भामतीव्याख्या
सर्ववेदान्तप्रत्ययाधिकरणविषयाः
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ।
पूर्वेण सङ्गतिमाह –
व्याख्यातं विज्ञेयस्य ब्रह्मण इति ।
निरुपाधिब्रह्मतत्त्वगोचरं विज्ञानं मन्वान आक्षिपति –
ननु विज्ञेयं ब्रह्मेति ।
सावयवस्य ह्यवयवानां भेदात्तदवयवविशिष्टब्रह्मगोचराणि विज्ञानानि गोचरभेदाद्भिद्येरन्नित्यवयवा ब्रह्मणो निराकृताः पूर्वापरादीत्यनेन ।
नच नानास्वभावं ब्रह्म यतः स्वभावभेदाद्भिन्नानि ज्ञानानीत्युक्तम् –
एकरसमिति ।
घनङ्कठिनम् ।
नन्वेकमप्यनेकरूपं लोके दृष्टं, यथा सोमशर्मैकोऽप्याचार्यो मातुलपिता पुत्रो भ्राता भर्ता जामाता द्विजोत्तम इत्यनेकरूप इत्यत उक्तम् –
एकरूपत्वाच्च ।
एकस्मिन् गोचरे सम्भवन्ति बहूनि विज्ञानानि न त्वनेकाकारणीत्युक्तम् –
अनेकरूपाणि ।
रूपमाकारः ।
समाधत्ते –
उच्यते सगुणेति ।
तत्तद्गुणोपाधानब्रह्मविषया उपासनाः प्राणादिविषयाश्च दृष्टादृष्टक्रमुक्तिफला विषयभेदाद्भिद्यन्त इत्यर्थः ।
तत उपपन्नो विमर्श इत्याह –
तेष्वेषा चिन्ता ।
पूर्वपक्षं गृह्णाति –
तत्रेति ।
नाम्नस्तावदिति ।
अस्ति “अथैष ज्योति एतेन सहस्रदक्षिणेन यजेत” इति । तत्र संशयः किं यजेतेति संनिहितज्योतिष्टोमानुवादेन सहस्रदक्षिणालक्षणगुणविधानम् , उतैतद्गुणविशिष्टकर्मान्तरविधानमिति । किं तावत्प्राप्तम् , ज्योतिष्टोमस्य प्रक्रान्तत्वाद्यजेतेति तदनुवादाज्ज्योतिरिति प्रातिपदिकमात्रं पठित्वा एतेनेत्यनुकृष्य कर्मसामानाधिकरण्येन कर्मनामव्यवस्थापनात् , कर्मणश्चानुवाद्यत्वेन तत्तन्त्रस्य नाम्नोऽपि तथैव व्यवस्थापनात् , ज्योतिःशब्दस्य “वसन्ते वसन्ते ज्योतिषा” इति च ज्योतिष्टोमे योगदर्शनात्नामैकदेशेन च नामोपलक्षणस्य लोकसिद्धत्वाद्भीमसेनोपलक्षणभीमपदवत् , अथशब्दस्य चानन्तर्यार्थस्यासम्बन्धित्वेऽनुपपत्तेः, गुणविशिष्टकर्मान्तरविधेश्च गुणमात्रविधानस्य लाघवात् , द्वादशशतदक्षिणायाश्चोत्पत्त्यशिष्टतया समशिष्टतया सहस्रदक्षिणया सह विकल्पोपपत्तेः, प्रकृतस्यैव ज्योतिष्टोमस्य सहस्रदक्षिणालक्षणगुणविधानार्थमयमनुवादो न तु कर्मान्तरमिति प्राप्तम् । एवं प्राप्त उच्यते भवेत्पूर्वस्मिन् गुणविधिर्यदि तदेव प्रकरणं स्यात् । विच्छिन्नं तु तत् । तथाहि संनिधावपि पूर्वासम्बद्धार्थं संज्ञान्तरं प्रतीयमानम् “अन्यायश्चानेकार्थत्वम्” इति न्यायादुत्सर्गतोऽर्थान्तरार्थत्वात्पूर्वबुद्धिं व्यवच्छिनत्त्यपूर्वबुद्धिं च प्रसूत इति लोकसिद्धम् । न जातु देहि देवदत्ताय गामथ देवाय वाजिनमिति देवशब्दाद्देवदत्तं वाजिभाजमवस्यन्ति लौकिकाः । तथा चोपरिष्टात् ‘यजेत’ इति