आनन्दगिरिटीका (छान्दोग्य)
प्रथमोऽध्यायः: षष्ठः खण्डः
इयमेवेत्यादिसन्दर्भस्य तात्पर्यमाह –
अथेति ।
पुत्राद्यैश्वर्यैकदेशविषयोपासनोपदेशानन्तरमवसरे प्राप्ते ज्योतिष्टोमादावधिकृतस्य समग्रैश्वर्यप्राप्त्यर्थप्राप्त्यर्थमधिदैवाध्यात्मविभागेनोद्गीथविषयमेवापूर्वमुपासनमस्मिन्ग्रन्थे विधातुमिष्टमित्यर्थः ।
तत्र तदङ्गभूतमुपासनमादौ विदधाति –
इयमेवेति ।
पृथिव्यामृग्दृष्टिरत्र नेष्टा कर्माङ्गस्य संस्कर्तव्यत्वादित्यभिप्रेत्याऽऽह –
ऋचीति ।
ऋचि यथा पृथिवीदृष्टिरनन्तरवाक्ये विहिता तथाग्निः सामेत्यत्राग्निदृष्टिः साम्नि विधीयते पूर्ववदित्याह –
तथेति ।
ऋक्त्वं पृथिव्याः सामत्वं चाग्नेरप्रसिद्धमिति शङ्कते –
कथमिति ।
ऋक्सामत्वसिद्धावित्युत्तरमाह –
उच्यत इति ।
तयोराधाराधेयभावे गमकं दर्शयति –
तस्मादिति ।
ऋचि पृथिवीदृष्टिः साम्नि चाग्निदृष्टिरित्यत्र हेत्वन्तरमाह –
यथा चेति ।
पृथिव्यग्न्योरत्यन्तभेदाभावं प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।
कर्माङ्गयोः सह प्रयोगादृक्सामयोरन्योन्यमव्यभिचारान्नात्यन्तभेदस्तथा पृथिव्यग्न्योरप्येकशब्दवाच्यत्वान्नात्यन्तं भिन्नतेत्यर्थः ।
तयोरत्यन्तभेदाभावे फलितमाह –
तस्माच्चेति ।
पृथिवी साशब्दवाच्या स्त्रीत्वादग्निरमः पुंस्त्वादिति द्रष्टव्यम् ।
पक्षान्तरमुत्थाप्याङ्गीकरोति –
सामाक्षरयोरिति ॥ १ ॥
कथं पुनर्नक्षत्रपर्याये तदेतदेतस्यामित्यादिवाक्यं न हि नक्षत्रेषु चन्द्रमसः स्थितिरत आह –
नक्षत्राणामिति ।
नक्षत्राधिपत्यात्तदुपरिभावेन चन्द्रमसः स्थितेरित्यतःशब्दार्थः । नक्षत्रसहितं चन्द्रमसं पराम्रष्टुं सशब्दः ॥ ४ ॥
अङ्गोपासनानि कानिचिदुक्त्वा तादृगेवोपासनान्तरमाह –
अथेति ।
आदित्यस्य मण्डलात्मनो यद्रूपं शुक्लं दृश्यते ऋचि तद्दृष्टिः कर्तव्येत्यर्थः ।
तदेव रूपं विशिनष्टि –
भा इति ।
तामेव व्याचष्टे –
शुक्ला दीप्तिरिति ।
ऋचि यथा पूर्वोक्तरूपदृष्टिस्तथा साम्नि वक्ष्यमाणरूपदृष्टिरनुष्ठेयेत्याह –
अथेति ।
नन्वादित्ये शौक्ल्यवदनतिशयं कार्ष्ण्यं नास्माभिरनुभूयते तत्राऽऽह –
तद्धीति ।
एकान्तेन समाहिता शास्त्रसंस्कृता यस्य दृष्टिस्तस्यादित्ये निरतिशयं कार्ष्ण्यं दृश्यते तथा च तद्दृष्टिः साम्नि श्लिष्टेत्यर्थः ॥ ५ ॥
अथ यदेवैतदित्यादेस्तात्पर्यमाह –
ते एवेति ।
अङ्गोपासनानि समाप्यानन्तरमाधिदैविकीं प्रधानोपासनां विवक्षुरुपास्यस्वरूपमुपन्यस्यति –
अथेत्यादिना ।
किमिति हिरण्मयपदमुपमार्थं व्याख्यायते हिरण्यविकारत्वमेवात्र विवक्षितं किं न स्यादित्याशङ्क्याऽऽह –
न हीति ।
अपहतपाप्मत्वासम्भवं साधयति –
न हीत्यादिना ।
पाप्मादीत्यादिपदं तत्कार्यसङ्ग्रहार्थम् ।
किञ्च चक्षुष्युपास्ये पुरुषे सुवर्णविकारत्वस्याग्रहणाद्गौणमेव हिरण्मयपदमित्याह –
चाक्षुषे चेति ।
न च तत्राप्यातिदेशिकं तद्ग्रहणमृक्सामगेष्णत्वादिना तादृशेन विरोधात्तस्माद्गौणमेव हिरण्मयपदमित्युपसंहरति –
अत इति ।
हिरण्यश्मश्रुरित्यादिविशेषणेष्वपि तुल्यं गौणत्वमित्याह –
उत्तरेष्वपीति ।
नन्वादित्यादिमण्डले पुरुषो नास्माभिर्दृश्यते तत्राऽऽह –
निवृत्तचक्षुर्भिरिति ।
