आनन्दगिरिटीका (छान्दोग्य)
चतुर्थोऽध्यायः: पञ्चमः खण्डः
कथमृषभः सत्यकामं प्रति वक्तुमलं न हि लोके बलीवर्दस्य मनुष्यं प्रति वचनं दृष्टमत आह –
तमेतमिति ।
सत्यकामं श्रद्धादिसम्पन्नमेनमथ तस्यामवस्थायामृषभोऽनुग्रहायाभ्युवादेति सम्बन्धः ।
ऋषभस्य स्वरूपमाह –
वायुदेवतेति ।
अरण्ये तत्र तत्र गाश्चारयतः श्रद्धापूर्वकं तपश्चरतो वायुदेवता कथं तुष्टेत्याशङ्क्याऽऽह –
दिक्सम्बन्धिनीति ॥१॥
वाक्यान्तरं च मदीयं श्रूयतामित्याह –
किञ्चेति ।
वायुदेवता दिक्सम्बन्धिनीत्युक्तत्वाद्दिग्गोचरमेव दर्शनमुवाचेत्याह –
प्राचीति ।
ब्रह्मणः पादस्येति व्यधिकरणे षष्ठ्यौ । एकपादेव ब्रह्मेति विभ्रमं व्युदस्यति –
तथेति ॥२॥
प्रथमपादोपासकस्य दृष्टमदृष्टं च फलमाह –
स य इत्यादिना ।
कस्येदं फलमित्युक्ते पूर्वोक्तमेवोपासकमनुवदति –
य एतमिति ॥३॥
इति श्रीमदानन्दगिरिटीकायां चतुर्थाध्यायस्य पञ्चमः खण्डः ॥