आनन्दगिरिटीका (छान्दोग्य)
प्रथमोऽध्यायः: पञ्चमः खण्डः
खण्डान्तरस्य तात्पर्यमाह –
प्राणादित्येति ।
प्रणवस्योद्गीथस्य चैकत्वं कृत्वा तस्मिन्सत्यध्यात्मं प्राणदृष्ट्याऽधिदैवतमादित्यदृष्ट्या च विशिष्टस्योद्गीथस्य यदुपासनमुक्तं तदेवानूद्य निन्दित्वा प्राणानां रश्मीनां च भेद एव गुणस्तद्विशिष्टदृष्ट्या तस्यैवोद्गीथावयवस्याक्षरस्यानेकपुत्रफलमुपासनमनेन ग्रन्थेन वक्तव्यमित्युत्तरो ग्रन्थः सम्प्रति प्रस्तूयत इत्यर्थः । अमृताभयगुणकाक्षरोपासनानन्तर्यमथशब्दार्थः ।
प्रणवोद्गीथयोरेकत्वे वैदिकप्रसिद्धिप्रदर्शनार्थं खल्वित्युक्तम् । तयोरेकत्वमुक्त्वाऽऽदित्यदृष्ट्योद्गीथोपास्तिमुक्तामनुवदति –
असाविति ।
उद्गीथादित्ययोरेकत्वं प्रश्नपूर्वकमुपपादयति –
उद्गीथ इत्यादिना ।
उच्चारयन्नेतीति सम्बन्धः ।
स्वरतेर्गत्यर्थत्वात्कथमुच्चारयन्नित्युच्यते तत्राऽऽह –
अनेकार्थत्वादिति ।
गच्छन्सविता प्राणिनां प्रवृत्त्यर्थमोमित्यनुज्ञा कुर्वन्निव गच्छति तस्मादोङ्कारत्वं सवितुरित्याह –
अथवेत्यादिना ॥ १ ॥
आदित्यदृष्ट्योद्गीथमुपदिष्टमनूद्य निन्दति –
तमेतमिति ।
निन्दाफलं दर्शयति –
अत इति ।
पर्यावर्तयादिति प्रथमपुरुषे श्रूयमाणे किमिति मध्यमपुरुषो व्याख्यायते तत्राऽऽह –
त्वंयोगादिति ।
युष्मद्युपपदे मध्यमपुरुषविधानादित्यर्थः ।
रश्मिभेदगुणदृष्टिविशिष्टोद्गीथोपासनस्य फलं कथयति –
एवमिति ।
वक्ष्यमाणेऽध्यात्मे बुद्धिसमाधानार्थमुक्तं देवताविषयं दर्शनमुपसंहरति –
इत्यधिदैवतमिति ॥ २ ॥
अध्यात्मप्राणदृष्ट्योद्गीथोपास्तिमुक्तामनुवदति –
अथेत्यादिना ।
कथं प्राणोद्गीथयोरेकत्वमित्याशङ्क्याऽऽह –
तथेति ।
यथा प्राणिनां प्रवृत्त्यर्थमोमित्यनुज्ञां कुर्वन्निवाऽऽदित्यो गच्छतीत्युक्तं तद्वदिति यावत् ।
उक्तमेव व्यतिरेकद्वारा स्फोरयति –
न हीति ।
मुमूर्षुसमीपवर्तिनो बन्धवो मरणकाले प्राणस्य वागादिप्रवृत्त्यर्थमनुज्ञाकरणं नैव जानन्ति । तथा च जीवदवस्थायामोमिति तदनुज्ञावशादेव वागादीनां प्रवृत्तिरालक्ष्यते । तस्मात्प्राणस्यानुज्ञामात्रमोङ्करणमित्यर्थः ।
प्राणादित्ययोरध्यात्माधिदैवतयोरुद्गीथत्वाविशेषात्प्राणवदादित्येऽप्यनुज्ञामात्रमोङ्करणमवधेयमित्याह –
एतत्सामान्यादिति ॥ ३ ॥
प्राणदृष्ट्योक्तामुद्गीथोपास्तिं निन्दित्वा विवक्षितामुपास्तिमुपन्यस्यति –
एतमु एवेति ।
भूमानं बहुत्वोपेतमिति यावत् ।
मध्यमपुरुषे तातङादेशस्य वैकल्पिकत्वेऽपि प्रथमपुरुषशङ्क्या दुरन्वयं व्यावर्तयति –
पूर्ववदिति ।
एकत्वदृष्टिनिन्दाद्वारा प्रधानोपासनं सफलमुपसंहरति –
प्राणेत्यादिना ॥ ४ ॥
पूर्वोत्तरयोर्ग्रन्थयोरसङ्गतिमाशङ्क्य तात्पर्यप्रदर्शनपूर्वकमुत्तरग्रन्थमवतार्य व्याकरोति –
अथेत्यादिना ।
ननु यथाश्रुतं स्थानमेव होतृषदनं किं नेष्यते तत्राऽऽह –
नहीति ।
हौत्रात्कर्मणो यत्फलमाद्रियते तत्प्रश्नपूर्वकमशेषतो दर्शयति –
किं तदित्यादिना ।
निपातद्वयमवधारणातिशयफलकं क्रियापदेन सम्बध्यते । अपिशब्दस्तु निष्ठानन्तरभावितया नेतव्यः ।
दुष्टमुद्गानमेव स्पष्टयति –
उद्गात्रेति ।
कथमन्यनिष्ठात्कर्मणोऽन्यत्र फलमाहर्तुं शक्यमित्याशङ्क्याऽऽह –
चिकित्सयेति ।
उद्गाता प्रणवोद्गीथैकत्वविज्ञानमाहात्म्यात्प्रामादिकं स्वकर्मणि प्राप्तं क्षतं हौत्रात्कर्मणः सम्यक्प्रयुक्तात्प्रणवात्प्रतिसन्दधातीत्यर्थः ॥ ५ ॥
इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य पञ्चमः खण्डः ॥