अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

तृतीयोऽध्यायः: पञ्चमः खण्डः

पञ्चमं मधु दर्शयति –
अथेति ।
लोक­द्वा­री­या­दि­वि­धयो लोकद्वारमपावृणु पश्येम त्वा वयमित्यादयः ।

ब्रह्म­श­ब्दा­र्थ­माह –
शब्दाधिकारादिति ।
ऋगादिशब्दानां प्रकृ­त­त्वा­दि­त्यर्थः ।

अस्यापि मधुनः शास्त्र­व­शा­त्प्र­त्य­क्ष­ता­माह –
मध्वेतदिति ।
समाहितदृष्टेः शास्त्रार्थे समा­हि­त­चि­त्त­स्ये­त्यर्थः ॥१-३॥

पञ्च मधूनि व्याख्याय तेषां सर्वेषां ध्येय­त्व­सि­द्ध्यर्थं स्तुतिं प्रकुरुते –
ते वा एत इति ।
तस्मात्तेषामिति सम्बन्धः । कर्मणि विनियुक्तत्वेन तद­ङ्ग­त्वा­त्त­द्भा­वा­पत्तिः । वेदानां कार्यत्वेऽपि प्रय­त्न­पू­र्व­क­त्वा­भा­वा­न्नि­त्य­त्वम् ।

या मधुनि स्तुतिः सा कर्म­स्तु­ति­रि­त्याह –
रसानामिति ।

कर्म­स्तु­ति­म­भि­न­यति –
यस्यैवमिति ।
रसानां रसा अमृ­ता­ना­म­मृ­ता­नी­त्ये­वं­वि­शि­ष्टा­न्य­मृ­तानि यस्य फलं कर्मणस्तस्य महाभाग्यं किं वक्तव्यमिति स्तूयते कर्मेत्यर्थः ॥४॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां तृतीयाध्यायस्य पञ्चमः खण्डः ॥