः स्वसंवेदनं बाधेत । न चैकस्य ज्ञानस्य नानाकारत्वं सम्भवति, एकत्वविरोधात् । नच तावन्त्येव ज्ञानानीति युक्तं, तथासति प्रत्याकारं ज्ञानानां समाप्तेस्तेषां च परस्परवार्ताज्ञानाभावान्नानेत्येव न स्यात् । तस्मात्पूर्वापरक्षणतत्सादृश्यगोचरत्वं ज्ञानस्य वक्तव्यम् । न चैतत्पूर्वापरक्षणावस्थायिनमेकं ज्ञातारं विनेति क्षणभङ्गभङ्गप्रसङ्गः । यद्युच्येत अस्त्येतस्मिन् विकल्पे तेनेदं सदृशमिति पदद्वयप्रयोगो न त्विह तत्तेदन्तास्पदौ पदार्थौ तयोश्च सादृश्यमिति विवक्षितम् , अपि त्वेवमाकारता ज्ञानस्य कल्पितेति, तत्राह
यदा हि लोकप्रसिद्धः पदार्थ इति ।
एकाधिकरणविप्रतिषिद्धधर्मद्वयाभ्युपगमो विवादः । तत्रैकः स्वपक्षं साधयत्यन्यश्च तत्साधनं दूषयति । न चैतत्सर्वमसति विकल्पानां बाह्यालम्बनत्वेऽसति च लोकप्रसिद्धपदार्थकत्वे भवितुमर्हति । ज्ञानाकारत्वे हि विकल्पप्रतिभासिनां नित्यत्वानित्यत्वादीनामेकार्थविषयत्वाभावात्ज्ञानानां च धर्मिणां भेदान्न विरोधः । नह्यात्मनित्यत्वं बुद्ध्यनित्यत्वं च ब्रुवाणौ विप्रतिपद्येते । न चालौकिकार्थेनानित्यशब्देनात्मनि विभुत्वं विवक्षित्वानित्यशब्दं प्रयुञ्जानो लौकिकार्थं नित्यशब्दमात्मनि प्रयुञ्जानेन विप्रतिपद्यते । तस्मादनेन स्वपक्षं प्रतितिष्ठापयिषता परपक्षसाधनं च निराचिकीर्षता विकल्पानां लोकसिद्धपदार्थकता बाह्यालम्बनता च वक्तव्या । यद्युच्येत द्विविधो हि विकल्पानां विषयो ग्राह्यश्चाध्यवसेयश्च । तत्र स्वाकारो ग्राह्योऽध्यवसेयस्तु बाह्यः । तथाच पक्षप्रतिपक्षपरिग्रहलक्षणा विप्रतिपत्तिः प्रसिद्धपदार्थकत्वं चोपपद्यत इत्यत आह
एवमेवैषोऽर्थ इति निश्चितं यत्तदेव वक्तव्यं, ततोऽन्यदुच्यमानं बहुप्रलापित्वमात्मनः केवलं प्रख्यापयेत् ।
अयमभिसन्धिः केयमध्यवसेयता बाह्यस्य । यदि ग्राह्यता न द्वैविध्यम् । अथान्या सोच्यतां, ननूक्ता तैरेव स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तिरिति । अथ विकल्पाकारस्य कोऽयमध्यवसायः । किं करणमाहो योजनमुतारोप इति । न तावत्करणम् । नह्यन्यदन्यत्कर्तुं शक्यम् । नहि जातु सहस्रमपि शिल्पिनो घटं पटयितुमीशते । न चान्तरं बाह्येन योजयितुम् । अपि च तथासति युक्त इति प्रत्ययः स्यात् । न चास्ति । आरोपोऽपि किं गृह्यमाणे बाह्ये उतागृह्यमाणे । यदि गृह्यमाणे तदा किं विकल्पेनाहो तत्समयजेनाविकल्पकेन । न तावद्विकल्पोऽभिलापसंसर्गयोग्यगोचरोऽशक्याभिलापसमयं स्वलक्षणं देशकालाननुगतं गोचरयितुमर्हति । यथाहुः “अशक्यसमयो ह्यात्मा सुखादीनामनन्यभाक् । तेषामतः स्वसंवित्तिर्नाभिजल्पानुषङ्गिणी ॥' इति । न च तत्समयभाविना निर्विकल्पकेन गृह्यमाणे बाह्ये विकल्पेनागृहीते तत्र विकल्पः