विशिष्टाधिकारिणामादित्यपुरुषदर्शनमुपपादयति –
ब्रह्मचर्यादीति ॥ ६ ॥
सर्वं एव सुवर्णं इति विशेषणादक्ष्णोरपि सुवर्णत्वे प्राप्ते प्रत्याह –
तस्येति ।
विशेषमेव प्रश्नपूर्वकं विशदयति –
कथमित्यादिना ।
यथा कप्यासवद्व्यवस्थितं पुण्डरीकं तथा तस्याक्षिणी इति योजना ।
आसशब्दनिष्पत्तिप्रकारं सूचयति –
आसेरिति ।
घञन्तस्य शब्दस्य विवक्षितमर्थं कथयति –
कपीति ।
तस्य करणत्वं स्फुटयति –
येनेति ।
कपिः स कपिपृष्ठान्तः कप्यास इति शेषः ।
पदार्थमुक्त्वा वाक्यार्थमाह –
कप्यास इवेति ।
निहीनोपमया देवस्य चक्षुषी व्यपदिशता तयोरपि निहीनत्वं व्यपदिष्टं स्यादित्याशङ्क्याऽऽह –
उपमितेति ।
कप्यासेनोपमितं पुण्डरीकं तेनोपमानेनोपमितत्वाच्चक्षुषोर्न निहीनोपमानप्रयुक्तं निहीनत्वमित्यर्थः ।
यथोक्तस्याऽऽदित्यपुरुषस्य क्षेत्रज्ञत्वशङ्कां व्यावर्तयितुं नाम व्यपदिशति –
तस्येति ।
नाम्नो गौणत्वं शङ्काद्वारा व्युत्पादयति –
कथमित्यादिना ।
न तस्य सर्वपाप्मोदयस्तत्कार्यभाक्त्वादित्याशङ्क्याऽऽह –
पाप्मनेति ।
आदित्यक्षेत्रज्ञेऽपि सर्वपाप्मोदयः सम्भवति, “न ह वै देवान्पापं गच्छति”(बृ.उ. १ । ५ । २०) इति श्रुतेरित्याशङ्क्य परमात्मविषयवाक्यशेषमुदाहरति –
य आत्मेति ।
उक्तार्थयोगोऽतःशब्दार्थः ।
उपास्यं परमात्मानमुपन्यस्य तदुपासनमिदानीं सफलमुपन्यस्यति –
तमेवंगुणसम्पन्नमिति ।
यथोक्तेन प्रकारेणोन्नामानमिति सम्बन्धः ॥ ७ ॥
कथं परस्योपासनमित्यपेक्षायामुद्गीथे सम्पाद्येति दर्शयति –
तस्येत्यादिना ।
यथाऽऽदित्यादीनामुद्गीथेसम्पाद्योपासनमत्र विवक्ष्यते तथा परमात्मनोऽपि तत्र सम्पाद्योपासनं विवक्षित्वा सर्वर्क्सामात्मत्वमाह तस्येत्यादिवाक्यमित्यर्थः ।
मण्डलावच्छिन्नस्य पुरुषस्य कथमृगादिगेष्णत्वमित्याशङ्क्याऽऽह –
सर्वात्मेति ।
परस्य स्वारस्येन सर्वात्मत्वादाध्यानार्थं मण्डलावच्छेदादुपपन्नमृगादिगेष्णत्वमित्यर्थः ।
तत्रैव हेत्वन्तरमाह –
परापरेति ।
सर्वात्मत्वं साधयति –
सर्वयोनित्वादिति ।
सर्वकारणत्वेन सर्वात्मत्वादृगादिगेष्णत्वं युक्तमेवेत्यर्थः ।
तस्मादुद्गीथ इति वाक्यं योजयति –
यत इति ।
प्राप्ते सति तस्मादुद्गीथ इत्यनेन वाक्येनोद्गीथत्वं परोक्षेण नाम्ना देवस्योच्यत इति योजना ।
किमिति परोक्षनाम्ना देवो व्यपदिश्यत इत्याशङ्क्य परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विष इति श्रुत्यन्तरमाश्रित्याऽऽह –
परोक्षप्रियत्वादिति ।
उन्नामत्वे देवस्योद्गातुरुद्गातृत्वप्रसिद्धिं प्रमाणयति –
तस्मादिति ।
तच्छब्दार्थं स्फुटयति –
यस्मादिति ।
प्रकृतस्योन्नाम्नो देवस्याऽऽगानादित्यतःशब्दार्थः । उद्गातुरुद्गातेति नामप्रसिद्धिरिति युक्तेति योजना ।
सर्वपाप्मोदयलिङ्गात्तस्य चान्यत्रासम्भवादादित्यान्तर्गतो देवः परमात्मेत्युक्तं तत्रैव हेत्वन्तरमाह –
स एष इति ।
देवकामानामादित्यादुपरितनलोकेष्वधिष्ठातारो ये देवास्तेषां कामाः काम्यमानफलविशेषास्तेषामिति यावत् । न हि निरङ्कुशं लोककामेशितृत्वं परस्मादन्यत्र सम्भवति । “एष सर्वेश्वर”(बृ.उ. ४ । ४ । २२) इति श्रुतेरिति भावः ॥ ८ ॥
इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य षष्ठः खण्डः ॥