अद्वैतशारदा

भामतीव्याख्या

प्रकृतैतावत्त्वाधिकरणविषयाः

व्याख्याः

प्रकृ­तै­ता­वत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ।

अधिकरणविषयमाह –
द्वे वाव ब्रह्मणो रूपे इति ।
द्वे एव ब्रह्मणो रूपे ब्रह्मणः पर­मा­र्थ­तोऽ­रू­प­स्या­ध्या­रो­पिते द्वे एव रूपे ताभ्यां हि तद्रूप्यते ।

ते दर्शयति –
मूर्तं चैवामूर्तं च ।
समु­च्ची­य­मा­ना­व­धा­र­णम् । अत्र पृथि­व्य­प्ते­जांसि त्रीणि भूतानि ब्रह्मणो रूपं मूर्तं मूर्च्छि­ता­व­य­व­मि­त­रे­त­रा­नु­प्र­वि­ष्टा­व­यवं कठिनमिति यावत् । तस्यैव विशेषणान्तराणि मर्त्यं मरणधर्मकम् । स्थितमव्यापि । अवच्छिन्नमिति यावत् । सतन्येभ्यो विशि­ष्य­मा­ण­म­सा­धा­र­ण­ध­र्म­व­दिति यावत् । गन्ध­स्ने­हो­ष्ण­ता­श्चा­न्यो­न्य­व्य­व­च्छे­द­हे­त­वोऽ­सा­धा­रणा धर्माः । तस्यैतस्य ब्रह्मरूपस्य तेजोऽबन्नस्य चतु­र्वि­शे­ष­ण­स्यैष रसः सारो य एष सविता तपति । अथामूर्तं वायु­श्चा­न्त­रिक्षं च तद्धि न कठि­न­मि­त्य­मू­र्त­मे­त­द­मृ­त­म­म­र­ण­ध­र्म­कम् । मूर्तं हि मूर्ता­न्त­रे­णा­भि­ह­न्य­मा­न­म­व­य­व­वि­श्ले­षा­द्ध्वं­सते नतु तथाभावः सम्भ­व­त्य­मू­र्तस्य । एतद्यदेति गच्छति व्याप्नोतीति । एतत्त्यं नित्य­प­रो­क्ष­मि­त्यर्थः । तस्यै­त­स्या­मू­र्त­स्यै­त­स्या­मृ­त­स्यै­तस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन् सवितृमण्डले पुरुषः । करणात्मको हिर­ण्य­ग­र्भ­प्रा­णा­ह्व­य­स्त्यस्य ह्येष रसः सारो नित्यपरोक्षता च साम्य­मि­त्य­धि­दै­व­तम् । अथा­ध्या­त्म­मि­द­मेव मूर्तं यद­न्य­त्प्रा­णा­न्त­रा­का­शाभ्यां भूतत्रयं शरी­रा­र­म्भ­क­मे­त­न्म­र्त्य­मे­त­त्स्थि­त­मे­त­त्स­त्त­स्यै­तस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्योष रस इति । अथामूर्तं प्राणश्च यश्चा­य­म­न्त­रा­त्म­न्ना­काश एत­द­मृ­त­मे­त­द्य­दे­तत्त्यं तस्यै­त­स्या­मू­र्त­स्यै­त­स्या­मृ­त­स्यै­तस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेक्षन् पुरुषस्त्यस्य ह्येष रसः । लिङ्गस्य हि करणात्मकस्य हिरण्यगर्भस्य दक्षि­ण­म­क्ष्य­धि­ष्ठानं श्रुतेरधिगतम् । तदेवं ब्रह्मण औपा­धि­क­यो­र्मू­र्ता­मू­र्त­यो­रा­ध्या­त्मि­का­धि­दै­वि­कयोः कार्यकारणभावेन विभागो व्याख्यातः सत्त्य­च्छ­ब्द­वा­च्ययोः ।

