आनन्दगिरिटीका (छान्दोग्य)
षष्ठोऽध्यायः: प्रथमः खण्डः
वर्तिष्यमाणाध्यायस्यातीतेन सन्दर्भेण सम्बन्धं वक्तुं प्रतीकं गृहीत्वा तं प्रतिजानीते –
श्वेतकेतुरिति ।
तमेव प्रकटयन्प्रथमं तृतीयेनाध्यायेनास्य सम्बन्धं कथयति –
सर्वमिति ।
एतद्वक्तव्यं तदर्थोऽयं षष्ठोऽध्याय आरभ्यत इति सम्बन्धः ।
व्यवहितं सम्बन्धमुक्त्वाऽव्यवहितं तमादर्शयति –
अनन्तरं चेति ।
अध्यायतात्पर्यमुक्त्वाऽऽख्यायिकातात्पर्यमाह –
पितेति ।
पिता प्रतिवक्ता पुत्रश्च प्रष्टेत्येवंविधेयमाख्यायिका । सा च विद्यायाः सारिष्ठत्वद्योतनार्था । पिता हि पुत्राय सारतममेवोपदिशतीत्यर्थः । कुलस्यानुरूपमित्यादिवचनान्न कुलाधमस्य गुरुत्वमिति गम्यते । ब्रह्मचर्यमध्ययनार्थमिति शेषः । गत्वेत्यादिवचनान्माणवकाधीनमध्ययनमिति सूचितम् ।
मा भूदुपनयनमध्ययनं चेत्याशङ्क्याऽऽह –
न चैतद्युक्तमिति ॥१॥
किमिति पिता स्वयमेवोपनीय पुत्रं नाध्यापयति तत्राऽऽह –
तस्येति ।
अतःशब्दः स्वगृहविषयः ।
अनुमानं कल्पनं तत्र कल्पकमाह –
येनेति ।
अनूचानोऽनुवचनसमर्थः । कर्मव्युत्पत्त्या करणव्युत्पत्त्या चाऽऽदेशशब्दो व्याख्यातः ॥२॥
किमित्यधीतसर्ववेदमधिगततदर्थं च पुत्रमात्मविद्यामधिकृत्य पिता पृच्छति तस्य सर्ववेदाध्ययनादिनैव कृतार्थत्वादित्याशङ्क्याऽऽह –
सर्वानपीति ।
तदेतदद्भुतं श्रुत्वाऽऽहेत्युक्तं विवृणोति –
कथं न्विति ॥३॥
मृन्मयमित्यस्य व्याख्या मृद्विकारजातमिति । तद्यथा मृत्पिण्डेन विज्ञातेन विज्ञातं स्यात्तथाऽन्यदपि सर्वं कारणेन विज्ञातेन तद्विकारजातं विज्ञातं भवतीति योजना । अन्यविज्ञानादन्यविज्ञानमदृष्टत्वादश्लिष्टमिति शङ्कते –
कथमिति ।
कार्यकारणयोरन्यत्वासिद्धेर्मैवमिति परिहरति –
नैष दोष इति ।
तदेव स्फुटयति –
यन्मन्यस इत्यादिना ।
अन्यत्वाभावे लोकप्रसिद्धिविरोधं शङ्कते –
कथं तर्हीति ।
वाचाऽऽरम्भणमित्यत्र वाचेति तृतीया षष्ठ्यर्थे द्रष्टव्या ।
नामधेयमित्यस्यार्थं कथयति –
नामैवेति ।
विकारस्य मिथ्यात्वे किं परमार्थतोऽस्तीत्याशङ्क्याऽऽह –
मृत्तिकेत्येवेति ॥४॥
एकेनैव दृष्टान्तेन विवक्षितार्थसिद्धौ किमनेकदृष्टान्तोपादानेनेत्याशङ्क्याऽऽह –
अनेकेति ।
न वा इत्यादिप्रतीकमादाय व्याचष्टे –
भगवन्त इति ।
तेषामज्ञाने हेतुमाह –
यदित्यादिना ।
ननु श्वेतकेतुर्गुरूणामज्ञानमाचक्षाणो गुरुद्रोही प्रत्यवायी स्यादित्याशङ्क्याऽऽह –
अवाच्यमपीति ।
गुरुणामज्ञानमतःशब्दार्थः ॥६-७॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य प्रथमः खण्डः ॥