भामतीव्याख्या
तदन्तरप्रतिपत्त्यधिकरणविषयाः
तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् । द्वितीयतृतीयाध्याययोर्हेतुमद्भावलक्षणं सम्बन्धं दर्शयन् सुखावबोधार्थमर्थसङ्क्षेपमाह –
द्वितीयेऽध्याय इति ।
स्मृतिन्यायश्रुतिविरोधपरिहारेण हि अनध्यवसायलक्षणमप्रामाण्यं परिहृतं तथा च प्रामाण्ये निश्चलीकृते तार्तीयो विचारो भवत्यन्यथा तु निर्बीजतया न सिद्ध्येदिति । अवान्तरसङ्गतिं दर्शयितुं तत्र च जीवव्यतिरिक्तानि तत्त्वानि जीवोपकरणानि चेत्युक्तम् ।
अध्यायार्थसङ्क्षेपमुक्त्वा पादार्थसङ्क्षेपमाह –
तत्र प्रथमे तावत्पाद इति ।
तस्य प्रयोजनमाह –
वैराग्य इति ।
पूर्वापरपरिशोधनाय भूमिकामारचयति –
जीवो मुख्यप्राणसचिव इति ।
करणोपादानवद्भूतोपादानस्याश्रुतत्वादिति ।
अत्र च करणोपादानश्रुत्यैव भौतिकत्वात्करणानां भूतोपादानसिद्धेरिन्द्रियोपादानातिरिक्तभूतविवक्षयाधिकरणारम्भः । यदि भूतान्यादायागमिष्यत्तदा तदपि करणोपादानवदेवश्रोष्यत् । नच श्रूयते तस्मान्न भूतपरिष्वक्तो रंहत्यपि तु करणमात्रपरिष्वक्तः । नह्यागमैकगम्येऽर्थे तदभावः प्रमेयाभावं न परिच्छेत्तुमर्हति ।
नच देहान्तरारम्भान्यथानुपपत्त्या भूतपरिष्वक्तस्य रंहणकल्पनेति युक्तमित्याह –
सुलभाश्च सर्वत्र भूतमात्रा इति ।
द्युपर्जन्य इति ।
इह हि कायारम्भणामग्निहोत्रापूर्वपरिणामलक्षणं श्रद्धादित्वेन पञ्चधा प्रविभज्य द्युप्रभृतिष्वग्निषु होतव्यत्वेनोपासनमुत्तरमार्गप्रतिपत्तिसाधनं विवक्षन्त्याह श्रुतिः “असौ वाव लोको गौतमाग्निः”(छा. उ. ५ । ४ । १) इत्यादि । अत्र सायम्प्रातरग्निहोत्राहुतो, हुते पय आदिसाधने श्रद्धापूर्वमाहवनीयाग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गभाविते कर्त्रादिकारकभाविते चान्तरिक्षं क्रमेणोत्क्राम्य द्युलोकं प्रविशन्त्यौ सूक्ष्मभूते द्रवद्रव्यपयःप्रभृत्यप्सम्बन्धादप्शब्दवाच्ये, श्रद्धाहेतुकत्वाच्च श्रद्धाशब्दवाच्ये । तयोराहुत्योरधिकरणमग्निरन्ये च समिद्धूमार्चिरङ्गारविस्फुलिङ्गा रूपकत्वेन निर्दिश्यन्ते । असौ वाव द्युलोको गौतमाग्निः । यथाग्निहोत्राधिकरणमाहवनीय एवं श्रद्धाशब्दवाच्याग्निहोत्राहुतिपरिणामावस्थारूपाः सूक्ष्मा या आपः श्रद्धाभावितास्तदधिकरणं द्युलोकः । अस्यादित्य एव समित् । तेन हीद्धोऽसौ द्युलोको दीप्यतेऽतः समिन्धनात्समित्तस्यादित्यस्य रश्मयो धूमा इन्धनादिवादित्याद्रश्मीनां समुत्थानात् । अहरर्थिः । प्रकाशसामान्यादादित्यकार्यत्वाच्च । चन्द्रमा अङ्गारः । अर्चिषः प्रशमेऽभिव्यक्तेः । नक्षत्राप्यस्य विस्फुलिङ्गाः चन्द्रमसोऽङ्गारस्यावयवा इव विप्रकीर्णतासामान्याद्विस्फुलिङ्गः । तदेतस्मिन्नग्नौ देवा यजमानप्राणा अग्न्यादिरूपा अधिदेवम् । श्रद्धां जुह्वति श्रद्धा चोक्ता । पर्जन्यो वाव गौतमाग्निः पर्जन्यो नाम वृष्ट्युपकरणाभिमानी देवताविशेषः । तस्य वायुरेव समित् । वायुना हि पर्जन्योऽग्निः समिध्यते, पुरोवातादिप्राबल्ये वृष्टिदर्शनात् । अभ्रं धूमः । धूमकार्यत्वात्धूमसादृश्याच्च । विद्युदर्चिः । प्रकाशसामान्यात् । अशनिरङ्गाराः काठिन्याद्विद्युत्सम्बन्धाच्च । गर्जितं मोघानां विस्फुलिङ्गाः विप्रकीर्णतासामान्यात् । तस्मिन्देवा यजमानप्राणा अग्निरूपाः सोमं राजानं जुह्वति तस्य सोमस्याहुतेर्वर्षं भवति । एतदुक्तं भवति श्रद्धाख्या आपो द्युलोकमाहुतित्वेन प्रविश्य चन्द्राकारेण परिणताः सत्यो द्वितीये पर्याये पर्जन्याग्नौ हुता वृष्टित्वेन परिणमन्त इति । “पृथिवी वाव गौतमाग्निः”(छा. उ. ५ । ६ । १) तस्य पृथिव्याख्यस्याग्नैः संवत्सर एव समित् । संवत्सरेण कालेन हि समिद्धा भूमिर्व्रीह्यादिनिष्पत्तये कल्पते । आकाशो धूमः पृथिव्यग्नेरुत्थित इवाकाशो दृश्यते । रात्रिरर्चिः पृथिव्याः श्यामाया अनुरूपा श्यामतया रात्रिरग्नेरिवानुरूपमर्चिः । दिशोङ्गाराः प्रगे रात्रिरूपार्चिःशमने उपशान्तानां प्रसन्नानां दिशां दर्शनात् । अवान्तरदिशो विस्फुलिङ्गाः क्षुद्रत्वसाम्यात् । तस्मिन्नग्नौ श्रद्धासोमपरिणामक्रमेणागता अपो वृष्टिरूपेण परिणता देवा जुह्वति तस्या आहुतेरन्नं व्रीहियवादि भवति । पुरुषो वाव गौतमाग्निस्तस्य वागेव समित् । वाचा खल्वयं ताल्वाद्यष्टस्थानस्थितया वर्णपदवाक्याभिव्यक्तिक्रमेणार्थजातं प्रकाशयन् समिध्यते । प्राणो धूमः । धूमवन्मुखान्निर्गमात् । जिह्वार्चिः लोहितत्वसाम्यात् । चक्षुरङ्गाराः प्रभाश्रयत्वात् । श्रोत्रं विस्फुलिङ्गाः विप्रकीर्णत्वात् । ता एवापः श्रद्धादिपरिणामक्रमेणागताः व्रीह्यादिरूपैः परिणता सत्यः पुरुषेऽग्नौ हुतास्तासां परिणामो रेतः सम्भवति । योषा वाव गौतमाग्निः तस्या उपस्थ एव समित् । तेन हि सा पुत्राद्युत्पादनाय समिध्यते यदुपमन्त्रयते स धूमः । स्त्रीसम्भवादुपमन्त्रणस्य लोमानि वा धूमः योनिरर्चिः लोहितत्वात् । यदन्तः करोति मैथुनं तेऽङ्गाराः । अभिनन्दाः सुखलवा