आनन्दगिरिटीका (छान्दोग्य)
षष्ठोऽध्यायः: तृतीयः खण्डः
महाभूतानामचेतनानां ब्रह्मकार्यतोक्ता सम्प्रति जीवाविष्टानां भौतिकानामपि परम्परया ब्रह्मकार्यतैवेति वक्तुं तान्यनुवदति –
तेषामिति ।
पूर्वाध्याये येषां गत्यागती दर्शिते तृतीयं च स्थानमुक्तं तानि तच्छब्देन परामृश्यन्ते । तेषां प्रसिद्धत्वद्योतनार्थं खल्वित्युक्तम् । भूतानां त्रीण्येव बीजानि भवन्तीत्युत्तरत्र सम्बन्धः ।
भूतशब्दस्य तेजःप्रभृतिषु रूढत्वात्तेषामिह ग्रहणं किं न स्यादित्याशङ्क्याऽऽह –
एषामितीति ।
भूतानां प्रत्यक्षत्वमेषामिति निर्दिश्यते । सम्भवति च पक्ष्यादीनां प्रत्यक्षतेति तान्येवात्र भूतानि विवक्षितानि न तु तेजःप्रभृतीनि तेषां प्रत्यक्षत्वायोगादित्यर्थः ।
तेजःप्रभृतीनां प्रत्यक्षत्वायोगादेषामिति निर्देशानुपपत्तिं समर्थयते –
तेषामिति ।
तेषां प्रत्यक्षतया निर्देशासम्भवे हेत्वन्तरमाह –
देवताशब्देति ।
देवतानां परोक्षत्वप्रसिद्धेरेतेषु च देवतापदप्रयोगान्नैतेषां प्रत्यक्षत्वोपपत्तिरित्यर्थः । तस्मान्महाभूतानामत्र भूतशब्देनोपादानायोगादित्यर्थः ।
आण्डजं पक्ष्यादीत्येतत्प्रत्यक्षेणोपपादयति –
पक्षिसर्पादिभ्यो हीति ।
अन्यदपीति गोधाद्युच्यते ।
अण्डाज्जातमितिव्युत्पत्त्यनुसारेणाण्डमेव बीजं न त्वण्डजमिति शङ्कते –
नन्विति ।
पौरुषेयी व्युत्पत्तिः श्रुत्या बाध्येति परिहरति –
सत्यमित्यादिना ।
न केवलं श्रुतेरेषा व्यवस्था किन्तूपपत्तेश्चेत्याह –
दृश्यते चेति ।
सत्येवाण्डजादौ तज्जातीयमण्डजादि सन्तत्या जायते तदभावे तदभाव इत्यन्वयव्यतिरेकाभ्यामण्डजाद्यवाण्डजजातिकारणम् । यद्यप्वण्डाद्यभावे नाण्डजादि जायते तथाऽप्यण्डादिभावेऽण्डजाद्यभावेऽपि तद्भवतीति नान्वयः । तस्मादण्डजादीनामण्डजान्येव बीजानि नाण्डादीनीत्यर्थः । धानाशब्दो बीजविषयः ।
ननु स्वेदजं संशोकजमिति बीजद्वयमवशिष्यते तत्किमिति न व्युत्पाद्यते तत्राऽऽह –
स्वेदजेति ।
स्वेदमुद्भिद्य जायमानं दंशमशकादि तदुद्भिज्जेऽन्तर्भवति । संशोकादौष्ण्याज्जायमानं यूकादि तदण्डजेऽन्तर्भवति । यद्वा स्वेदजं यूकादि तदण्डजेऽन्तर्भूतं संशोकादौष्ण्याद्भूमिमुद्भिद्य जातं मशकादि तस्योद्भिज्जेऽन्तर्भावः । तथा च न तयोरस्ति पृथग्व्युत्पादनापेक्षेत्यर्थः ।
स्वेदजादेरण्डजादावन्तर्भावस्य प्रापकमाह –
एवमिति ॥१॥
जीवाविष्टानां भूतानां सत्कार्यत्वं प्रकरणप्रामाण्यादुक्तमिदानीं जीवानां विशिष्टरूपेण ब्रह्मकार्यत्वेऽपि न स्वरूपेण तत्कार्यत्वं ब्रह्मैवोपाधिप्रविष्टं जीवव्यवहारास्पदमित्यङ्गीकारात्तथा च ब्रह्मणि विज्ञाते जीवविज्ञानं सेत्स्यति जीवानां च भोगायतनानि भौतिकानि कार्याणि तेषां नामरूपनिर्माणं वक्तव्यमित्यभिप्रेत्योत्तरग्रन्थमादाय व्याकरोति –
सेयमित्यादिना ।
यथा बहु स्यामिति पूर्वमीक्षितवती तथा किमिति पुनरैक्षत प्रयोजनाभावादित्याशङ्क्याऽऽह –
ह्रदेवेति ।
इदानीं महाभूतसृष्टेरनन्तरमिति यावत् । ब्रह्मणो मायोपाधिकस्य कारणत्वान्मायोपाधिवशात्पूर्वसृष्टावनुभूतत्वं तत्संस्कारस्य बुद्धिस्थत्वं स्मरणं चेत्यादि न विरुद्धमिति द्रष्टव्यम् ।
