भामतीव्याख्या
प्रकृतैतावत्त्वाधिकरणविषयाः
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ।
अधिकरणविषयमाह –
द्वे वाव ब्रह्मणो रूपे इति ।
द्वे एव ब्रह्मणो रूपे ब्रह्मणः परमार्थतोऽरूपस्याध्यारोपिते द्वे एव रूपे ताभ्यां हि तद्रूप्यते ।
ते दर्शयति –
मूर्तं चैवामूर्तं च ।
समुच्चीयमानावधारणम् । अत्र पृथिव्यप्तेजांसि त्रीणि भूतानि ब्रह्मणो रूपं मूर्तं मूर्च्छितावयवमितरेतरानुप्रविष्टावयवं कठिनमिति यावत् । तस्यैव विशेषणान्तराणि मर्त्यं मरणधर्मकम् । स्थितमव्यापि । अवच्छिन्नमिति यावत् । सतन्येभ्यो विशिष्यमाणमसाधारणधर्मवदिति यावत् । गन्धस्नेहोष्णताश्चान्योन्यव्यवच्छेदहेतवोऽसाधारणा धर्माः । तस्यैतस्य ब्रह्मरूपस्य तेजोऽबन्नस्य चतुर्विशेषणस्यैष रसः सारो य एष सविता तपति । अथामूर्तं वायुश्चान्तरिक्षं च तद्धि न कठिनमित्यमूर्तमेतदमृतममरणधर्मकम् । मूर्तं हि मूर्तान्तरेणाभिहन्यमानमवयवविश्लेषाद्ध्वंसते नतु तथाभावः सम्भवत्यमूर्तस्य । एतद्यदेति गच्छति व्याप्नोतीति । एतत्त्यं नित्यपरोक्षमित्यर्थः । तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन् सवितृमण्डले पुरुषः । करणात्मको हिरण्यगर्भप्राणाह्वयस्त्यस्य ह्येष रसः सारो नित्यपरोक्षता च साम्यमित्यधिदैवतम् । अथाध्यात्ममिदमेव मूर्तं यदन्यत्प्राणान्तराकाशाभ्यां भूतत्रयं शरीरारम्भकमेतन्मर्त्यमेतत्स्थितमेतत्सत्तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्योष रस इति । अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतमेतद्यदेतत्त्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेक्षन् पुरुषस्त्यस्य ह्येष रसः । लिङ्गस्य हि करणात्मकस्य हिरण्यगर्भस्य दक्षिणमक्ष्यधिष्ठानं श्रुतेरधिगतम् । तदेवं ब्रह्मण औपाधिकयोर्मूर्तामूर्तयोराध्यात्मिकाधिदैविकयोः कार्यकारणभावेन विभागो व्याख्यातः सत्त्यच्छब्दवाच्ययोः ।
अथेदानीं तस्य करणात्मनः पुरुषस्य लिङ्गस्य रूपं वक्तव्यम् । मूर्तामूर्तवासनाविज्ञानमयं विचित्रं मायामहेन्द्रजालोपमं तद्विचित्रैर्दृष्टान्तैरादर्शयति “तद्यथा माहारजनं”(बृ. उ. २ । ३ । ६) इत्यादिना । एतदुक्तं भवति मूर्तामूर्तवासनाविज्ञानमयस्य विचित्रं रूपं लिङ्गस्येति । तदेवं निरवशेषं सवासनं सत्यरूपमुक्त्वा यत्तत्सत्यस्य सत्यमुक्तं ब्रह्म तत्स्वरूपावधारणार्थमिदमारभ्यते । यतः सत्यस्य रूपं निःशेषमुक्तमतोऽवशिष्टं सत्यस्य यत्सत्यं तस्यानन्तरं तदुक्तिहेतुकं स्वरूपं वक्तव्यमित्याह –
अथात आदेशः
कथनं सत्यसत्यस्य परमात्मनस्तमाह –
नेति नेतीति ।