विस्फुलिङ्गाः, क्षुद्रत्वात् । तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः सम्भवति । एवं श्रद्धासोमवर्षान्नरेतोहवनक्रमेण योषाग्निं प्राप्यापो गर्भाख्या भवन्ति । तत्राप्समवायित्वादापः पुरुषवचसो भवन्ति पञ्चम्यामाहुताविति । यतः पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति तस्मादद्भिः परिवेष्टितो जीवो रहतीति गम्यते । एतदुक्तं भवति श्रद्धाशब्दवाच्या आप इत्यग्रे वक्ष्यति तासां त्रिवृत्कततया तेजोऽन्नाविनाभावेनाब्ग्रहणेन तेजोन्नयोरपि सङ्ग्रह इत्येतदपि वक्ष्यते । यद्यप्येतावतापि भूतवेष्टितस्य जीवस्य रंहणं नावगम्यते तेजोबन्नानां पञ्चम्यामाहुतौ पुरुषवचस्त्वमात्रश्रवणात् , तथापीष्टादिकारिणां धूमादिना पितृयाणेन पथा चन्द्रलोकप्राप्तिकथनपरया “आकाशाच्चन्द्रमसमेष सोमो राट्”(छा. उ. ५ । १० । ४) इति श्रुत्या सह “श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति”(छा. उ. ५ । ४ । २) इत्यस्याः श्रुतेः मानत्वाद्गम्यते भूतपरिष्वक्तो रंहतीति । तथाहि या एवापो हुता द्वितीयस्यामाहुतौ सोमभावं गतास्ताभिरेष परिष्वक्तो जीव इष्टादिकारी चन्द्रभूयं गतश्चन्द्रलोकं प्राप्त इति । ननु स्वतन्त्रा आपः श्रद्धादिक्रमेण सोमभावमाप्नुवन्तु ताभिरपरिष्वक्त एव तु जीवः सेन्द्रियमात्रो गत्वा सोमभावमनुभवतु । को दोषः । अयं दोषः । यतः श्रुतिसामान्यातिक्रम इति । एवं हि श्रुतिसामान्यं कल्पेत यदि येन रूपेण येन च क्रमेणापां सोमभावस्तेनैव जीवस्यापि सोमभावो भवेत् । अन्यथा तु न श्रुतिसामान्यं स्यात् । तस्मात्परिष्वक्तापरिष्वक्तरंहणविशये श्रुतिसामान्यानुरोधेन परिष्वक्तरंहणं निश्चीयते । अतो दधिपयःप्रभृतयो द्रवभूयस्त्वादापो हुताः सूक्ष्मीभूता इष्टादिकारिणमाश्रिता नेन्धनेन विधिना देहे हूयमाने हुताः सत्य आहुतिमय्य इष्टादिकारिणं परिवेष्ट्य स्वर्गं लोकं नयन्तीति ।
चोदयति –
नन्वन्या श्रुतिरिति ।
अयमर्थः एवं हि सूक्ष्मदेहपरिष्वक्तो रंहेत्यद्यस्य स्थूलं शरीरं रंहतो न भवेत् । अस्ति त्वस्य वर्तमानस्थूलशरीरयोग आदेहान्तरप्राप्तेस्तृणजलायुकानिदर्शनेन, तस्मान्निदर्शनश्रुतिविरोधान्न सूक्ष्मदेहपरिष्वक्तो रंहतीति ।
परिहरति –
तत्रापीति ।
न तावत्परमात्मनः संसरणसम्भवः, तस्य नित्यशुद्धबुद्धमुक्तस्वभावत्वात् । किन्तु जीवानाम् । परमात्मैव चोपाधिकल्पितावच्छेदो जीव इत्याख्यायते, तस्य च देहेन्द्रियादेरुपाधेः प्रादेशिकत्वान्न तत्र सन् देहान्तरं गन्तुमर्हति । तस्मात्सूक्ष्मदेहपरिष्वक्तो रंहतिकर्मोपस्थापितः प्रतिपत्तव्यः प्राप्तव्यो यो देहस्तद्विषयाया भावनाया उत्पादनाया दीर्घीभावमात्रं जलूकयोपमीयते ।
