अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

चतुर्थोऽध्यायः: पञ्चमः खण्डः

कथमृषभः सत्यकामं प्रति वक्तुमलं न हि लोके बलीवर्दस्य मनुष्यं प्रति वचनं दृष्टमत आह –
तमेतमिति ।
सत्यकामं श्रद्धा­दि­स­म्प­न्न­मे­न­मथ तस्या­म­व­स्था­या­मृ­ष­भोऽ­नु­ग्र­हा­या­भ्यु­वा­देति सम्बन्धः ।

ऋषभस्य स्वरूपमाह –
वायुदेवतेति ।

अरण्ये तत्र तत्र गाश्चारयतः श्रद्धापूर्वकं तपश्चरतो वायुदेवता कथं तुष्टे­त्या­श­ङ्क्याऽऽह –
दिक्स­म्ब­न्धि­नीति ॥१॥

वाक्यान्तरं च मदीयं श्रूयतामित्याह –
किञ्चेति ।

वायुदेवता दिक्स­म्ब­न्धि­नी­त्यु­क्त­त्वा­द्दि­ग्गो­च­र­मेव दर्श­न­मु­वा­चे­त्याह –
प्राचीति ।

ब्रह्मणः पादस्येति व्यधिकरणे षष्ठ्यौ । एकपादेव ब्रह्मेति विभ्रमं व्युदस्यति –
तथेति ॥२॥

प्रथ­म­पा­दो­पा­स­कस्य दृष्टमदृष्टं च फलमाह –
स य इत्यादिना ।

कस्येदं फलमित्युक्ते पूर्वो­क्त­मे­वो­पा­स­क­म­नु­व­दति –
य एतमिति ॥३॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां चतुर्थाध्यायस्य पञ्चमः खण्डः ॥