भामतीव्याख्या
अनिष्टादिकार्यधिकरणविषयाः
अनिष्टाधिकारिणामपि च श्रुतम् ।
“ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति”(कौ.१.२) इति कौषीतकिनां समाम्नानात् , देहारम्भस्य च चन्द्रलोकगमनमन्तरेणानुपपत्तेः पञ्चम्यामाहुतावित्याहुतिसङ्ख्यानियमात् । तथाहि द्युसोमवृष्ट्यन्नरेतःपरिणामक्रमेण ता एवापो योषिदग्नौ हुताः पुरुषवचसो भवन्तीत्यविशेषेण श्रुतम् । न चैतन्मनुष्याभिप्रायं, कपूयचरणाः स्वयोनिमित्यमनुष्यस्यापि श्रवणात् । गमनागमनाय च देवयानपितृयाणयोरेव मार्गयोराम्नानात् , पथ्यन्तरस्याश्रुतेः, “जायस्व म्रियस्वेति तृतीयं स्थानम्”(छा.उ. ५.१०.८) इति च स्थानत्वमात्रेणावगमात्पथित्वेनाप्रतीतेश्चन्द्रलोकादवतीर्णानामपि च तत्स्थानत्वसम्भवादसम्पूरणेन प्रतिवचनोपपत्तेः, अनन्यमार्गतया च तद्भोगविरहिणामपि ग्रामं गच्छन् वृक्षमूलान्युपसर्पतीतिवत्संयमनादिषु यमवश्यतायै चन्द्रलोकगमनोपपत्तेः, “न कतरेणचन”(छा. उ. ५ । १० । ८) इत्यस्यासम्पूरणप्रतिपादनपरतया मार्गद्वयनिषेधपरत्वाभावात् , अनिष्टादिकारिणामपि चन्द्रलोकगमने प्राप्तेऽभिधीयतेसत्यं स्थानतयावगतस्य न मार्गत्वं तथापि वेत्थ यथासौ मार्गो न सम्पूर्यते इत्यस्य प्रतिवचनावसरे मार्गद्वयनिषेधपूर्वं तृतीयं स्थानमभिवदन्नसम्पूरणाय तत्प्रतिपक्षमाचक्षीत । यदि पुनस्तेनैव मार्गेणागत्य जन्ममरणप्रबन्धवत्स्थानमध्यासीत नैतत्तृतीयं स्थानं भवेत् । नहीष्टादिकारिणश्चन्द्रमण्डलादवरुह्य रमणीयां निन्दितां वा योनिं प्रतिपद्यमानास्तृतीयं स्थानं प्रतिपद्यन्ते । तत्कस्य हेतोः । पितृयाणेन पथावरोहात् । तद्यदि क्षुद्रजन्तवोऽप्यनेनैव पथावरोहेयुः, नैतदेषां जन्ममरणप्रबन्धवत्तृतीयं स्थानं भवेत् । ततोऽवगच्छामः संयमनं सप्त च यातनाभूमीर्यमवशतया प्रतिपद्यमाना अनिष्टाधिकारिणो न चन्द्रमण्डलादवरोहन्तीति । तस्मात् “ये वै के च”(कौ. उ. १ । २) इतीष्टादिकारिविषयं न सर्वविषयम् । पञ्चम्यामाहुताविति च स्वार्थविधानपरं न पुनरपञ्चम्याहुतिप्रतिषेधपरमपि, वाक्यभेदप्रसङ्गात् । संयमने त्वनुभूयेति सूत्रेणावरोहापादानतया संयमनस्योपादानाच्चन्द्रमण्डलापादाननिषेध आञ्जसः । तथाच सिद्धान्तसूत्रमेव । पूर्वपक्षसूत्रत्वे तु शङ्कान्तराध्याहारेण कथञ्चिद्गमयितव्यम् । जीवजञ्जरायुजम् । संशोकजं संस्वेदजम् ॥ १२ ॥
संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ १३ ॥
स्मरन्ति च ॥ १४ ॥
अपि च सप्त ॥ १५ ॥
तत्रापि च तद्व्यापारादविरोधः ॥ १६ ॥
विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ १७ ॥
न तृतीये तथोपलब्धेः ॥ १८ ॥
स्मर्यतेऽपि च लोके ॥ १९ ॥
दर्शनाच्च ॥ २० ॥
तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