अद्वैतशारदा

भामतीव्याख्या

आत्मगृहीत्यधिकरणविषयाः

व्याख्याः

आत्म­गृ­ही­ति­रि­त­र­व­दु­त्त­रात् ।
श्रुति­स्मृ­त्योर्हि लोकसृष्टिः पर­मे­श्व­रा­धि­ष्ठिता पर­मे­श्व­र­हि­र­ण्य­ग­र्भ­क­र्तृ­को­प­लब्धा सेयमिह महा­भू­त­स­र्ग­म­न­भि­धाय प्राथमिकी लोक­सृ­ष्टि­रु­प­ल­भ्य­मा­ना­वा­न्त­रे­श्व­र­कार्या प्रागु­त्प­त्ते­रा­त्मै­क­त्वा­व­धा­रणं चावा­न्त­रे­श्व­र­स­म्ब­न्धि­तया गमयति । पार­मे­श्व­र­स­र्गस्य महा­भू­ता­का­शा­दि­त्वा­दस्य च तद्वैपरीत्यात् । अस्ति हि तस्यैवैकस्य विका­रा­न्त­रा­पे­क्ष­या­ग्न­त्व­मस्ति चेक्षणम् । अपि चैत­स्मि­न्नै­त­रे­यके पूर्व­स्मि­न्प्र­क­रणे प्रजा­प­ति­क­र्तृ­कैव लोकसृष्टिरुक्ता । तद­नु­सा­रा­द­प्ये­त­देव विज्ञायते । अपिच ताभ्यो गामा­न­य­दि­त्या­द­यश्च व्यवहाराः श्रुत्योक्ता विशे­ष­व­त्स्वा­त्म­प­र­मा­त्मसु प्रसिद्धाः । ततोऽ­प्य­वा­न्त­रे­श्वर एव विज्ञायते । आत्म­श­ब्द­प्र­यो­ग­श्चा­त्रापि दृष्ट­स्त­स्मा­द­प­रा­त्मा­भि­ला­पोऽ­य­मिति प्राप्त उच्यते परमात्मनो गृहीतिरिह यथा इतरेषु सृष्टिश्रवणेषु “एतस्मादात्मन आकाशः सम्भूतः”(तै. उ. २ । १ । १) इत्यादिषु । तस्मादुत्तरात्स ऐक्ष­ते­ती­क्ष­ण­पू­र्व­क­स्र­ष्टृ­त्व­श्र­व­णा­दा­त्मे­त्य­व­धा­र­णाच्च । एत­द­भि­सं­हि­त­म्मुख्यं ताव­त्स­र्गा­त्प्रा­क्के­व­ल­त्व­मा­त्म­प­दत्वं स्रष्टृत्वं च परमेश्वरस्यात्र भवतः । तद­स­त्या­म­नु­प­पत्तौ नान्यत्र व्याख्या­तु­मु­चि­तम् । नच महा­भू­त­सृ­ष्ट्य­न­भि­धा­नेन लोक­सृ­ष्ट्य­भि­धा­न­म­नु­प­प­त्ति­बी­जम् । आकाशपूर्विकायां वस्तुतो ब्रह्मणः सृष्टौ यथा क्वचि­त्ते­जः­पू­र्व­क­सृ­ष्ट्य­भि­धानं न विरुध्यते “एतस्मादात्मन आकाशः सम्भूतः” इति दर्शनात् । आकाशं वायुं सृष्ट्वेति हि तत्र पूर­यि­त­व्य­मे­व­मि­हापि महाभूतानि सृष्ट्वेति कल्पनीयम् । सर्व­शा­खा­प्र­त्य­य­त्वेन ज्ञानस्य श्रुति­सि­द्ध्य­र्थ­म­श्रु­तो­प­लब्धौ यत्नवता भवितव्यं न पुनः श्रुते महाभूतादित्वे सर्गस्य शैथि­ल्य­मा­द­र­णी­यम् । अपिच स्वाध्या­य­वि­ध्य­धी­न­ग्र­हणो वेद­रा­शि­र­ध्य­य­न­वि­ध्या­पा­दि­त­प्र­यो­ज­न­व­द­र्थ­म­भि­द­धानो यथा यथा प्रयो­ज­ना­धि­क्य­मा­प्नोति तथा तथा­नु­म­न्य­ते­त­राम् । यथा चास्य ब्रह्मगोचरत्वे पर­म­पु­रु­षा­र्थौ­प­यि­कत्वं नैवमन्यगोचरत्वे ।

