आनन्दगिरिटीका (छान्दोग्य)
सप्तमोऽध्यायः: एकादशः खण्डः
इति शब्दस्तदाहुतिरित्यनेन संबध्यते । वैशब्दार्थं दर्शयति –
प्रसिद्धमिति ।
अप्तेजसोरुक्तं कार्यकारणत्वमुपजीव्य फलितमाह –
तेज एवेति ।
अप्तेजसोर्विधान्तरेण कार्यकारणभावं दर्शयति –
किंचान्यदिति ।
तदेवोपपादयति –
ऊर्ध्वाभिरिति ।
तेजसोभूयस्त्वफलमाह –
तेज इति ॥१॥
तमःशब्दार्थमाह –
बाह्येति ।
बाह्यं तमः शार्वरं प्रसिद्धमाध्यात्मिकज्ञानरागादि तदुभयमपहततमस्कानित्यत्र तमःशब्दितमित्यर्थः ।
अपहतशब्दार्थमाह –
अपनीतेति ॥२॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्यैकादशः खण्डः ॥