अद्वैतशारदा

भामतीव्याख्या

परायत्ताधिकरणविषयाः

व्याख्याः

परात्तु तच्छ्रुतेः ।
यदे­त­ज्जी­वा­ना­मौ­पा­धिकं कर्तृत्वं तत्प्र­व­र्त­ना­ल­क्ष­णेषु रागादिषु सत्सु नेश्वरमपरं प्रवर्तकं कल्पयितुमर्हति, अतिप्रसङ्गात् । नचेश्वरो द्वेष­प­क्ष­पा­त­र­हितो जीवान् साध्वसाधुनि कर्मणि प्रव­र्त­यि­तु­म­र्हति, येन धर्मा­ध­र्मा­पे­क्षया जग­द्वै­चि­त्र्य­मा­प­द्येत । स हि स्वतन्त्रः कारुणिको धर्म एव जन्तून् प्रव­र्त­ये­न्ना­धर्मे । ततश्च तत्प्रेरिता जन्तवः सर्वे धार्मिका एवेति सुखिन एव स्युर्न दुःखिनः । स्वतन्त्रास्तु रागा­दि­प्र­युक्ताः प्रवर्तमाना धर्मा­ध­र्म­प्र­च­य­वन्तो वैचि­त्र्य­म­नु­भ­व­न्तीति युक्तम् । एवंच विधि­नि­षे­ध­यो­र­र्थ­व­त्त्व­मि­त­रथा तु सर्वथा जीवा अस्वतन्त्रा इतीश्वरेणैव प्रवर्त्यन्त इति कृतं विधि­नि­षे­धा­भ्याम् । नहि बल­व­द­नि­ल­स­लि­लौ­घ­नु­द्य­मानं प्रत्यु­प­दे­शोऽ­र्थ­वान् । तस्मात् “एष ह्येव साधु कर्म कारयति”(कौ . ब्रा. ३ । ८) इत्यादयः श्रुतयः सम­स्त­वि­धि­नि­षे­ध­श्रु­ति­वि­रो­धा­ल्लो­क­वि­रो­धा­च्चै­श्व­र्य­प्र­शं­सा­प­र­तया नेया इति प्राप्तेऽ­भि­धी­यते । “एष ह्येव साधु कर्म कारयति” इत्या­द­य­स्ता­व­च्छ­छ्रु­तयः सर्वव्यापारेषु जन्तू­ना­मी­श्व­र­त­न्त्र­ता­माहुः, तदसति प्रतिबन्धके न प्रशंसापरतया व्याख्या­तु­मु­चि­तम् । नच श्रुतिसिद्धस्य कल्पनीयता, येन प्रवर्तकेषु रागादिषु सत्सु तत्कल्पना विरुध्येत । न चेश्व­र­त­न्त्रत्वे धर्म एव जन्तूनां प्रवृत्तेः सुखित्वमेव न वैचित्र्यमिति युक्तम् । यद्यप्ययमीश्वरो वीतरागस्तथापि पूर्व­पू­र्व­ज­न्तु­क­र्मा­पे­क्षय जन्तून् धर्माधर्मयोः प्रवर्तयन्न द्वेष­प­क्ष­पा­ताभ्यां विषमः । नापि निर्घृणः । नच कर्म­प्र­च­य­स्या­दि­र­स्त्य­ना­दि­त्वा­त्सं­सा­रस्य । न चेश्वरतन्त्रस्य कृतं विधि­नि­षे­धा­भ्या­मिति साम्प्रतम् । नहीश्वरः प्रबलतरपवन इव जन्तून् प्रवर्तयत्यपि तु तच्चै­त­न्य­म­नु­रु­ध्य­मानो रागा­द्यु­प­हा­र­मु­खेन । एवं चेष्टा­नि­ष्ट­प्रा­प्ति­प­रि­हा­रा­र्थिनो विधि­नि­षे­धा­व­र्थ­वन्तौ भवतः । तद­ने­ना­भि­स­न्धि­नो­क्तम्

परायत्तेऽपि हि कर्तृत्वे करोत्येव जीव इति ।
तस्मा­द्वि­धि­नि­षे­ध­शा­स्त्रा­वि­रो­धा­ल्लो­कस्य स्थूल­द­र्शि­त्वात् “एष ह्येव साधु कर्म कारयति”(कौ . ब्रा. ३ । ८)इत्यादिश्रुतेः । “अज्ञो जन्तु­र­नी­शोऽ­य­मा­त्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥”(भारत.व. ३०-२८) इति स्मृते­श्चे­श्व­र­त­न्त्रा­णा­मेव जन्तूनां कर्तृत्वं, न तु स्वत­न्त्रा­णा­मिति सिद्धम् । ईश्वर एव विधि­नि­षे­ध­यो­स्थाने नियुज्येत यद्विधिनिषेधयोः फलं तदीश्वरेण तत्प्र­ति­पा­दि­त­ध­र्मा­ध­र्म­नि­र­पे­क्षेण कृतमिति विधि­नि­षे­ध­यो­रा­न­र्थ­क्यम् । न केवलमानर्थक्यं विपरीतं चापद्येत इत्याह

तथा विहितकारिणमिति ।
पूर्वोक्तश्च दोषः कृत­ना­शा­कृ­ता­भ्या­गमः प्रसज्येत । अति­रो­हि­ता­र्थ­म­न्यत् ॥ ४१ ॥

कृत­प्र­य­त्ना­पे­क्षस्तु विहि­त­प्र­ति­षि­द्धा­वै­य­र्थ्या­दिभ्यः । ॥ ४२ ॥