एतदर्थकथनार्थमिदमधिकरणम् ।
ननु किमेतावदेवादेश्यमुतेतः परमन्यतप्यस्तीत्यत आह –
नह्येतस्माद्ब्रह्मण इति ।
नेत्यादिष्टादन्यत्परमस्ति यदादेश्यं भवेत् । तस्मादेतावदेवादेश्यं नापरमस्तीत्यर्थः । अत्रैवमर्थेनेतिना यत्संनिहितं परामृष्टं तन्निषिध्यते नञा संनिहितं च मूर्तामूर्तं सवासनं रूपद्वयम् । तदवच्छेदकत्वेन च ब्रह्म । तत्रेदं विचार्यते किं रूपद्वयं सवासनं ब्रह्म च सर्वमेव च प्रतिषिध्यते, उत ब्रह्मैवाथ सवासनं रूपद्वयं ब्रह्म तु परिशिष्यत इति । यद्यपि तेषु तेषु वेदान्तप्रदेशेषु ब्रह्मस्वरूपं प्रतिपादितं तदसद्भावज्ञानं च निन्दितम् । “अस्तीत्येवोपलब्धव्यः”(क. उ. २ । ३ । १३) इति चास्य सत्त्वमवधारितं तथापि सद्बोधरूपं तद्ब्रह्म सवासनमूर्तामूर्तरूपसाधारणतया च सामान्यं तस्य चैते विशेषा मूर्तामूर्तादयः । नच तत्तद्विशेषनिषेधे सामान्यमवस्थातुमर्हति निर्विशेषस्य सामान्यस्यायोगात् । यथाहुः “निर्विशेषं न सामान्यं भवेच्छशविषाणवत्” इति । तस्मात्तद्विशेषनिषेधेऽपि तत्सामान्यस्य ब्रह्मणोऽनवस्थानात्सर्वस्यैवायं निषेधः । अत एव नह्येतस्मादिति नेत्यन्यत्परमस्तीति निषेधात्परं नास्तीति सर्वनिषेधमेव तत्त्वमाह श्रुतिः । “अस्तीत्येवोपलब्धव्यः” इति चोपासनाविधानवन्नेयं, न त्वस्तित्वमेवास्य तत्त्वम् । तत्प्रशंसार्थं चासद्भावज्ञाननिन्दा । यच्चान्यत्र ब्रह्मस्वरूपप्रतिपादनं तदपि मूर्तामूर्तरूपप्रतिपादनवन्निषेधार्थम् । असंनिहितोऽपि च तत्र निषेधो योग्यत्वात्सम्भन्स्यते । यथाहुः “येन यस्याभिसम्बन्धो दूरस्थस्यापि तेन सः” इति । तस्मात्सर्वस्यैवाविशेषेण निषेध इति प्रथमः पक्षः । अथवा पृथिव्यादिप्रपञ्चस्य समस्तस्य प्रत्यक्षादिप्रमाणसिद्धत्वात् , ब्रह्मणस्तु वाङ्मनसागोचरतया सकलप्रमाणविरहात् , कतरस्यास्तु निषेध इति विशये प्रपञ्चप्रतिषेधे समस्तप्रत्यक्षादिव्याकोपप्रसङ्गात् , ब्रह्मप्रतिषेधे त्वव्याकोपाद्ब्रह्मैव प्रतिषेधेन सम्बध्यते योग्यत्वान्न प्रपञ्चस्तद्वैपरीत्यात् , वीप्सा तु तदत्यन्ताभावसूचनायेति मध्यमः पक्षः ।
तत्र प्रथमं पक्षं निराकरोति –
न तावदुभयप्रतिषेध उपपद्यते शून्यवादप्रसङ्गादिति ।
अयमभिसन्धिः - उपाधयो ह्यमी पृथिव्यादयोऽविद्याकल्पिता न तु शोणकर्कादय इव विशेषा अश्वत्वस्य । न चोपाधिविगमे उपहितस्याभावोऽप्रतीतिर्वा । नह्युपादीनां दर्पणमणिकृपाणादीनामपगमे मुखस्याभावोऽप्रतीतिर्वा । तस्मादुपाधिनिषेधेऽपि नोपहितस्य शशविषाणायमानताप्रत्ययो वा । न चेतीति संनिधानाविशेषात्सर्वस्य प्रतिषेध्यत्वमिति युक्तम् । नहि भावमनुपाश्रित्य प्रतिषेध उपपद्यते । किञ्चिद्धि क्वचिन्निषिध्यते । नह्यनाश्रयः प्रतिषेधः शक्यः प्रतिपत्तुम् ।
