अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

द्वितीयोऽध्यायः: त्रयोदशः खण्डः

उत्त­रा­ध­रा­र­णि­स्था­नी­ययोः स्त्रीपु­रु­षो­र­वाच्ये कर्मणि प्रवृ­त्त­यो­र्म­न्थ­न­सा­मा­न्या­न्म­न्थ­ना­दि­दृ­ष्ट्य­न­न्तरं मैथुनदृष्टिं विदधाति –
उपमन्त्रयत इत्यादिना ।

पुरुषो हि पशुकर्मार्थं स्त्रियं वस्त्रादिना प्रीणयति । तस्मि­न्प्रा­र­म्भ­सा­मा­न्या­त्प्र­स्ता­व­दृ­ष्टि­रि­त्याह –
ज्ञपयत इति ।

कुतो वामदेव्यस्य साम्नो मिथुने प्रोतत्वं तत्राऽऽह –
वाय्वम्बु मिथुनेति ।
वायोरपां च मिथुनतया सम्ब­न्धा­द्वा­म­दे­व्यो­त्प­त्ते­रु­क्त­त्वा­त्तस्य मिथुने प्रतिष्ठितत्वं युक्तमित्यर्थः ॥१॥

न काञ्च­ने­ति­वा­क्य­मा­दाय व्याचष्टे –
काञ्चिदपीति ।

पराङ्गनां नोपगच्छेदिति स्मृति­वि­रो­ध­मा­श­ङ्क्याऽऽह –
वामदेव्येति ।
विधिनिषेधयोः सामा­न्य­वि­शे­ष­वि­ष­य­त्वेन व्यवस्था प्रसिद्धेति भावः ।

किं च शास्त्र­प्रा­मा­ण्या­दत्र धर्मोऽवगम्यते न काञ्चन परिहरेदिति च शास्त्रा­व­ग­त­त्वा­द­वा­च्य­मपि कर्म धर्मो भवितुमर्हति । तथा च श्रौतेऽर्थे दुर्बलायाः स्मृतेर्न प्रति­स्प­र्धि­ते­त्याह –
वचनेति ।
यथोक्तोपासनावतो ब्रह्म­च­र्य­नि­य­मा­भावो व्रतत्वेन विवक्षितस्तन्न प्रति­षे­ध­शा­स्त्र­वि­रो­धा­श­ङ्केति भावः ॥२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां द्विती­या­ध्या­यस्य त्रयोदशः खण्डः ॥