अथेदानीं तस्य करणात्मनः पुरुषस्य लिङ्गस्य रूपं वक्तव्यम् । मूर्ता­मू­र्त­वा­स­ना­वि­ज्ञा­न­मयं विचित्रं माया­म­हे­न्द्र­जा­लो­पमं तद्वि­चि­त्रै­र्दृ­ष्टा­न्तै­रा­द­र्श­यति “तद्यथा माहारजनं”(बृ. उ. २ । ३ । ६) इत्यादिना । एतदुक्तं भवति मूर्ता­मू­र्त­वा­स­ना­वि­ज्ञा­न­म­यस्य विचित्रं रूपं लिङ्गस्येति । तदेवं निरवशेषं सवासनं सत्यरूपमुक्त्वा यत्तत्सत्यस्य सत्यमुक्तं ब्रह्म तत्स्व­रू­पा­व­धा­र­णा­र्थ­मि­द­मा­र­भ्यते । यतः सत्यस्य रूपं निःशे­ष­मु­क्त­म­तोऽ­व­शिष्टं सत्यस्य यत्सत्यं तस्यानन्तरं तदुक्तिहेतुकं स्वरूपं वक्तव्यमित्याह –
अथात आदेशः

कथनं सत्यसत्यस्य परमात्मनस्तमाह –
नेति नेतीति ।
एत­द­र्थ­क­थ­ना­र्थ­मि­द­म­धि­क­र­णम् ।

ननु किमे­ता­व­दे­वा­दे­श्य­मु­तेतः पर­म­न्य­त­प्य­स्ती­त्यत आह –
नह्ये­त­स्मा­द्ब्र­ह्मण इति ।
नेत्या­दि­ष्टा­द­न्य­त्प­र­मस्ति यदादेश्यं भवेत् । तस्मा­दे­ता­व­दे­वा­देश्यं नाप­र­म­स्ती­त्यर्थः । अत्रै­व­म­र्थे­ने­तिना यत्संनिहितं परामृष्टं तन्निषिध्यते नञा संनिहितं च मूर्तामूर्तं सवासनं रूपद्वयम् । तदवच्छेदकत्वेन च ब्रह्म । तत्रेदं विचार्यते किं रूपद्वयं सवासनं ब्रह्म च सर्वमेव च प्रतिषिध्यते, उत ब्रह्मैवाथ सवासनं रूपद्वयं ब्रह्म तु परिशिष्यत इति । यद्यपि तेषु तेषु वेदा­न्त­प्र­दे­शेषु ब्रह्मस्वरूपं प्रतिपादितं तदसद्भावज्ञानं च निन्दितम् । “अस्ती­त्ये­वो­प­ल­ब्धव्यः”(क. उ. २ । ३ । १३) इति चास्य सत्त्वमवधारितं तथापि सद्बोधरूपं तद्ब्रह्म सवा­स­न­मू­र्ता­मू­र्त­रू­प­सा­धा­र­ण­तया च सामान्यं तस्य चैते विशेषा मूर्तामूर्तादयः । नच तत्त­द्वि­शे­ष­नि­षेधे सामा­न्य­म­व­स्था­तु­म­र्हति निर्विशेषस्य सामा­न्य­स्या­यो­गात् । यथाहुः “निर्विशेषं न सामान्यं भवे­च्छ­श­वि­षा­ण­वत्” इति । तस्मा­त्त­द्वि­शे­ष­नि­षे­धेऽपि तत्सामान्यस्य ब्रह्म­णोऽ­न­व­स्था­ना­त्स­र्व­स्यै­वायं निषेधः । अत एव नह्येतस्मादिति नेत्य­न्य­त्प­र­म­स्तीति निषेधात्परं नास्तीति सर्वनिषेधमेव तत्त्वमाह श्रुतिः । “अस्ती­त्ये­वो­प­ल­ब्धव्यः” इति चोपा­स­ना­वि­धा­न­व­न्नेयं, न त्वस्ति­त्व­मे­वास्य तत्त्वम् । तत्प्रशंसार्थं चास­द्भा­व­ज्ञा­न­निन्दा । यच्चान्यत्र ब्रह्म­स्व­रू­प­प्र­ति­पा­दनं तदपि मूर्ता­मू­र्त­रू­प­प्र­ति­पा­द­न­व­न्नि­षे­धा­र्थम् । असंनिहितोऽपि च तत्र निषेधो योग्य­त्वा­त्स­म्भ­न्स्यते । यथाहुः “येन यस्याभिसम्बन्धो दूरस्थस्यापि तेन सः” इति । तस्मा­त्स­र्व­स्यै­वा­वि­शे­षेण निषेध इति प्रथमः पक्षः । अथवा पृथि­व्या­दि­प्र­प­ञ्चस्य समस्तस्य प्रत्य­क्षा­दि­प्र­मा­ण­सि­द्ध­त्वात् , ब्रह्मणस्तु वाङ्मनसागोचरतया सक­ल­प्र­मा­ण­वि­र­हात् , कतरस्यास्तु निषेध इति विशये प्रप­ञ्च­प्र­ति­षेधे सम­स्त­प्र­त्य­क्षा­दि­व्या­को­प­प्र­स­ङ्गात् , ब्रह्मप्रतिषेधे त्वव्या­को­पा­द्ब्र­ह्मैव प्रतिषेधेन सम्बध्यते योग्यत्वान्न प्रप­ञ्च­स्त­द्वै­प­री­त्यात् , वीप्सा तु तद­त्य­न्ता­भा­व­सू­च­ना­येति मध्यमः पक्षः ।