तदिदमुक्तम् –
परिशिष्यमाणे चान्यस्मिन्य इतरः प्रतिषेद्धुमारभ्यते तस्य प्रतिषेद्धुमशक्यत्वात्तस्यैव परमार्थत्वापत्तेः प्रतिषेधानुपपत्तिः ।
मध्यमं पक्षं प्रतिक्षिपति –
नापि ब्रह्मप्रतिषेध उपपद्यते ।
युक्तं यन्नैसर्गिकाविद्याप्राप्तः प्रपञ्चः प्रतिषिध्यते प्राप्तिपूर्वकत्वात्प्रतिषेधस्य । ब्रह्म तु नाविद्यासिद्धं, नापि प्रमाणान्तरात् । तस्माच्छब्देन प्राप्तं प्रतिषेधनीयम् । तथाच यस्तस्य शब्दः प्रापकः स तत्पर इति स ब्रह्मणि प्रमाणमिति कथमस्य निषेधोऽपि प्रमाणवान् । नच पर्युदासाधिकरणपूर्वपक्षन्यायेन विकल्पः, वस्तुनि सिद्धस्वभावे तदनुपपत्तेः । न चावाङ्मनसगोचरो बुद्धावलेखितुं शक्यः । अशक्यश्च कथं निषिध्यते । प्रपञ्चस्त्वनाद्यविद्यासिद्धोऽनूद्य ब्रह्मणि प्रतिषिध्यत इति युक्तम् । तदिमामनुपपत्तिमभिप्रेत्योक्तम् “नापि ब्रह्मप्रतिषेध उपपद्यते” इति ।
हेत्वन्तरमाह –
ब्रह्म ते ब्रवाणीति ।
उपक्रमविरोधादिति ।
उपक्रमपरामर्शोपसंहारपर्यालोचनया हि वेदान्तानां सर्वेषामेव ब्रह्मपरत्वमुपपादितं प्रथमेऽध्याये । न चासत्यामाकाङ्क्षायां दूरतरस्थेन प्रतिषेधेनैषां सम्बन्धः सम्भवति ।
यच्च वाङ्मनसातीततया ब्रह्मणस्तत्प्रतिषेधस्य न प्रमाणान्तरविरोध इति तत्राह –
वाङ्मनसातीतत्वमपीति ।
प्रतिपादयन्ति वेदान्ता महता प्रयत्नेन ब्रह्म । नच निषेधाय तत्प्रतिपादनम् , अनुपपत्तेरित्युक्तमधस्तात् । इदानीं तु निष्प्रयोजनमित्युक्तं “प्रक्षालनाद्धि पङ्कस्य” इति न्यायात् । तस्माद्वेदान्तवाचा मनसि संनिधानाद्ब्रह्मणो वाङ्मनसातीतत्वं नाञ्जसमपि तु प्रतिपादनप्रक्रियोपक्रम एषः । यथा गवादयो विषयाः साक्षाच्छृङ्गग्राहिकया प्रतिपाद्यन्ते प्रतियन्ते च नैवं ब्रह्म । यथाहुः “भेदप्रपञ्चविलयद्वारेण च निरूपणम्” इति ।
ननु प्रकृतप्रतिषेधे ब्रह्मणोऽपि कस्मान्न प्रतिषेध इत्यत आह –
तद्धि प्रकृतं प्रपञ्चितं चेति ।
प्रधानं प्रकृतं प्रपञ्चश्च प्रधानं न ब्रह्म तस्य षष्ठ्यन्ततया प्रपञ्चावच्छेदकत्वेनाप्रधानत्वादित्यर्थः । ततोऽन्यद्ब्रवीतीति नेति नेतीति प्रतिषेधादन्यद्भूयो ब्रवीतीति तन्निर्वचनम् । नह्येतस्मादित्यस्य यदा नह्येतस्मादिति नेति नेत्यादिष्टाद्ब्रह्मणोऽन्यत्परमस्तीति व्याख्यानं तदा प्रपञ्चप्रतिषेधादन्यद्ब्रह्मैव ब्रवीतीति व्याख्येयम् । यदा तु नह्येतस्मादिति सर्वनाम्ना प्रतिषेधो ब्रह्मण आदेशः परामृश्यते तदापि प्रपञ्चप्रतिषेधमात्रं न प्रतिपत्तव्यमपि तु तेन प्रतिषेधेन भावरूपं ब्रह्मोपलक्ष्यते ।
