अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

षष्ठोऽध्यायः: प्रथमः खण्डः

वर्ति­ष्य­मा­णा­ध्या­य­स्या­ती­तेन सन्दर्भेण सम्बन्धं वक्तुं प्रतीकं गृहीत्वा तं प्रतिजानीते –
श्वेतकेतुरिति ।

तमेव प्रकटयन्प्रथमं तृती­ये­ना­ध्या­ये­नास्य सम्बन्धं कथयति –
सर्वमिति ।
एतद्वक्तव्यं तदर्थोऽयं षष्ठोऽध्याय आरभ्यत इति सम्बन्धः ।

व्यवहितं सम्ब­न्ध­मु­क्त्वाऽ­व्य­व­हितं तमादर्शयति –
अनन्तरं चेति ।

अध्या­य­ता­त्प­र्य­मु­क्त्वाऽऽ­ख्या­यि­का­ता­त्प­र्य­माह –
पितेति ।
पिता प्रतिवक्ता पुत्रश्च प्रष्टे­त्ये­वं­वि­धे­य­मा­ख्या­यिका । सा च विद्यायाः सारि­ष्ठ­त्व­द्यो­त­नार्था । पिता हि पुत्राय सार­त­म­मे­वो­प­दि­श­ती­त्यर्थः । कुल­स्या­नु­रू­प­मि­त्या­दि­व­च­नान्न कुलाधमस्य गुरुत्वमिति गम्यते । ब्रह्म­च­र्य­म­ध्य­य­ना­र्थ­मिति शेषः । गत्वे­त्या­दि­व­च­ना­न्मा­ण­व­का­धी­न­म­ध्य­य­न­मिति सूचितम् ।

मा भूदुपनयनमध्ययनं चेत्या­श­ङ्क्याऽऽह –
न चैतद्युक्तमिति ॥१॥

किमिति पिता स्वयमेवोपनीय पुत्रं नाध्यापयति तत्राऽऽह –
तस्येति ।
अतःशब्दः स्वगृहविषयः ।

अनुमानं कल्पनं तत्र कल्पकमाह –
येनेति ।
अनू­चा­नोऽ­नु­व­च­न­स­मर्थः । कर्म­व्यु­त्पत्त्या कर­ण­व्यु­त्पत्त्या चाऽऽदेशशब्दो व्याख्यातः ॥२॥

किमि­त्य­धी­त­स­र्व­वे­द­म­धि­ग­त­त­दर्थं च पुत्र­मा­त्म­वि­द्या­म­धि­कृत्य पिता पृच्छति तस्य सर्व­वे­दा­ध्य­य­ना­दि­नैव कृता­र्थ­त्वा­दि­त्या­श­ङ्क्याऽऽह –
सर्वानपीति ।

तदेतदद्भुतं श्रुत्वाऽऽ­हे­त्युक्तं विवृणोति –
कथं न्विति ॥३॥

मृन्मयमित्यस्य व्याख्या मृद्वि­का­र­जा­त­मिति । तद्यथा मृत्पिण्डेन विज्ञातेन विज्ञातं स्यात्त­थाऽ­न्य­दपि सर्वं कारणेन विज्ञातेन तद्विकारजातं विज्ञातं भवतीति योजना । अन्य­वि­ज्ञा­ना­द­न्य­वि­ज्ञा­न­म­दृ­ष्ट­त्वा­द­श्लि­ष्ट­मिति शङ्कते –
कथमिति ।

कार्य­का­र­ण­यो­र­न्य­त्वा­सि­द्धे­र्मै­व­मिति परिहरति –
नैष दोष इति ।

तदेव स्फुटयति –
यन्मन्यस इत्यादिना ।

अन्यत्वाभावे लोक­प्र­सि­द्धि­वि­रोधं शङ्कते –
कथं तर्हीति ।
वाचाऽऽ­र­म्भ­ण­मि­त्यत्र वाचेति तृतीया षष्ठ्यर्थे द्रष्टव्या ।

नाम­धे­य­मि­त्य­स्यार्थं कथयति –
नामैवेति ।

विकारस्य मिथ्यात्वे किं पर­मा­र्थ­तोऽ­स्ती­त्या­श­ङ्क्याऽऽह –
मृत्ति­के­त्ये­वेति ॥४॥

एकेनैव दृष्टान्तेन विव­क्षि­ता­र्थ­सिद्धौ किम­ने­क­दृ­ष्टा­न्तो­पा­दा­ने­ने­त्या­श­ङ्क्याऽऽह –
अनेकेति ।

न वा इत्या­दि­प्र­ती­क­मा­दाय व्याचष्टे –
भगवन्त इति ।

तेषामज्ञाने हेतुमाह –
यदित्यादिना ।

ननु श्वेत­के­तु­र्गु­रू­णा­म­ज्ञा­न­मा­च­क्षाणो गुरुद्रोही प्रत्यवायी स्यादि­त्या­श­ङ्क्याऽऽह –
अवाच्यमपीति ।
गुरु­णा­म­ज्ञा­न­म­तः­श­ब्दार्थः ॥६-७॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां षष्ठाध्यायस्य प्रथमः खण्डः ॥