तत्र प्रथमं पक्षं निराकरोति –
न तावदुभयप्रतिषेध उपपद्यते शून्य­वा­द­प्र­स­ङ्गा­दिति ।
अयमभिसन्धिः - उपाधयो ह्यमी पृथि­व्या­द­योऽ­वि­द्या­क­ल्पिता न तु शोणकर्कादय इव विशेषा अश्वत्वस्य । न चोपाधिविगमे उप­हि­त­स्या­भा­वोऽ­प्र­ती­तिर्वा । नह्युपादीनां दर्प­ण­म­णि­कृ­पा­णा­दी­ना­म­प­गमे मुख­स्या­भा­वोऽ­प्र­ती­तिर्वा । तस्मा­दु­पा­धि­नि­षे­धेऽपि नोपहितस्य शश­वि­षा­णा­य­मा­न­ता­प्र­त्ययो वा । न चेतीति संनि­धा­ना­वि­शे­षा­त्स­र्वस्य प्रति­षे­ध्य­त्व­मिति युक्तम् । नहि भावमनुपाश्रित्य प्रतिषेध उपपद्यते । किञ्चिद्धि क्वचि­न्नि­षि­ध्यते । नह्यनाश्रयः प्रतिषेधः शक्यः प्रतिपत्तुम् ।

तदिदमुक्तम् –
परिशिष्यमाणे चान्यस्मिन्य इतरः प्रति­षे­द्धु­मा­र­भ्यते तस्य प्रति­षे­द्धु­म­श­क्य­त्वा­त्त­स्यैव पर­मा­र्थ­त्वा­पत्तेः प्रति­षे­धा­नु­प­पत्तिः ।

मध्यमं पक्षं प्रतिक्षिपति –
नापि ब्रह्मप्रतिषेध उपपद्यते ।
युक्तं यन्नै­स­र्गि­का­वि­द्या­प्राप्तः प्रपञ्चः प्रतिषिध्यते प्राप्ति­पू­र्व­क­त्वा­त्प्र­ति­षे­धस्य । ब्रह्म तु नाविद्यासिद्धं, नापि प्रमाणान्तरात् । तस्माच्छब्देन प्राप्तं प्रतिषेधनीयम् । तथाच यस्तस्य शब्दः प्रापकः स तत्पर इति स ब्रह्मणि प्रमाणमिति कथमस्य निषेधोऽपि प्रमाणवान् । नच पर्यु­दा­सा­धि­क­र­ण­पू­र्व­प­क्ष­न्या­येन विकल्पः, वस्तुनि सिद्धस्वभावे तदनुपपत्तेः । न चावाङ्मनसगोचरो बुद्धावलेखितुं शक्यः । अशक्यश्च कथं निषिध्यते । प्रप­ञ्च­स्त्व­ना­द्य­वि­द्या­सि­द्धोऽ­नूद्य ब्रह्मणि प्रतिषिध्यत इति युक्तम् । तदि­मा­म­नु­प­प­त्ति­म­भि­प्रे­त्यो­क्तम् “नापि ब्रह्मप्रतिषेध उपपद्यते” इति ।

