भामतीव्याख्या
इतरासंश्लेषाधिकरणविषयः
इतरस्याप्येवमसंश्लेषः पाते तु ।
अधर्मस्य स्वाभाविकत्वेन रागादिनिबन्धनत्वेन शास्त्रीयेण ब्रह्मज्ञानेन प्रतिबन्धो युक्तः । धर्मज्ञानयोस्तु शास्त्रीयत्वेन, ज्योतिष्टोमदर्शपौर्णमासवदविरोधान्नोच्छेद्योच्छेत्तृभावो युज्यते । पाप्मनश्च विशेषतो ब्रह्मज्ञानोच्छेद्यत्वश्रुतेर्धर्मस्य न तदुच्छेद्यत्वम् । विशेषविधानस्य शेषप्रतिषेधनान्तरीयकत्वेन लोकतः सिद्धेः । यथा देवदत्तो दक्षिणेनाक्ष्णा पश्यतीत्युक्ते न वामेन पश्यतीति गम्यते । उभे ह्येवैष एते तरतीति च यथासम्भवं, ब्रह्मज्ञानेन दुष्कृतं भोगेन सुकृतमिति । “क्षीयन्ते चास्य कर्माणि”(मु. उ. २ । २ । ९) इति च सामान्यवचनं “सर्वे पाप्मानः”(छा. उ. ५ । २४ । ३) इति विशेषश्रवणात्पापकर्माणीति विशेषे उपसंहरणीयम् । तस्माद्ब्रह्मज्ञानाद्दुष्कृतस्यैव क्षयो न सुकृतस्येति प्राप्ते पूर्वाधिकरणराद्धान्तोऽतिदिश्यते । नो खलु ब्रह्मविद्या केनचिददृष्टेन द्वारेण दुष्कृतमपनयत्यपि तु दृष्टेनैव भोक्तृभोक्तव्यभोगादिप्रविलयद्वारेण तच्चैतत्तुल्यं सुकृतेपीति कथमेतदपि नोच्छिन्द्यात् । एवं च सति न शास्त्रीयत्वसाम्यमात्रमविरोधहेतुर्नहि प्रत्यक्षत्वसामान्यमात्रादविरोधो जलानलादीनाम् । नच सुकृतशास्त्रमनर्थकमब्रह्मविदं प्रति तद्विधेरर्थवत्त्वात् । एवमवस्थिते च पाप्मश्रुत्या पुण्यमपि ग्रहीतव्यम् । ब्रह्मज्ञानमपेक्ष्य पुण्यस्य निकृष्टफलत्वात्तत्फलं हि क्षयातिशयवत् । नह्येवं मोक्षो निरतिशयत्वान्नित्यत्वाच्च । दृष्टप्रयोगश्चायं पाप्मशब्दो वेदे पुण्यपापयोः । तद्यथा पुण्यपापे अनुक्रम्य सर्वे पाप्मानोऽतो निवर्तन्त इत्यत्र । तस्मादविशेषेण पुण्यपापयोरश्लेषविनाशाविति सिद्धम् ॥ १४ ॥