भामतीव्याख्या
आश्रमकर्माधिकरणविषयाः
विहितत्वाच्चाश्रमकर्मापि ।
नित्यानि ह्याश्रमकर्माणि यावज्जीवश्रुतेर्नित्येहितोपायतयावश्यं कर्तव्यानि । विविदिषन्तीति च विद्यासंयोगाद्विद्यायाश्चावश्यम्भावनियमाभावादनित्यता प्राप्नोति । नित्यानित्यसंयोगश्चैकस्य न सम्भवति, अवश्यानवश्यम्भावयोरेकत्र विरोधात् । नच वाक्यभेदाद्वास्तवो विरोधः शक्योऽपनेतुम् । तस्मादनध्यवसाय एवात्रेति प्राप्तम् । एतेन “एकस्य तूभयत्वे संयोगपृथक्त्वम्” इत्याक्षिप्तम् । एवं प्राप्तेऽभिधीयते - सिद्धे हि स्याद्विरोधोऽयं न तु साध्ये कथञ्चन । विध्यधीनात्मलाभेऽस्मिन् यथाविधि मता स्थितिः ॥ सिद्धं हि वस्तु विरुद्धधर्मयोगेन बाध्यते । न तु साध्यरूपं यथा षोडशिन एकस्य ग्रहणाग्रहणे । ते हि विध्यधीनत्वाद्विकल्पेते एव । न पुनः सिद्धे विकल्पसम्भवः । तदिहैकमेवाग्निहोत्राख्यं कर्म यावज्जीवश्रुतेर्निमित्तेन युज्यमानं नित्येहितोपात्तदुरितप्रक्षयप्रयोजनमवश्यकर्तव्यं, विद्याङ्गतया च विद्यायाः कादाचित्कतयानवश्यं भावेऽपि “काम्यो वा नैमित्तिको वा नित्यमर्थं विकृत्य निविशते” इति न्यायादनित्याधिकारेण निविशमानमपि न नित्यमनित्ययति, तेनापि तत्सिद्धेरिति संयोगपृथक्त्वान्न नित्यानित्यसंयोगविरोध एकस्य कार्यस्येति सिद्धम् । सहकारित्वं च कर्मणां न कार्ये विद्यायाः किं तूत्पत्तौ । कोऽर्थो विद्यासहकारीणि कर्माणीति । अयमर्थः सत्सु कर्मसु विद्यैव स्वकार्ये व्याप्रियते । यथा “सहैव दशभिः पुत्रैर्भारं वहति गर्दभी” इति सत्स्वेव दशपुत्रेषु सैव भारस्य वाहिकेति ।
अविधिलक्षणत्वादिति ।
विहितं हि दर्शपौर्णमासाद्यङ्गैर्युज्यते न त्वविहितम् । ग्राहकग्रहणपूर्वकत्वादङ्गभावस्य विधैश्च ग्राहकत्वात् । अविहिते च तदनुपपत्तेः । चतसृणामपि च प्रतिपत्तीनां ब्रह्मणि विधानानुपपत्तेरित्युक्तं प्रथमसूत्रे । द्रष्टव्यो निदिध्यासितव्य इति च विधिसरूपं न विधिरित्यप्युक्तम् । उत्पत्तिं प्रति हेतुभावस्तु सत्त्वशुद्ध्या विविदिषोपजनद्वारेत्यधस्तादुपपादितम् । असाध्यत्वाच्च विद्याफलस्यापवर्गस्य स्वरूपावस्थानलक्षणो हि सः । नच स्वं रूपं ब्रह्मणः साध्यं नित्यत्वात् । शेषमतिरोहितार्थम् ॥ ३२ ॥
सहकारित्वेन च ॥ ३३ ॥
सर्वथापि त एवोभयलिङ्गात् ।
यथा मासमग्निहोत्रं जुह्वतीति प्रकरणान्तरात्कर्मभेद एवमिहापि “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन”(बृ. उ. ४ । ४ । २२) इति क्रतुप्रकरणमतिक्रम्यश्रवणात्प्रकरणान्तरात्तद्बुद्धिव्यवच्छेदे सति कर्मान्तरमिति प्राप्त उच्यतेसत्यपि प्रकरणान्तरे तदेव कर्म, श्रुतेः स्मृतेश्च संयोगभेदः परं यथा “अग्निहोत्रं जुहुयात्स्वर्गकामः” “यावज्जीवमग्निहोत्रं जुहुयात्” इति तदेवाग्निहोत्रमुभयसंयुक्तम् । नहि प्रकरणान्तरं साक्षाद्भेदकम् । किन्तु अज्ञातज्ञापनस्वरसो विधिः प्रकरणैक्ये स्फुटतरप्रत्यभिज्ञाबलेन स्वरसं जह्यात् । प्रकरणान्तरेण तु विघटितप्रत्यभिज्ञानः स्वरसमजहत्कर्म भिनत्ति । इह तु सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायां विनियुञ्जानो न जुह्वतीत्यादिवदपूर्वमेषां रूपमुत्पादयितुमर्हति । नच तत्रापि नैयमिकाग्निहोत्रे मासविधिर्नापूर्वाग्निहोत्रोत्पत्तिरिति साम्प्रतम् । होम एव साक्षाद्विधिश्रुतेः । कालस्य चानुपादेयस्याविधेयत्वात् । काले हि कर्म विधीयते न कर्मणि काल इत्युत्सर्गः । इह तु विविदिषायां विधिश्रुतिः न यज्ञादौ । तानि तु सिद्धान्येवानूद्यन्त इत्यैककर्म्यात्संयोगपृथक्त्वं सिद्धम् । स्मृतिमुक्त्वा लिङ्गदर्शनमुक्तम् ॥ ३४ ॥
अनभिभवं च दर्शयति ॥ ३५ ॥