श्रूयमाणमसम्बद्धार्थपदव्यवायात्तत्कर्मबुद्धिमनादधत्तत्र गुणविधानमात्रासमर्थं कर्मान्तरमेव विधत्ते । न चैकत्रानुपपत्त्या लक्षणया ज्योतिःशब्दो ज्योतिष्टोमे प्रवृत्त इत्यसत्यामनुपपत्तौ लाक्षणिको युक्तः । नहि गङ्गायां घोष इत्यत्र गङ्गापदं लाक्षणिकमिति मीनो गङ्गायामित्यत्रापि लाक्षणिकं भवति । भेदेऽपि च प्रथमं संज्ञान्तरेणोल्लिखिते यजिशब्दसामानाधिकरण्यं कर्मनामधेयतामात्रतामावहति नतु संज्ञान्तरोपजनितां भेदधियमपनेतुमुत्सहते । तथा चाथशब्दोऽधिकारार्थः प्रकरणान्तरतामवद्योतयति । एषशब्दश्चाधिक्रियमाणपरामर्शक इति सोऽयं संज्ञान्तराद्भेद इति ।
भवतु संज्ञान्तरात्कर्मभेदः प्रस्तुते तु किमायातमित्यत आह –
अस्ति चात्र वेदान्तान्तरविहितेष्विति ।
यथैव काठकादिसमाख्या ग्रन्थे प्रयुज्यन्त एवं ज्ञानेऽपि लौकिकाः । न चास्ति विशेषो यतो ग्रन्थे मुख्याविज्ञाने गौणी भवेत् । प्रणयनं च ग्रन्थज्ञानयोरभिन्नं प्रवृत्तिनिमित्तम् । तस्माज्ज्ञानस्यापि वाचिका समाख्या । तथाच यदा ज्योतिष्टोमसंनिधौ श्रूयमाणं समाख्यान्तरं तत्प्रतीकमपि कर्मणो भेदकं तदा कैव कथा शाखान्तरीये विप्रकृष्टतमेऽतत्प्रतीकभूतसमाख्यान्तराभिधेये ज्ञात इति । तथा रूपभेदोऽपि कर्मभेदस्य प्रतिपादकः प्रसिद्धो यथा “वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्” इत्येवमादिषु । इदमाम्नयते “तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा” इति । अत्र हि द्रव्यदेवतासम्बन्धानुमितो यागो विधीयते । तदनन्तरं चेदमाम्नायते “वाजिभ्यो वाजिनम्” इति । अत्रेदं सन्दिह्यते किं पूर्वस्मिन्नेव कर्मणि वाजिनं गुणो विधीयते उत कर्मान्तरं द्रव्यदेवतान्तरविशिष्टमपूर्वं विधीयत इति । किं तावत्प्राप्तम् , द्रव्यदेवतान्तरविशिष्टकर्मान्तरविधौ विधिगौरवप्रसङ्गात्कर्मान्तरापूर्वान्तरकल्पनागौरवप्रसङ्गाच्च न कर्मान्तरविधानमपि तु पूर्वस्मिन्नेव कर्मणि वाजिनद्रव्यविधिः । न चोत्पत्तिशिष्टमिक्षागुणावरोधात्तत्र वाजिनमलब्धावकाशं कर्मान्तरं गोचरयतीति युक्तम् । उभयोरपि वाक्ययोः समसमयप्रवृत्तेरामिक्षावाजिनयोरुत्पत्तौ समं शिष्यमाणत्वेन नामिक्षायाः शिष्टत्वम् । तत्कथमनयावरुद्धं कर्म न वाजिनं निविशेत् । न च वैश्वदेवीत्यत्र श्रौत आमिक्षासम्बन्धो विश्वेषां देवानां येन वाजिनसम्बन्धाद्वाक्यगम्याद्बलवान्भवेदुभयोरपि पदान्तरापेक्षप्रतीतितया वाक्यगम्यत्वाविशेषात् । नो खलु वैश्वदेवीत्युक्ते आमिक्षापदानपेक्षामामिक्षामध्यवस्यामः । अस्तु वा श्रौतत्वं तथापि वाजिभ्य इति पदं वाजमन्नमामिक्षा तदेषामस्तीति व्युत्पत्त्या तत्सम्बन्धिनो विश्वान्देवानुपलक्षयति । यद्यपि विश्वदेवशब्दाद्वाजिपदं भिन्नं, येन च शब्देन चोदना तेनैवोद्देशे देवतात्वं न शब्दान्तरेणान्यथार्थैकत्वेन सूर्यादित्यपदयोः सूर्यादित्यचर्वोरेकदैवत्यप्रसङ्गात् , तथापि वाजिन्नितीनेः सर्वनामार्थे स्मरणात्संनिहितस्य च सर्वनामार्थत्वात् , विश्वेषां देवानां च विश्वदेवपदेन संनिधापनात्तत्पदपुरःसरा एवैते वाजिपदेनोपस्थाप्या न तु सूर्यादित्यपदवत्स्वतन्त्राः । तथाच तदुपलक्षणार्थं वाजिपदं विश्वदेवोपहितामेव देवतामुपलक्षयतीति न शब्दान्तरोद्देवताभेदः । ततश्चामिक्षासम्बन्धोपजीवनेन विश्वेभ्यो वाजिनं विधीयमानं नामिक्षया बाध्यते किन्तु तया सह समुच्चीयत इति न कर्मान्तरमपि तु वाक्याभ्यां द्रव्ययुक्तमेकं कर्म विधीयत इति प्राप्त उच्यते स्यादेतदेवं यदि वैश्वदेवीति तद्धितश्रुत्यामिक्षा नोच्येत । तद्धितस्य त्वस्येति सर्वनामार्थे स्मरणात्संनिहितस्य च विशेष्यस्य सर्वनामार्थत्वात्तत्रैव तद्धितस्यापि वृत्तिर्नतु विश्वेषु देवेषु । न तत्सम्बन्धे, नापि तत्सम्बन्धिमात्रे । नन्वेवं सति कस्माद्वैश्वदेवीशब्दमात्रादेव नामिक्षां प्रतीमः किमिति चामिक्षापदमपेक्षामहे । तद्धितान्तस्य पदस्याभिधानापर्यवसानान्न प्रतीमस्तत्पर्यवसानाय चापेक्षामहे । अवसिताभिधानं हि पदं समर्थमर्थधियमाधातुम् । इदं तु संनिहितविशेषाभिधायि तत्संनिधिमपेक्षमाणं संनिधापकमामिक्षापदमपेक्षत इति कुत आमिक्षापदानपेक्ष आमिक्षाप्रत्ययप्रसङ्गः । कुतो वा तत्रानपेक्षा । अतश्च सत्यामपि पदान्तरापेक्षायां यत्पदं पदान्तरापेक्षमभिधत्ते तत्प्रमाणभूतप्रथमभाविपदावगम्यत्वाच्छ्रौतं बलीयश्च । यत्तु पर्यवसिताभिधानपदाभिहितपदार्थावगमगम्यं तत्तच्चरमप्रतीतिवाक्यगम्यं दुर्बलं चेति तद्धितश्रुत्यवगतामिक्षालक्षणगुणावरोधात्पूर्वकर्मासंयोगि वाजिनद्रव्यं ससम्बन्धि पूर्वस्माद्भिनत्ति । एवंच सति नित्यवदवगतानपेक्षसाधनभावामिक्षा न वाचिनद्रव्येण सह विकल्पसमुच्चयौ प्राप्स्यति । नचाश्वत्वे निरूढत्वादनपेक्षवृत्ति वाजिपदं कथञ्चिद्यौगिकं सापेक्षावृत्ति विश्वदेवशब्दां देवतां वैश्वदेवीपदादामिक्षाद्रव्यं प्रत्युपसर्जनीभूतामवगतामुपलक्षयिष्यति । प्रकृतं हि सर्वनामपदगोचरः । प्रधानं च प्रकृतमुच्यते नोपसर्जनम् । प्रामाणिके च विधिकल्पनागौरवे अभ्युपेतव्ये एव प्रमाणस्य तत्त्वविषयत्वात् । तस्माद्यथेह पूर्वकर्मासम्भविनो गुणात्कर्मभेद एवमिहापि पञ्चाग्निविद्यायाः षडग्निविद्या भिन्ना, एवं प्राणसंवादेषूनाधिकभावेन विद्याभेद इति । तथा धर्मविशेषोऽपि कर्मभेदस्य प्रतिपादक इति । तथाहि कारीरीवाक्यान्यधीयानास्तैत्तिरीया भूमौ भोजनमाचरन्ति नाचरन्त्यन्ये । तथाग्निमधीयानाः केचिदुपाध्यायस्योदकुम्भमाहरन्ति नाहरन्त्यन्ये । तथाश्वमेधमधीयानाः केचिदश्वस्य घासमानयन्ति नानयन्त्यन्ये । केचित्त्वाचरन्त्यन्यमेव धर्मम् । नच तान्येव कर्माणि भूमिभोजनादिजनितमुपकारमाकाङ्क्षन्ति नाकाङ्क्षन्ति चेति युज्यते । अतोऽवगम्यते भिन्नानि तासु शाखासु कर्माणीति ।
