भामतीव्याख्या
पुरुषार्थाधिकरणविषयाः
पुरुषार्थोऽतः शब्दादिति बादरायणः ।
स्थितं कृत्वोपनिषदामपवर्गाख्यपुरुषार्थसाधनात्मज्ञानपरत्वमुपासनानां च तत्तत्पुरुषार्थसाधनत्वमधस्तनं विचारजातमभिनिर्वर्तितम् । सम्प्रति तु किमौपनिषदात्मतत्त्वज्ञानमपवर्गसाधनतया पुरुषार्थमाहो क्रतुप्रयोगापेक्षितकर्तृप्रतिपादकतया क्रत्वर्थमिति मीमांसामहे । यदा च क्रत्वर्थं तदा यावन्मात्रं क्रतुप्रयोगविधिनापेक्षितं कर्तृत्वमामुष्मिकफलोपभोक्तृत्वं च न चैतदनित्यत्वे घटते कृतविप्रणाशाकृताभ्यागमप्रसङ्गादतो नित्यत्वमपि, तावन्मात्रमुपनिषत्सु विवक्षितम् । इतोऽन्यदनपेक्षितं विपरीतं च नोपनिषदर्थः स्यात् । यथा शुद्धत्वादि । यद्यपि जीवानुवादेन तस्य ब्रह्मत्वप्रतिपादनपरत्वमुपनिषदामिति महता प्रबन्धेन तत्र तत्र प्रतिपादितं तथाप्यत्र केषाञ्चित्पूर्वपक्षशङ्काबीजानां निराकरणे तदेव स्थूणानिखननन्यायेन निश्चलीक्रियत इत्यप्यस्ति विचारप्रयोजनम् । तत्र यद्यपि प्रोक्षणादिवदात्मज्ञानं न कञ्चित्क्रतुमारभ्याधीतम् , यद्यपि च कर्तृमात्रं नाव्यभिचारितक्रतुसम्बन्धं कर्तृमात्रस्य लौकिकेष्वपि कर्मसु दर्शनाद्येन पर्णतादिवदनारभ्याधीतमप्यव्यभिचरितक्रतुसम्बन्धजुहूद्वारेण वाक्येनैव क्रत्वर्थमापद्यते तथापि यादृश आत्मा कर्तामुष्मिकस्वर्गादिफलभोगभागीदेहाद्यतिरिक्तो वेदान्तैः प्रतिपाद्यते न तादृशस्यास्ति लौकिकेषु कर्मसूपयोगः । तेषामैहिकफलानां शरीरानतिरिक्तेनापि यादृशतादृशेन कर्त्रोपपत्तेः । आमुष्मिकफलानां तु वैदिकानां कर्मणां तमन्तरेणासम्भवात्तत्सम्बन्ध एवायमौपनिषदः कर्तेति तदव्यभिचारात्तान्यनुस्मारयज्जुह्वादिवद्वाक्येनैव तज्ज्ञानं पर्णतावत्क्रत्वैदमर्थ्यमापद्यत इति फलश्रुतिरर्थवादः । तदुक्तम् “द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्”(जै.सू. ४-३-१) इति औपनिषदात्मज्ञानसंस्कृतो हि कर्ता पारलौकिकफलोपभोगयोग्योऽस्मीति विद्यावाञ्छ्रद्धावान्क्रतुप्रयोगाङ्गं नान्यथा प्रोक्षिता इव व्रीहयः क्रत्वङ्गमिति । प्रियादिसूचितस्य च संसारिण एवात्मनो द्रष्टव्यत्वेन प्रतिज्ञापनादपहतपाप्मत्वादि तु तद्विशेषणं तस्यैव स्तुत्यर्थम् । न तु तत्परत्वमुपनिषदाम् । तस्मात्क्रत्वर्थमेवात्मज्ञानं कर्तृसंस्कारद्वारा न पुनः पुरुषार्थमिति । एतदुपोद्बलनार्थं च ब्रह्मविदामाचारादिः श्रुत्यवगत उपन्यस्तः । न केवलं वाक्यादात्मज्ञानस्य क्रत्वर्थत्वम् । तृतीयाश्रुतेश्च । न त्वेतत्प्रकृतोद्गीथविद्याविषयं यदेव विद्ययेति सर्वनामावधारणाभ्यां व्याप्तेरधिगमत् । यथा य एव धूमवान्देशः स वह्निमानिति । समन्वारम्भवचनं च फलारम्भे विद्याकर्मणोः साहित्यं दर्शयति । तच्च यद्यप्याग्नेयादियागषट्कवत्समप्रधानत्वेनापि भवति तथाप्युक्तया युक्त्या विद्यायाः कर्म प्रत्यङ्गभावेनैव नेतव्यम् । वेदार्थज्ञानवतः कर्मविधानादुपनिषदोऽपि वेदार्थ इति तज्ज्ञानमपि कर्माङ्गमिति ॥ १ ॥
शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः ॥ २ ॥
आचारदर्शनात् ॥ ३ ॥
तच्छ्रुतेः ॥ ४ ॥
समन्वारम्भणात् ॥ ५ ॥
तद्वतो विधानात् ॥ ६ ॥
नियमाच्च ।
सुगमम् ॥ ७ ॥
सिद्धान्तयति –
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ।
यदि शरीराद्यतिरिक्तः कर्ता भोक्तात्मेत्येतन्मात्र उपनिषदः पर्यवसिताः स्युस्ततः स्यादेवं, न त्वेतदस्ति । तास्त्वेवंभूतजीवानुवादेन तस्य शुद्धबुद्धोदासीनब्रह्मरूपताप्रतिपादनपरा इति तत्र तत्रासकृदावेदितम् । अनधिगतार्थबोधनस्वरसता हि शब्दस्य प्रमाणान्तरसिद्धानुवादेन । तथा चौपनिषदात्मज्ञानस्य क्रत्वनुष्ठानविरोधिनः क्रतुसम्बन्ध एव नास्ति । किमङ्ग पुनः तदव्यभिचारस्ततश्च क्रतुशेषता । तथाच नापवर्गफलश्रुतेरर्थवादमात्रत्वमपि तु फलपरत्वमेव । अत एव प्रियादिसूचितेन संसारिणात्मनोपक्रम्य तस्यैवात्मनोऽधिकोपदिदीक्षायां परमात्मनात्यन्ताभेद उपदिश्यते । यथा समारोपितस्य भुजंगस्य रज्जुरूपादत्यन्ताभेदः प्रतिपाद्यते योऽयं सर्पः सा रज्जुरिति । यथा विद्यायाः कर्माङ्गत्वे दर्शनमुपन्यस्तमेवमकर्माङ्गत्वे दर्शनमुक्तम् । तत्र कर्माङ्गत्वदर्शनानामन्यथासिद्धिरुक्ता केवलविद्यादर्शनानां तु नान्यथासिद्धिः ॥ ८ ॥
तुल्यं तु दर्शनम् ॥ ९ ॥
असार्वत्रिकी ।
व्याप्तिरप्युद्गीथविद्यापेक्षया तस्या एव प्रकृतत्वान्न त्वशेषापेक्षया । यथा सर्वे ब्राह्मणा भोज्यन्तामिति निमन्त्रितापेक्षया तेषामेव प्रकृतत्वात् ॥ १० ॥
विभागः शतवत् ।
सुगमम् ।
अविभागेऽपि न दोष इत्याह –
न चेदं समन्वारम्भवचनमिति ।
संसारिविषया विद्याविहितायथोद्गीथविद्या । प्रतिषिद्धा च यथासच्छास्त्राधिगमनलक्षणा ॥ ११ ॥
अध्ययनमात्रवतः ।
अध्ययनमात्रवत एव कर्मविधिर्नतूपनिषदध्ययनवतः । एतदुक्तं भवति - यदध्ययनमर्थावबोधपर्यन्तं कर्मसूपयुज्यते यथा कर्मविधिवाक्यानां तन्मात्रवत एवाधिकारः कर्मसु नोपनिषदध्यनवतः तदध्ययनस्य कर्मस्वनुपयोगादिति ।
अध्ययनमात्रवत एवेति मात्रग्रहणेनार्थज्ञानं वा व्यवच्छिन्नमिति मन्वानो भ्रान्तश्चोदयति - –
नन्वेवं सतीति ।
स्वाभिप्रायमुद्घाटयन्समाधत्ते –
न वयमिति ।
उपनिषदध्ययनापेक्षं मात्रग्रहणं नार्थबोधापेक्षमित्यर्थः ॥ १२ ॥
नाविशेषात् ।
कुर्वन्नेवेह कर्माणीत्यविद्यावद्विषयमित्यर्थः ॥ १३ ॥
विद्यावद्विषयत्वेऽप्यविरोधो विद्यास्तुत्यर्थत्वादित्याह –
स्तुतयेऽनुमतिर्वा ॥ १४ ॥
अपिच विद्याफलं प्रत्यक्षं दर्शयन्ती श्रुतिः कालान्तरभाविफलकर्माङ्गत्वं विद्याया निराकरोतीत्याह –
कामकारेण चैके ।
कामकार इच्छा ॥ १५ ॥
उपमर्दं च ।
अधिकोपदेशादित्यनेनात्मन एव शुद्धबुद्धोदासीनत्वादय उक्ताः । इह तु समस्तक्रियाकारकफलविभागोपमर्दं चेति ॥ १६ ॥
ऊर्ध्वरेतःसु च शब्दे हि ।
सुबोधम् ॥ १७ ॥