आनन्दगिरिटीका (छान्दोग्य)
तृतीयोऽध्यायः: पञ्चमः खण्डः
पञ्चमं मधु दर्शयति –
अथेति ।
लोकद्वारीयादिविधयो लोकद्वारमपावृणु पश्येम त्वा वयमित्यादयः ।
ब्रह्मशब्दार्थमाह –
शब्दाधिकारादिति ।
ऋगादिशब्दानां प्रकृतत्वादित्यर्थः ।
अस्यापि मधुनः शास्त्रवशात्प्रत्यक्षतामाह –
मध्वेतदिति ।
समाहितदृष्टेः शास्त्रार्थे समाहितचित्तस्येत्यर्थः ॥१-३॥
पञ्च मधूनि व्याख्याय तेषां सर्वेषां ध्येयत्वसिद्ध्यर्थं स्तुतिं प्रकुरुते –
ते वा एत इति ।
तस्मात्तेषामिति सम्बन्धः । कर्मणि विनियुक्तत्वेन तदङ्गत्वात्तद्भावापत्तिः । वेदानां कार्यत्वेऽपि प्रयत्नपूर्वकत्वाभावान्नित्यत्वम् ।
या मधुनि स्तुतिः सा कर्मस्तुतिरित्याह –
रसानामिति ।
कर्मस्तुतिमभिनयति –
यस्यैवमिति ।
रसानां रसा अमृतानाममृतानीत्येवंविशिष्टान्यमृतानि यस्य फलं कर्मणस्तस्य महाभाग्यं किं वक्तव्यमिति स्तूयते कर्मेत्यर्थः ॥४॥
इति श्रीमदानन्दगिरिटीकायां तृतीयाध्यायस्य पञ्चमः खण्डः ॥