अस्तु प्रस्तुते किमायातमित्यत आह –
अस्ति चात्रेति ।
अन्येषां शाखिनां नास्तीति शेषः ।
एवं पुनरुक्त्यादयोऽपीति ।
“समिधो यजति” इत्यादिषु पञ्चकृत्वोऽभ्यस्तो यजतिशब्दः । तत्र किमेका कर्मभावना किंवा पञ्चैवेति । किं तावत्प्राप्तं, धात्वर्थानुबन्धभेदेन शब्दान्तराधिकरणे भावनाभेदाभिधानाद्धात्वर्थस्य च धातुभेदमन्तरेण भेदानुपपत्तेः “समिधो यजति” इति प्रथमभाविना वाक्येन विहिता कर्मभावना विपरिवर्तमानोपरितनैर्वाक्यैरनूद्यते । नच प्रयोजनाभावादननुवादः प्रमाणसिद्धस्याप्रयोजनस्याननुयोज्यत्वात् । कर्मभावनाभेदे चानेकापूर्वकल्पनाप्रसङ्गादेकापूर्ववान्तरव्यापारमेकं कर्मेति प्राप्तम् । एवं प्राप्त उच्यते - परस्परानपेक्षाणि हि समिदादिवाक्यानीति । सर्वाण्येव प्राथम्यार्हाण्यपि युगपदध्ययनानुपपत्तेः क्रमेणाधीतानीति । न त्वयमेषां प्रयोजकः क्रमः । परस्परापेक्षाणामेकवाक्यत्वे हि प्रयोजकः स्यात् । तेन प्राथम्याभावात्प्राप्तमित्येव नास्तीति कस्य कोऽनुवादः । कथञ्चिद्विपरिवृत्तिमात्रस्यौत्सर्गिकाप्रवृत्तप्रवर्तनालक्षणविधित्वापवादसामर्थ्याभावात् । गुणश्रवणे हि गुणविशिष्टकर्मविधाने विधिगौरवभिया गुणमात्रविधानलाघवाय कर्मानुवादापेक्षायां विपरिवृत्तेरुपकारः । यथा “दध्ना जुहोति” इति दधिविधिपरे वाक्ये विपरिवृत्त्यपेक्षायाम् “अग्निहोत्रं जुहोति” इति विहितस्य होमस्य विपरिवर्तमानस्यानुवादः । न चात्र गुणाद्भेदः, समिदादिपदानां कर्मनामधेयानां गुणवचनत्वाभावात् । अगृह्यमाणविशेषतया च किंवचनविहितकिङ्कर्मानुवादेन कस्य गुणविधित्वमिति न विनिगम्यते । न चापूर्वा नाम ज्योतिरादिवद्विधानसम्बन्धं प्रथममवगतं, यतः पूर्वबुद्धिविच्छेदेन विधीयमानं कर्म पूर्वस्मात्संज्ञातो व्यवच्छिन्द्यात् । किन्तु प्रथमत एव कर्मसामानाधिकरण्येनावगताः समिदादयस्तद्वशात्कर्मनामधेयतां प्रतिपद्यमाना आख्यातस्यानुवादत्वेऽनुवादा विधित्वे विधयो न तु स्वातन्त्र्येण कस्यचिदीशते । तस्मात्स्वरससिद्धाप्राप्तकर्मविधिपरत्वात्कर्मण्ययमभ्यासो भावनानुबन्धभूतानि भिन्दानो भावनां भिनत्ति यथा तथा शाखान्तरविहिता अपि विद्याः शाखान्तरविहिताभ्यो विद्याभ्योऽभ्यासो भेत्स्यतीति । अशक्तेश्च । नह्येकः पुरुषः सर्ववेदान्तप्रत्ययात्मिकामुपासनामुपसंहर्तुं