स्वाकारमारोपयितुमर्हति । न हि रजतज्ञानाप्रतिभासिनि पुरोवर्तिनि वस्तुनि रजतज्ञानेन शक्यं रजतमारोपयितुम् । अगृह्यमाणे तु बाह्ये स्वाकार इत्येव स्यान्न बाह्य इति । तथा च नारोपणम् । अपि चायं विकल्पः स्वसंवेदनं सन्तं विकल्पं किं वस्तुसन्तं स्वाकारं गृहीत्वा पश्चाद्बाह्यमारोपयति, अथ यदा स्वाकारं गृह्णाति तदैवारोपयति । न तावत्क्षणिकतया क्रमविरहिणो ज्ञानस्य क्रमवर्तिनी ग्रहणारोपणे कल्पेते । तस्माद्यदैव स्वाकारमनर्थं गृह्णाति तदैवार्थमारोपयतीति वक्तव्यम् । न चैतद्युज्यते । स्वाकारो हि स्वसंवेदनप्रत्यक्षतयातिविशदः । बाह्यं चारोप्यमाणमविशदं सत्ततोऽन्यदेव स्यान्न तु स्वाकारः समारोपितः । न च भेदाग्रहमात्रेण समारोपाभिधानं, वैशद्यावैशद्यरूपतया भेदग्रहस्योक्तत्वात् । अपि चागृह्यमाणे चेद्बाह्येऽबाह्यात्स्वलक्षणाद्भेदाग्रहणेन तदभिमुखी प्रवृत्तिः, हन्त तर्हि त्रैलोक्यत एवानेन न भेदो गृहीत इति यत्र क्वचन प्रवर्तेताविशेषात् । एतेन ज्ञानाकारस्यैवालोकस्यापि बाह्यत्वसमारोपः प्रत्युक्तः । तस्मात्सुष्ठूक्तंऽततोऽन्यदुच्यमानं बहुप्रलापित्वमात्मनः ख्यापयेत्ऽइति । अपि च सादृश्यनिबन्धनः संव्यवहारस्तेनेदं सदृशमित्येवमाकारबुद्धिनिबन्धनो भवेन्न तु तदेवेदमित्याकारबुद्धिनिबन्धन इत्याह
नचायं सादृश्यात्संव्यवहार इति ।
ननु ज्वालादिषु सादृश्यादसत्यामपि सादृश्यबुद्धौ तद्भावावगमनिबन्धनः संव्यहारो दृश्यते यथा तथेहापि भविष्यतीति पूर्वापरितोषेणाह
भवेदपि कदचिद्बाह्यवस्तुनीति ।
तथाहिविविधजनसङ्कीर्णगोपुरेण पुरं निविशमानं नरान्तरेभ्य आत्मनिर्धारणायासाधारणं चिह्नं विदधतमुपहसन्ति पाशुपतं पृथग्जना इति ॥ २५ ॥
नासतोऽदृष्टत्वात् ।
इतश्चानुपपन्नो वैनाशिकसमय इति ।
अस्थिरात्कार्योत्पत्तिमिच्छन्तो वैनाशिका अर्थादभावादेव भावोत्पत्तिमाहुः । उक्तमेतदधस्तात् । निरपेक्षात्कार्योत्पत्तौ पुरुषकर्मवैयर्थ्यम् । सापेक्षतायां च क्षणस्याभेद्यत्वेनोपकृतत्वानुपपत्तेः, अनुपकारिणि चापेक्षाभावादक्षणिकत्वप्रसङ्गः । सापेक्षत्वानपेक्षत्वयोश्चान्यतरनिषेधस्यान्यतरविधाननान्तरीयकत्वेन प्रकारान्तराभावान्नास्थिराद्भावाद्भावोत्पत्तिरिति क्षणिकपक्षेऽर्थादभावाद्भावोत्पत्तिरिति परिशिष्यत इत्यर्थः । न केवलमर्थादापद्यते, दर्शयन्ति च
नानुपमृद्य प्रादुर्भावादिति ।
एतद्विभजते
विनष्टाद्धिकिलेति ।
किलकारोऽनिच्छायाम् ।
कूटस्थाच्चेत्कारणात्कार्यमुत्पद्येतापि सर्वं सर्वत उत्पद्येत ।