हेत्वन्तरमाह –
ब्रह्म ते ब्रवाणीति ।

उप­क्र­म­वि­रो­धा­दिति ।
उप­क्र­म­प­रा­म­र्शो­प­सं­हा­र­प­र्या­लो­च­नया हि वेदान्तानां सर्वेषामेव ब्रह्म­प­र­त्व­मु­प­पा­दितं प्रथमेऽध्याये । न चास­त्या­मा­का­ङ्क्षायां दूरतरस्थेन प्रतिषेधेनैषां सम्बन्धः सम्भवति ।

यच्च वाङ्मनसातीततया ब्रह्म­ण­स्त­त्प्र­ति­षे­धस्य न प्रमा­णा­न्त­र­वि­रोध इति तत्राह –
वाङ्म­न­सा­ती­त­त्व­म­पीति ।
प्रतिपादयन्ति वेदान्ता महता प्रयत्नेन ब्रह्म । नच निषेधाय तत्प्रतिपादनम् , अनु­प­प­त्ते­रि­त्यु­क्त­म­ध­स्तात् । इदानीं तु निष्प्र­यो­ज­न­मि­त्युक्तं “प्रक्षालनाद्धि पङ्कस्य” इति न्यायात् । तस्मा­द्वे­दा­न्त­वाचा मनसि संनि­धा­ना­द्ब्र­ह्मणो वाङ्मनसातीतत्वं नाञ्जसमपि तु प्रति­पा­द­न­प्र­क्रि­यो­प­क्रम एषः । यथा गवादयो विषयाः साक्षा­च्छृ­ङ्ग­ग्रा­हि­कया प्रतिपाद्यन्ते प्रतियन्ते च नैवं ब्रह्म । यथाहुः “भेद­प्र­प­ञ्च­वि­ल­य­द्वा­रेण च निरूपणम्” इति ।

ननु प्रकृतप्रतिषेधे ब्रह्मणोऽपि कस्मान्न प्रतिषेध इत्यत आह –
तद्धि प्रकृतं प्रपञ्चितं चेति ।
प्रधानं प्रकृतं प्रपञ्चश्च प्रधानं न ब्रह्म तस्य षष्ठ्यन्ततया प्रप­ञ्चा­व­च्छे­द­क­त्वे­ना­प्र­धा­न­त्वा­दि­त्यर्थः । ततोऽ­न्य­द्ब्र­वी­तीति नेति नेतीति प्रति­षे­धा­द­न्य­द्भूयो ब्रवीतीति तन्निर्वचनम् । नह्ये­त­स्मा­दि­त्यस्य यदा नह्येतस्मादिति नेति नेत्या­दि­ष्टा­द्ब्र­ह्म­णोऽ­न्य­त्प­र­म­स्तीति व्याख्यानं तदा प्रप­ञ्च­प्र­ति­षे­धा­द­न्य­द्ब्र­ह्मैव ब्रवीतीति व्याख्येयम् । यदा तु नह्येतस्मादिति सर्वनाम्ना प्रतिषेधो ब्रह्मण आदेशः परामृश्यते तदापि प्रप­ञ्च­प्र­ति­षे­ध­मात्रं न प्रतिपत्तव्यमपि तु तेन प्रतिषेधेन भावरूपं ब्रह्मो­प­ल­क्ष्यते ।

कस्मादित्यत आह –
ततो ब्रवीति च भूय इति ।
यस्मा­त्प्र­ति­षे­धस्य परस्तादपि ब्रवीति । अथ ब्रह्मणो नामधेयं नाम सत्यस्य सत्यमिति तद्व्याचष्टे श्रुतिः “प्राणा वै सत्यम्”(बृ. उ. २ । १ । २०) इति । महा­र­ज­ना­द्यु­प­मितं लिङ्गमुपलक्षयति । तत्खलु सत्य­मि­त­रा­पे­क्षया तस्यापि परं सत्यं ब्रह्म । तदेवं यतः प्रतिषेधस्य परस्ताद्ब्रवीति तस्मान्न प्रप­ञ्च­प्र­ति­षे­ध­मात्रं ब्रह्मापि तु भावरूपमिति । तदेवं पूर्वस्मिन् व्याख्याने निर्वचनं ब्रवीतीति व्याख्यातम् । अस्मिस्तुं सत्यस्य सत्यमिति ब्रवीतीति व्याख्येयम् । शेष­म­ति­रो­हि­ता­र्थम् ॥ २३ ॥