शक्नोति सर्ववेदान्ताध्ययनासामर्थ्यादनधीतार्थोपसंहारेऽध्ययनविधानवैयर्त्यप्रसङ्गात् । प्रतिशाखं भेदे तूपासनानां नायं दोषः । समाप्तिभेदाच्च । केषाञ्चित्शाखिनामोङ्कारसार्वात्म्यकथने समाप्तिः । केषाञ्चिदन्यत्र । तस्मादप्युपासनाभेदः । अन्यार्थदर्शनादपि भेदः । तथाहि “नैतदचीर्णव्रतोऽधीते” इति अचीर्णव्रतस्याध्ययनाभावदर्शनादुपासनाभावः । क्वचिदचीर्णव्रतस्याध्ययनदर्शनादुपासनावगम्यते । तस्मादुपासनाभेद इति ।
अत्र सिद्धान्तमाह –
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ।
तद्व्याचष्टे –
सर्ववेदान्तप्रत्ययानि सर्ववेदान्तप्रमाणानि विज्ञानानि तस्मिंस्तस्मिन् वेदान्ते तानि तान्येव भवितुमर्हन्ति ।
यान्येकस्मिन् वेदान्ते तान्येव वेदान्तान्तरेष्वपीत्यर्थः । चोदनाद्यविशेषात् । आदिशब्देन संयोगरूपाख्याः सङ्गृह्यन्ते । अत्र च चोद्यत इति चोदना पुरुषप्रयत्नः । स हि पुरुषस्य व्यापारः । तत्र खल्वयं होमादिधात्वर्थावच्छिन्ने प्रवर्तते । तस्य देवतोद्देशेन त्यागस्यासेचनादिकस्यावच्छेद्यः पुरुषप्रयत्नः स एव शाखान्तरे यथैवमिहापि प्राणज्येष्ठत्वश्रेष्ठत्ववेदनविषयः पुरुषप्रयत्नः स एव शाखान्तरेष्वपीति । एवं फलसंयोगोऽपि ज्येष्ठश्रेष्ठभवनलक्षणः स एव । रूपमपि तदेव । यथा यागस्य यदेकस्यां शाखायां द्रव्यदेवतारूपं तदेव शाखान्तरेष्वपीति । एवं वेदनस्यापि यदेकत्र प्राणज्येष्ठत्वश्रेष्ठत्वरूपं विषयस्तच्छाखान्तरेष्वपीति ॥ १ ॥
कञ्चिद्विशेषमिति ।
युक्तं यदग्नीषोमीयस्योत्पन्नस्य पश्चादेकादशकपालत्वादिसम्बन्धेऽप्यभेद इति । यथोत्पन्नस्य तस्य सर्वत्र प्रत्यभिज्ञायमानत्वादिह त्वग्निषूत्वपत्तिगत एव गुणभेद इति कथं वैश्वदेवीवन्न भेदक इति विशेषः ।
तमिमं विशेषमभिप्रेत्याशङ्कते सूत्रकारः –
भेदान्नेति चेदिति ।
परिहारः सूत्रावयवः ।
न एकस्यामपीति ।
पञ्चैव साम्पादिका अग्नयो वाजसनेयिनामपि छान्दोग्यानामिव विधीयन्ते । षष्ठस्त्वग्निः सम्पद्व्यतिरेकायानूद्यते न तु विधीयते । वैश्वदेव्यां तूत्पत्तौ गुणो विधीयत इति भवतु भेदः । अथवा छान्दोग्यानामपि षष्ठोऽग्निः पठ्यत एव । अथवा भवतु वाजसनेयिनां षष्ठाग्निविधानं मा च भूच्छान्दोग्यानां तथापि पञ्चत्वसङ्ख्याया अविधानान्नोत्पत्तिशिष्टत्वं सङ्ख्यायाः किन्तूत्पन्नेष्वग्निषु प्रचयशिष्टा सङ्ख्यानूद्यते साम्पादिकानग्नीनवच्छेतुं, तेन येषामुत्पत्तिस्तेषां प्रत्यभिज्ञानात् । अप्रत्यभिज्ञायमानायाश्च सङ्ख्याया अनुवाद्यत्वेनानुत्पत्तेर्विधीयमानस्य चाधिकस्य षोडशिग्रहणवद्विकल्पसम्भवान्न शाखान्तरे ज्ञानभेदः । उत्पत्तिशिष्टत्वेऽसिद्धे प्राणसंवादादयोऽपि भवन्ति प्रत्यभिज्ञानादभिन्नास्तासु तासु शाखास्विति ॥ २ ॥