तदिदमुक्तम् –
योऽप्ययं व्यापा­र­वि­शे­षा­नु­गम इति ।
नच लोकसर्गोऽपि हिर­ण्य­ग­र्भ­व्या­पा­रोऽपि तु तदनुप्रविष्टस्य परमात्मन इत्यत्रैवोक्तम् । तस्मा­दा­त्मै­वाग्न इत्यु­प­क्र­मा­त्त­द्व्या­पा­रेण चेक्षणेन मध्ये परा­म­र्शा­दु­प­रि­ष्टाच्च भेदजातं महाभूतैः सहानुक्रम्य ब्रह्म­प्र­ति­ष्ठ­त्वेन ब्रह्मण उप­सं­हा­रा­द्ब्र­ह्मा­भि­ला­प­त्व­मे­वा­स्येति निश्चीयते । यत्र तु पुरु­ष­वि­धा­दि­श्र­वणं तस्य भवे­त्त्व­न्य­प­रत्वं गत्य­न्त­रा­भा­वा­दिति सर्वमवदातम् । अपरः कल्पः । सदुपक्रमस्य सन्द­र्भ­स्या­त्मो­प­क्र­मस्य च किमै­का­र्थ्य­मा­हो­स्वि­द­र्थ­भेदः । तत्र सच्छ­ब्द­स्या­वि­शे­षे­णा­त्मनि चानात्मनि च प्रवृ­त्ते­र्ना­त्मा­र्थत्वं किन्तु सम­स्त­व­स्त्व­नु­ग­त­स­त्ता­सा­मा­न्या­र्थत्वं तथा चोप­क्र­म­भे­दा­द्भि­न्ना­र्थ­त्वम् । स आत्मा तत्त्वमसीति चोपसंहार उपक्रमानुरोधेन सम्पत्त्यर्थतया व्याख्येयः । तद्धि सत्सामान्यं परमात्मतया सम्पादनीयम् । तद्विज्ञानेन च सर्वविज्ञानं महासामान्यस्य सत्तायाः सम­स्त­व­स्तु­वि­स्ता­र­व्या­पि­त्वा­दि­त्येवं प्राप्त उच्यते आत्म­गृ­ही­ति­र्वा­ज­स­ने­यि­ना­मिव छान्दो­ग्या­ना­म­प्यु­त्त­रात्स आत्मा तत्त्वमसीति तादा­त्म्यो­प­दे­शात् । अस्तु ताव­दा­त्म­व्या­ति­रि­क्तस्य प्रपञ्चस्य सद­स­त्त्वा­भ्या­म­नि­र्वा­च्य­तया न सत्त्वं, सत्त्वं त्वात्मधातोरेव तत्त्वेन निर्वा­च्य­त्वा­त्त­स्मा­दा­त्मैव सन्निति । अभ्युपेत्याह । सच्छब्दस्य सत्ता­सा­मा­न्या­भि­धा­यि­त्वा­त्प्र­ति­व्यक्ति च तस्य प्रवृ­त्ते­रा­त्मनि चान्यत्र च सच्छ­ब्द­प्र­वृत्तेः संशये सत्यु­प­सं­हा­रा­नु­रो­धेन सदे­वे­त्या­त्म­न्ये­वा­व­स्था­प्यते । नीता­र्थो­प­क्र­मा­नु­रो­धेन ह्युप­सं­हा­र­व­र्णना न पुनः सन्दि­ग्धा­र्थे­नो­प­क्र­मे­णो­प­सं­हारो वर्णनीयः । अपिच सम्पत्तौ फलं कल्पनीयम् । नच सामान्यमात्रे ज्ञाते विशे­ष­ज्ञा­न­स­म्भवः । न खल्वा­का­रा­द्वृक्षे ज्ञाते शिंश­पा­द­य­स्त­द्वि­शेषा ज्ञाता भवन्ति । तदेवमवधारणादि सर्व­म­ना­त्मा­र्थत्वे स्याद­नु­प­प­न्न­मिति छान्दो­ग्य­स्या­त्मा­र्थ­त्व­मे­वेति सिद्धम् । अत्र च पूर्वस्मिन् पूर्वपक्षे हिर­ण्य­ग­र्भो­पा­सना सिद्धान्ते तु ब्रह्मभावनेति ॥ १६ ॥

अन्वयादिति चेत्स्या­द­व­धा­र­णात् ॥ १७ ॥