अपि च संराधने प्रत्य­क्षा­नु­मा­ना­भ्याम् ॥ २४ ॥

प्रका­शा­दि­व­च्चा­वै­शेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥

अतोऽनन्तेन तथा हि लिङ्गम् ॥ २६ ॥

उभ­य­व्य­प­दे­शा­त्त्व­हि­कु­ण्ड­ल­वत् ।
अने­ना­हि­रू­पे­णा­भेदः । कुण्डलादिरूपेण तु भेद इत्युक्तं तेन विष­य­भे­दा­द्भे­दा­भे­द­यो­र­वि­रोध इत्येकविषयत्वेन वा सर्व­दो­प­ल­ब्धे­र­वि­रोधः । विरुद्धमिति हि नः क्व संप्रत्ययो न यत्प्र­मा­णे­नो­प­ल­भ्यते । आगमतश्च प्रमा­णा­दे­क­गो­च­रा­वपि भेदाभेदौ प्रतीयमानौ न विरोधमावहतः सवि­तृ­प्र­का­श­यो­रिव प्रत्य­क्षा­त्प्र­मा­णा­द्भे­दा­भे­दा­विति ॥ २७ ॥

प्रकारान्तरेण भेदा­भे­द­यो­र­वि­रो­ध­माह –
प्रका­शा­श्र­य­वद्वा तेजस्त्वात् ॥ २८ ॥

तदेवं परमतमुपन्यस्य स्वमतमाह –
पूर्ववद्वा ।
अयमभिसन्धिः - यस्य मतं वस्तु­नोऽ­हि­त्वे­ना­भेदः कुण्डलत्वेन भेद इति, स एवं ब्रुवाणः प्रष्टव्यो जायते, किम­हि­त्व­कु­ण्ड­लत्वे वस्तुनो भिन्ने उताभिन्ने इति । यदि भिन्ने, अहि­त्व­कु­ण्ड­लत्वे भिन्ने इति वक्तव्यं न तु वस्तुनस्ताभ्यां भेदाभेदौ । नह्य­न्य­भे­दा­भे­दा­भ्या­म­न्य­द्भि­न्न­म­भिन्नं वा भवितुमर्हति । अतिप्रसङ्गात् । अथ वस्तुनो न भिद्येते अहि­त्व­कु­ण्ड­लत्वे तथा सति को भेदा­भे­द­यो­र्वि­ष­य­भे­द­स्त­यो­र्व­स्तु­नोऽ­न­न्य­त्वे­ना­भे­दात् । न चैकविषयत्वेऽपि सदा­नु­भू­य­मा­न­त्वा­द्भे­दा­भे­द­यो­र­वि­रोधः स्वरू­प­वि­रु­द्ध­यो­र­प्य­वि­रोधे क्व नाम विरोधो व्यवतिष्ठेत । नच सदानुभूयमानं विचारासहं भाविकं भवितुमर्हति । देहा­त्म­भा­व­स्यापि सर्व­दा­नु­भू­य­मा­नस्य भावि­क­त्व­प्र­स­ङ्गात् । प्रपञ्चितं चैतदस्माभिः प्रथमसूत्र इति नेह प्रपञ्चितम् । तस्मा­द­ना­द्य­वि­द्या­वि­क्री­डि­त­मे­वै­क­स्या­त्मनो जीवभावभेदो न भाविकः । तथाच तत्त्व­ज्ञा­न­द­वि­द्या­नि­वृ­त्ता­व­प­व­र्ग­सिद्धिः । तात्त्विकत्वे त्वस्य न ज्ञाना­न्नि­वृ­त्ति­स­म्भवः । नच तत्त्व­ज्ञा­ना­द­न्य­द­प­व­र्ग­सा­ध­न­मस्ति । यथाह श्रुतिः “तमेव विदि­त्वा­ति­मृ­त्यु­मेति नान्यः पन्था विद्यतेऽयनाय”(श्वे. उ. ३ । ८) इति । शेष­म­ति­रो­हि­ता­र्थम् ॥ २९ ॥

प्रतिषेधाच्च ॥ ३० ॥