साङ्ख्यानां कल्पनामाह –
व्यापिनां करणानामिति ।
आहङ्कारिकत्वात्करणानामहङ्कारस्य च जगन्मण्डलव्यापित्वात्करणानामपि व्यापितेत्यर्थः ।
बौद्धानां कल्पनामाह –
केवलस्यैवात्मन इति ।
आलयविज्ञानसन्तान आत्मा तस्य वृत्तिः षट्प्रवृत्तिविज्ञानानि । पञ्चेन्द्रियाणि तु चक्षुरादीनि अभिनवानि जायन्ते ।
कणभुक्क्ल्पनामाह –
मन एव चेति ।
भोगस्थानं भोगायतनं शरीरमभिनवमिति यावत् ।
दिगम्बरकल्पनामाह –
जीव एवोत्प्लुत्येति ।
आदिग्रहणेन लोकायतिकानां कल्पनां सङ्गृह्णाति । ते हि शरीरात्मवादिनो भस्मीभावमात्मन आहुर्न कस्यचिद्गमनमिति ॥ १ ॥
चोदयति –
ननूदाहृताभ्यामिति ।
अत्र सूत्रेणोत्तरमाह –
त्र्यात्मकत्वात्तु भूयस्त्वात् ।
तेजसः कार्यमशितपीताहारपरिपाकः । अपां कार्यं स्नेहस्वेदादि । पृथिव्याः कार्यं गन्धादि ।
यस्तु गन्धस्वेदपाकप्राणावकाशदानदर्शनाद्देहस्य पाञ्चभौतिकत्वं पश्यंस्तेजोबन्नात्मकत्वेन त्र्यात्मकत्वे न परितुष्यति, तं प्रत्याह –
पुनश्च त्र्यात्मक इति ।
वातपित्तश्लेष्मभिस्त्रिभिर्धातुभिः शरीरधारणात्मकैस्त्रिधातुत्वात् । अतो न स देहो भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यते ।
अब्ग्रहणनियमस्तर्हि कस्मादित्यत आह –
तस्माद्भूयस्त्वापेक्ष इति ।
पृथिवीधातुवर्जमितरतेज आद्यपेक्षया कार्यस्य शरीरस्य लोहितादिद्रवभूयस्त्वात्तत्करणयोश्चोपादाननिमित्तयोर्द्रवभूयस्त्वादपां पुरुषवचस्त्वोक्तिर्न पुनर्भूतान्तरनिरासार्था ॥ २ ॥
प्राणगतेश्च ।
प्राणानां जीवद्देहे साश्रयत्वमवगतं गच्छति जीवद्देहे तदनुविधायिनः प्राणा अपि गच्छन्तीति दृष्टम् । अतः षाट्कौशिका देहादुत्क्रामन्तः कस्मिंश्चिदुत्क्रामत्युत्क्रामन्ति । स चैषामनुविधेयः सूक्ष्मो देहो भूतेन्द्रियमय इति गम्यते । नहीन्द्रियमात्राश्रयत्वमेषां दृष्टं यतस्तन्मात्राश्रयाणां गतिरुपपद्येतेति ॥ ३ ॥
अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ।
श्रावितेऽपि स्पष्टे जीवस्य प्राणैः सह गमनेऽग्न्यादिगतिशङ्का श्रुतिविरोधोत्थापनार्था । अत्र हि लोमकेशयोरोषधिवनस्पतिगमनं दृष्टविरोधाद्भाक्तं तावदभ्युपेयम् । एवं च तन्मध्यपतितत्वेन तेषामपि श्रुतिविरोधाद्भाक्तत्वमेवोचितमिति । भक्तिश्चोपकारनिवृत्तिरुक्ता ॥ ४ ॥