अयमभिसन्धिः कूटस्थो हि कार्यजननस्वभावो वा स्यादतत्स्वभावो वा । स चेत्कार्यजननस्वभावस्ततो यावदनेन कार्यं कर्तव्यं तावत्सहसैव कुर्यात् । समर्थस्य क्षेपायोगात् । अतत्स्वभावे तु न कदाचिदपि कुर्यात् । यद्युच्येत समर्थोऽपि क्रमवत्सहकारिसचिवः क्रमेण कार्याणि करोतीति । तदयुक्तम् । विकल्पासहत्वात् । किमस्य सहकारिणः कञ्चिदुपकारमादधति न वा । अनाधानेऽनुपकारितया सहकारिणो नापेक्षेरन् । आधानेऽपि भिन्नमभिन्नं वोपकारमादध्युः । अभेदे तदेवाभिहितमिति कौटस्थ्यं व्याहन्येत । भेदे तूपकारस्य तस्मिन् सति कार्यस्य भावादसति चाभावात्सत्यपि कूटस्थे कार्यानुत्पादादन्वयव्यतिरेकाभ्यामुपकार एव कार्यकारी न भाव इति नार्थक्रियाकारी भावः । तदुक्तम् “वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् । चर्मोपमश्चेत्सोऽनित्यः स्वतुल्यश्चेदसत्फलः ॥' इति । तथा चाकिञ्चित्करादपि चेत्कूटस्थात्कार्यं जायेत, सर्वं सर्वस्माज्जायेतेति सूक्तम् । उपसंहरति
तस्मादभावग्रस्तेभ्य इति ।
तत्रेदमुच्यते । नासतोऽदृष्टत्वादिति ।
नाभावात्कार्योत्पत्तिः । कस्मात् । अदृष्टत्वात् । नहि शशविषाणादङ्कुरादीनां कार्याणामुत्पत्तिर्दृश्यते । यदि त्वभावाद्भावोत्पत्तिः स्यात्ततोऽभावत्वाविशेषात्शशविषाणादिभ्योऽप्यङ्कुरोत्पत्तिः । नह्यभावो विशिष्यते । विशेषणयोगे वा सोऽपि भावः स्यान्न निरूपाख्य इत्यर्थः । विशेषणयोगमभावस्याभ्युपेत्याह
नाप्यभावः कस्यचिदुत्पत्तिहेतुरिति ।
अपि च यद्येनानन्वितं न तत्तस्य विकारः, यथा घटशरावोदञ्चानादयो हेम्नानन्विता न हेमविकाराः । अनन्विताश्चैते विकारा अभावेन । तस्मान्नाभावविकाराः । भावविकारस्तु ते, भावस्य तेनान्वितत्वादित्याह
अभावाच्च भावोत्पत्ताविति ।
अभावकारणवादिनो वचनमनुभाष्य दूषयति
यत्तूक्तमिति ।
स्थिरोऽपि भावः क्रमवत्सहकारिसमवधानात्क्रमेण कार्याणि करोति । न चानुपकारकाः सहकारिणः । स चास्य सहकारिभिराधीयमाना उपकारो न भिन्नो नाप्यभिन्नः । किन्त्वनिर्वाच्य एव । अनिर्वाच्याच्च कार्यमप्यनिर्वाच्यमेव जायते । न चैतावता स्थिरस्याकारणत्वं, तदुपादानत्वात्कार्यस्य, रज्जूपादानत्वमिव भुजङ्गस्येत्युक्तम् । तथा च श्रुतिः “मृत्तिकेत्येव सत्यम्”(छा. उ. ६ । १ । ४) इति । अपिच येऽपि सर्वतो विलक्षणानि स्वलक्षणानि वस्तुसन्त्यास्थिषत, तेषामपि किमिति बीजजातीयेभ्योऽङ्कुरजातीयान्येव जायन्ते कार्याणि, नतु क्रमेलकजातीयानि । नहि बीजाद्बीजान्तरस्य वा क्रमेलकस्य वात्यन्तवैलक्षण्ये कश्चिद्विशेषः । नच बीजाङ्कुरत्वे सामान्ये परमार्थसती, येनैतयोर्भाविकः कार्यकारणभावो भवेत् । तस्मात्काल्पनिकादेव स्वलक्षणोपादानाद्बीजजातीयात्तथाविधस्यैवाङ्कुरजातीयस्योत्पत्तिनियम आस्थेयः । अन्यथा कार्यहेतुकानुमानोच्छेदप्रसङ्गः । दिङ्मात्रस्य सूचितम् । प्रपञ्चस्तु ब्रह्मतत्त्वसमीक्षान्यायकणिकयोः कृत इति नेह प्रतन्यते विस्तरभयात् ॥ २६ ॥
उदासीनानामपि चैवं सिद्धिः ।
भाष्यमस्य सुगमम् ॥ २७ ॥