कस्मादित्यत आह –
ततो ब्रवीति च भूय इति ।
यस्मात्प्रतिषेधस्य परस्तादपि ब्रवीति । अथ ब्रह्मणो नामधेयं नाम सत्यस्य सत्यमिति तद्व्याचष्टे श्रुतिः “प्राणा वै सत्यम्”(बृ. उ. २ । १ । २०) इति । महारजनाद्युपमितं लिङ्गमुपलक्षयति । तत्खलु सत्यमितरापेक्षया तस्यापि परं सत्यं ब्रह्म । तदेवं यतः प्रतिषेधस्य परस्ताद्ब्रवीति तस्मान्न प्रपञ्चप्रतिषेधमात्रं ब्रह्मापि तु भावरूपमिति । तदेवं पूर्वस्मिन् व्याख्याने निर्वचनं ब्रवीतीति व्याख्यातम् । अस्मिस्तुं सत्यस्य सत्यमिति ब्रवीतीति व्याख्येयम् । शेषमतिरोहितार्थम् ॥ २३ ॥
अपि च संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥
अतोऽनन्तेन तथा हि लिङ्गम् ॥ २६ ॥
उभयव्यपदेशात्त्वहिकुण्डलवत् ।
अनेनाहिरूपेणाभेदः । कुण्डलादिरूपेण तु भेद इत्युक्तं तेन विषयभेदाद्भेदाभेदयोरविरोध इत्येकविषयत्वेन वा सर्वदोपलब्धेरविरोधः । विरुद्धमिति हि नः क्व संप्रत्ययो न यत्प्रमाणेनोपलभ्यते । आगमतश्च प्रमाणादेकगोचरावपि भेदाभेदौ प्रतीयमानौ न विरोधमावहतः सवितृप्रकाशयोरिव प्रत्यक्षात्प्रमाणाद्भेदाभेदाविति ॥ २७ ॥
प्रकारान्तरेण भेदाभेदयोरविरोधमाह –
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥
तदेवं परमतमुपन्यस्य स्वमतमाह –
पूर्ववद्वा ।
अयमभिसन्धिः - यस्य मतं वस्तुनोऽहित्वेनाभेदः कुण्डलत्वेन भेद इति, स एवं ब्रुवाणः प्रष्टव्यो जायते, किमहित्वकुण्डलत्वे वस्तुनो भिन्ने उताभिन्ने इति । यदि भिन्ने, अहित्वकुण्डलत्वे भिन्ने इति वक्तव्यं न तु वस्तुनस्ताभ्यां भेदाभेदौ । नह्यन्यभेदाभेदाभ्यामन्यद्भिन्नमभिन्नं वा भवितुमर्हति । अतिप्रसङ्गात् । अथ वस्तुनो न भिद्येते अहित्वकुण्डलत्वे तथा सति को भेदाभेदयोर्विषयभेदस्तयोर्वस्तुनोऽनन्यत्वेनाभेदात् । न चैकविषयत्वेऽपि सदानुभूयमानत्वाद्भेदाभेदयोरविरोधः स्वरूपविरुद्धयोरप्यविरोधे क्व नाम विरोधो व्यवतिष्ठेत । नच सदानुभूयमानं विचारासहं भाविकं भवितुमर्हति । देहात्मभावस्यापि सर्वदानुभूयमानस्य भाविकत्वप्रसङ्गात् । प्रपञ्चितं चैतदस्माभिः प्रथमसूत्र इति नेह प्रपञ्चितम् । तस्मादनाद्यविद्याविक्रीडितमेवैकस्यात्मनो जीवभावभेदो न भाविकः । तथाच तत्त्वज्ञानदविद्यानिवृत्तावपवर्गसिद्धिः । तात्त्विकत्वे त्वस्य न ज्ञानान्निवृत्तिसम्भवः । नच तत्त्वज्ञानादन्यदपवर्गसाधनमस्ति । यथाह श्रुतिः “तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय”(श्वे. उ. ३ । ८) इति । शेषमतिरोहितार्थम् ॥ २९ ॥
प्रतिषेधाच्च ॥ ३० ॥