आनन्दगिरिटीका (छान्दोग्य)
सप्तमोऽध्यायः: सप्तमः खण्डः
विज्ञानस्योक्तभूयस्त्वं प्रश्नपूर्वकं दर्शयति –
कथमित्यादिना ।
यद्यपि प्रमाणतया तज्ज्ञानं शास्त्रार्थज्ञानपूर्वकं तथाऽपि कथं तस्य ततो भूयस्त्वं तत्राऽऽह –
यस्येति ।
इतश्च तस्य ध्यानाद्भूयस्त्वमित्याह –
किंचेति ।
भूयस्त्वफलमाह –
अत इति ॥१॥
ज्ञानविज्ञानशब्दयोरर्थभेदं कथयति –
विज्ञानमिति ।
तथाऽपि लोकानामचेतनानां कुतस्तदुभयाश्रयत्वमित्याशङ्क्याऽऽह –
तद्वद्भिरिति ॥२॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य सप्तमः खण्डः ॥