प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ।
पञ्चम्यामाहुतावपां पुरुषवचस्त्वप्रकारे पृष्टे प्रथमायामाहुतौ अनपां श्रद्धाया होतव्यताभिधानसम्भद्धमनुपपन्नं च । नहि यथा पश्वादिभ्यो हृदयादयोऽवयवा अवदाय निष्कृष्य हूयन्ते, एवं श्रद्धा बुद्धिप्रसादलक्षणा निष्क्रष्टुं वा होतुं वा शक्यते । न चाप्येवमौत्सर्गिकी कारणानुरूपता कार्यस्य युज्यते । तस्माद्भक्त्यायमप्सु श्रद्धाशब्दः प्रयुक्त इति । अत एव श्रुतिः “आपो हास्मै”(ऐ .आ. २.१.७.) इति ॥ ५ ॥
अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ।
अस्यार्थः पूर्वमेवोक्तः । अग्निहोत्रे षट्सूत्क्रान्तिगतिप्रतिष्ठातृप्तिपुनरावृत्तिलोकप्रत्युत्थायिष्वग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गेषु प्रश्नाः षट् , तेषां यः समाहारः षण्णां सा षट्प्रश्नी, तस्या निरूपणं प्रतिवचनम् ॥ ६ ॥
सूत्रान्तरमवतारयितुं शङ्कते –
कथं पुनरिति ।
सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्तीति ।
क्रियासमभिहारेणाप्यायनापक्षयौ यथा सोमस्य तथा भक्षयन्ति सोममयांल्लोकानित्यर्थः ।
अत उत्तरं पठति –
भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति ।
कर्मजनितफलोपभोगकर्ता ह्यधिकारी न पुनरुपभोग्यस्तस्माच्चन्द्रसालोक्यमुपगतानां देवादिभक्ष्यत्वे ‘स्वर्गकामो यजेत’ इति यागभावनायाः कर्त्रपेक्षितोपायतारूपविधिश्रुतिविरोधादन्नशब्दो भोक्तॄणामेव सतां देवोपजीवितामात्रेण भाक्तो गमयितव्यो न तु चर्वणनिगरणाभ्यां मुख्य इति ।
अत्रैवार्थे श्रुत्यन्तरं सङ्गच्छत इत्याह –
तथाहि दर्शयति ।
श्रुतिरनात्मविदामनात्मवित्त्वादेव पशुवद्देवोपभोग्यतां न तु चर्वणीयतया । यथा हि बलीवर्दादयो भुञ्जाना अपि स्वफलं स्वामिनो हलादिवहनेनोपकुर्वाणा भोग्याः, एवं परमतत्त्वमविद्वांस इष्टादिकारिण इह दधिपयःपुरोडाशादिनामुष्मिंश्च लोके परिचारकतया देवानामुपभोग्या इति श्रुत्यर्थः । अथवा अनात्मवित्त्वात्तथाहि दर्शयति इत्यस्यान्या व्याख्या । आत्मवित्पञ्चाग्निविद्यावित्न आत्मवितनात्मवित् । यो हि पञ्चाग्निविद्यां न वेद तं देवा भक्षयन्तीति निन्द्यते पञ्चाग्निविद्यां स्तोतुं तस्या एव प्रकृतत्वात् । तदनेनोपचारस्य प्रयोजनमुक्तम् ।
उपचारनिमित्तमनुपपत्तिमाह –
तथाहि दर्शयति ।
श्रुतिर्भोक्तृत्वम् ।
स सोमलोके विभूतिमनुभूयेति ।
शेषमतिरोहितार्थम् ॥ ७ ॥