अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

चतुर्थोऽध्यायः: सप्तदशः खण्डः

नित्या­नु­ष्ठा­न­मुक्त्वा नैमि­त्ति­क­प्रा­य­श्चि­त्त­वि­धा­ना­र्थ­मु­प­क्र­मते –
अत्रेति ।
तद्वेषे ब्रह्मणो मौनभ्रंशे सतीति यावत् ।

रसान्विशेषतो ज्ञातुं पृच्छति –
कानिति ॥१॥

एवं यथा लोका­न­भ्य­त­प­त्त­थेति यावत् । जग्राहेति सम्बन्धः ॥२॥

तदेव विवृणोति –
भूरिति व्याहृ­ति­मि­त्या­दिना ।
प्रथमोऽतःशब्दो यत इत्यस्मिन्नर्थे ।

यद्दृक्त इति ।
ऋक्श­ब्द­स्त­स्मिन् ।

उक्त­प्रा­य­श्चि­त्त­मे­वाऽऽ­का­ङ्क्षा­पू­र्वकं विवृणोति –
कथमित्यादिना ।

क्रिया­वि­शे­ष­ण­मिति ।
यज्ञस्य क्षतं सन्दधातीति यत्तदृचामेव रसने सन्दधातीत्यर्थः । ओजसा सन्दधातीति सम्बन्धः ॥३ -४॥

तथा च यथोक्ते साधने सतीत्यर्थः । यथा पूर्व­स्मि­न्प्रा­य­श्चित्ते यज्ञस्य क्षतमिव रसने होता सन्दधाति तथा द्विती­य­तृ­ती­य­प्रा­य­श्चि­त्त­यो­रपि यजुषां साम्नां च रसे­ना­ध्व­र्यु­रु­द्गाता च तत्क्षतं संधत्त इत्याह –
पूर्ववदिति ।

होत्रा­द्य­प­रा­धा­धी­न­य­ज्ञ­भ्रंशे प्राय­श्चि­त्त­मुक्त्वा ब्रह्मापराधकृते यज्ञनशे किं प्राय­श्चि­त्त­मि­त्या­श­ङ्क्याऽऽह –
ब्रह्मेति ।

यथा यथो­क्त­प्रा­य­श्चित्ते लिङ्गं दर्शयति –
त्रय्या हीति ।

ब्रह्म­ण­स्त्र­यी­सा­रत्वे प्रमाणमाह –
अथ केनेति ।
साधारणकार्यस्य साधा­र­ण­सा­म­ग्री­ज­न्य­त्व­नि­य­मा­द्वे­द­त्र­य­सा­धा­रणे ब्रह्मत्वे वेद­त्र­य­सा­धा­र­ण­मेव प्रायश्चित्तं वाच्यमित्येको न्यायो दर्शितः ।

संप्रत्यस्यैव वेदै­क­त्व­प्र­सि­द्धे­र्ब्र­ह्मणः सर्व­वे­दा­र्था­भि­ज्ञस्य ज्ञान­मा­हा­त्म्ये­नैव दोष­नि­रा­सा­न्ना­न्य­त्प्रा­य­श्चित्तं विधेयमिति न्यायान्तरमाह –
न्यायान्तरं वेति ॥५ -६॥

वस्तु­स्व­भा­व­वै­चि­त्र्या­दु­त्प­न्न­स्यापि क्षतस्य केनचित्सन्धानं भवतीत्यत्र दृष्टान्तानाह –
तद्यथेत्यादिना ।

किं तत्र साधनमिति तद्दर्शयति –
क्षारेणेति ।
खरे सुवर्णे वह्निसंयुक्ते द्रवीभूते क्षारप्रक्षेपेण ट्ङ्कणादिना मृदुकरणं मिथोऽवयवसंयोजनं सन्धानं प्रसि­द्ध­मि­त्यर्थः ।

रजतं सुवर्णेन स्वर­स­त­स्ता­व­द­श­क्य­स­न्धानं तथाऽपि वह्नि­सं­यो­ग­पू­र्वक पूर्ववदेव तत्रापि प्रसिद्धं सन्धानमित्याह –
सुवर्णेनेति ।
रजतेनेत्यादावपि यथोक्तं द्रष्टव्यम् । सन्दधाति ब्रह्मेति शेषः । भेषजेनेव कृतः संस्कृत इति यावत् ।

तदेव स्फुटयति –
रोगार्त इति ।
भवति संस्कृत इति शेषः ॥७ -८॥

इतश्चैवंविदा ब्रह्मणा भवितव्यमित्याह –
किञ्चेति ।
गाथाशब्दो गाय­त्र्या­दि­च्छ­न्दो­व्य­ति­रि­क्त­च्छ­न्दो­वि­षयः ।

यतो यतः प्रदे­शा­त्क­र्माऽऽ­व­र्तत इत्युक्तं विवृणोति –
ऋत्विजामिति ।
यत्र यत्र प्रदेशे यज्ञस्य क्षति­र­ध्व­र्यु­प्र­भृ­ती­ना­म­भ­व­त्तत्र तत्र यज्ञस्य क्षतरूपं प्रायश्चित्तेन प्रतिसन्दधानो ब्रह्मा कर्तॄ­न्प­रि­पा­ल­य­तीति सम्बन्धः ॥९॥

ऋत्विजि ब्रह्मणि मान­व­श­ब्द­प्र­वृत्तौ निमित्तमाह –
मौनेति ।
ज्ञाना­ति­श­य­स्त­च्छ­ब्दार्थः । कर्तॄ­न­भि­र­क्ष­तीति सम्बन्धः ।

उक्तमर्थं दृष्टान्तेन प्रकटयति –
योद्धॄ­नि­त्या­दिना ।

प्रक­र­णा­र्थ­मु­प­सं­ह­रति –
एवमिति ॥१०॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां चतुर्थाध्यायस्य सप्तदशः खण्डः ॥
इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्य­श्री­शु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्य­भ­ग­व­दा­न­न्द­ज्ञा­न­कृ­तयां च्छान्दो­ग्यो­प­नि­ष­द्भा­ष्य­टी­कायां चतुर्थोऽध्यायः ॥