स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तन्नियमः ।
यैराथर्वणिकग्रन्थोपाया विद्या वेदितव्यां तेषामेव शिरोव्रतपूर्वाध्ययनप्राप्तग्रन्थबोधिता फलं प्रयच्छति नान्यथा । अन्येषां तु छान्दोग्यादीनां सैव विद्या चीर्णशिरोव्रतानां फलदेत्याथर्वणग्रन्थाध्ययनसम्बन्धादवगम्यते । तत्सम्बन्धश्च वेदव्रतेनेति “नैतदचीर्णव्रतोऽधीते” इति समाम्नानादवगम्यते । “तेषामेवैतां ब्रह्मविद्यां वदेत”(मु. उ. ३ । २ । १०) इति विद्यासंयोगेऽप्येतामिति प्रकृतपरामर्शिना सर्वनाम्नाध्ययनसम्बन्धाविरोधादाथर्वविहितैव विद्योच्यत इति । सवा होमाः सप्त सौर्यादयः शतौदनान्ता आथर्वणिकानां त एकस्मिन्नेवाथर्वणिकेऽग्नौ क्रियन्ते न त्रेतायाम् ॥ ३ ॥
विद्यैकत्वम् –
दर्शयति च ।
भूयोभूयो विद्यैकत्वस्य वेददर्शनाद्यत्रापि सगुणब्रह्मविद्यानां न साक्षाद्वेद एकत्वमाह तासामपि तत्प्रायपठितानां तद्विधानां प्रायदर्शनादेकत्वमेव । तथाह्यग्र्यप्राये लिखितं दृष्ट्वा भवेदयमग्र्य इति बुद्धिरिति । यच्च काठकादिसमाख्ययोपासनाभेद इति तदयुक्तम् । एता हि पौरुषेय्यः समाख्याः काठकादिप्रवचनयोगात्तासां शाखानां न तूपासनानाम् । नह्येताः कठादिभिः प्रोक्ता नच कठाद्यनुष्ठानमासामितरानुष्ठानेभ्यो विशेष्यते । नच कठप्रोक्तानिमित्तमात्रेण ग्रन्थे प्रवृत्तौ तद्योगाच्च कथञ्चिल्लक्षणयोपासनासु प्रवृत्तौ सम्भवन्त्यामुपासनाभिधानमप्यासां शक्यं कल्पयितुम् । नच तद्भेदाभेदौ ज्ञानभेदाभेदप्रयोजकौ, मा भूद्यथास्वमासामभेदाज्ज्ञानानामेकशाखागतानामैक्यम् । कठादिपुरुषप्रवचननिमित्ताश्चैताः समाख्याः कठादिभ्यः प्राक्नासन्निति तन्निबन्धनो ज्ञानभेदो नासीदिदानीं चास्तीति दुर्घटमापद्येत । तस्मान्न समाख्यातो भेदः । अभ्यासोऽपि नात्र भेदकः । युक्तं यदेकशाखागतो यजत्यभ्यासः समिदादीनां भेदक इति । तत्र हि विधित्वमौत्सर्गिकमज्ञातज्ञापनमप्रवृत्तप्रवर्तनं च कुप्येयाताम्ऽशाखान्तरे त्वध्येतृपुरुषभेदादेकत्वेऽपि नौत्सर्गिकविधित्वव्याकोप इति । अशक्तिरपि न भेदहेतुः स्वाध्यायोऽध्येतव्य इति स्वशाखायामध्ययननियमः । ततश्च शाखान्तरीयानर्थानन्येभ्यस्तद्विद्येभ्योऽधिगम्योपसंहरिष्यति । समाप्तिश्चैकस्मिन्नपि तत्सम्बन्धिनि समाप्ते तस्य व्यपदिश्यते । यथाध्वर्यवे कर्मणि ज्योतिष्टोमस्य समाप्तिं व्यपदिशन्ति “ज्योतिष्टोमः समाप्तः” इति तस्मात्समाप्तिभेदोऽपि न साधनमुपासनाभेदस्य । तदेवमसति बाधके चोदनाद्यविशेषात्सर्ववेदान्तप्रत्ययानि कर्माणि तानि तान्येवेति सिद्धम् ॥ ४ ॥