आत्मनेतिविशेषणस्य तात्पर्यमाह –
प्राणेति ।
निर्विकल्पकचिन्मात्ररूपा देवता मायावशान्महाभूतानि सृष्ट्वा तेषु यदा प्रविष्टा तदा तदारब्धेषु सूत्रविराट्प्रभृतिषु समष्टिव्यष्ट्यात्मसु देहेषु प्रविश्य तत्तद्देहाभिमानवती देवदत्तादिनाम्ना रूपेण च शौक्ल्यादिना संबोज्य पिण्डं व्याकरोतीत्याह –
अनुप्रविश्येति ।
देवतायाः सर्वज्ञत्वादसंसारित्वात्स्वातन्त्र्याच्च सङ्कल्पप्रवेशावयुक्ताविति शङ्कते –
नन्विति ।
किं साक्षादनुप्रवेशादि विरुध्यते किं वा जीवद्वाराऽपीति विकल्प्याऽऽद्यमङ्गीकरोति –
सत्यमिति ।
साक्षादनुप्रवेशादि नास्ति चेत्तर्हि कथं तदित्याकाङ्क्षापूर्वकं द्वितीयं दूषयति –
कथमिति ।
देवताया जीवद्वारेणानुप्रवेशाद्यविरुद्धमिति शेषः ।
अविरोधमेव साधयितुं जीवस्वरूपमाह –
जीवो हीति ।
आभिमुख्येनाहमित्यापरोक्ष्येण भासत इत्याभासः स्वतोऽपरोक्षश्चित्प्रतिबिम्बस्तन्मात्रं जीवो नामेत्यर्थः ।
तस्य स्वरूपेणानादित्वेऽपि विशिष्टरूपेण सादित्वं दर्शयति –
बुद्ध्यादीति ।
बुद्ध्यादिभिर्भूतमात्रादिभिश्च चिदात्मनः संसर्गस्तेन जनितस्तत्तन्त्र इति यावत् ।
ननु चिदात्मा कूटस्थोऽसङ्गोऽद्वितीयश्चेष्यते स कथं बुद्ध्यादिभिर्भूतमात्रादिभिश्च चिदात्मनः संसृज्यते तत्राऽऽह –
अचिन्त्येति ।
सत्त्वादिप्रकारैरशक्यचिन्तनीयाऽनादिरनिर्वाच्या सम्यग्ज्ञानमन्तरेण नाशशून्या दण्डायमाना या मायाशक्तिस्तस्या विषयत्वेनाऽऽनाश्रयत्वेन च परा देवताऽवतिष्ठते । तस्याश्च स्वनिष्ठमायाशक्तिवशाद्बुद्ध्यादिभिरात्मनः सम्बन्धः सिद्ध्यतीत्यर्थः ।
बुद्ध्यादिसम्बन्धफलमाह –
चैतन्येति ।
तदाभासो जीवशब्दवाच्यः सिद्ध्यतीति शेषः ।
बुद्ध्यादिभिरात्मनः सम्बन्धे मायाशक्तिरुपादानमित्युक्तं तत्रैव निमित्तकारणमाह –
देवतेति ।
आवरणविक्षेपशक्तिसम्पन्ना हि मायाशक्तिस्ततोऽविद्योत्थदेशकालाद्यनवच्छिन्नदेवतास्वरूपोऽहमितिविशेषाग्रहणमावरणं निमित्तं कृत्वा बुद्ध्याद्यध्यासः सिद्ध्यतीत्यर्थः ।
बुद्ध्याद्यध्यासस्य कर्यान्तरं दर्शयति –
सुखेति ।
परैव तर्हि देवता संसारिणी स्यादिति चेत्सत्यमज्ञानद्वारा बुद्ध्यादिसम्बन्धमनुभूय जीवत्वं प्राप्य सैव संसरतीत्याह –
छायामात्रेणेति ।
परस्या देवतायाः स्वतःसंसाराभावं दृष्टान्तेन स्पष्टयति –
यथेत्यादिना ।
तस्याः स्वतो दुःखाद्यसम्बन्धे श्रुतिं प्रमाणयति –
सूर्य इति ।
उपाधिद्वारा तस्याः संसारित्वे च श्रुतिरस्तीत्याह –
ध्यायतीति ।
प्रतिबिम्बे छायाशब्दप्रयोगान्मिथ्यात्वमिष्टमिति मन्वानः शङ्कते –
नन्विति ।
तन्मृषात्वमिष्टमेवेत्याशङ्क्याऽऽह –
तथेति ।
जीवस्य मृषात्वे स्वीकृते सति तस्येहलोकपरलोकौ तद्धेतुर्मोक्षस्तद्धेतुश्चेति सर्वं मृषा स्यादित्यर्थः ।
विशिष्टरूपेण मिथ्यात्वेऽपि स्वरूपेण सत्यत्वाज्जीवस्य ब्रह्मास्मीतिज्ञानान्मुक्तिः सम्भवतीति समाधत्ते –
नैष दोष इति ।
यत्तु परलोकेहलोकादि मृषा स्यादिति तत्राऽऽह –
सर्वं चेति ।
कथं तर्हि तस्य मिथ्यात्वोक्तिरित्याशङ्क्याऽऽह –
स्वत इति ।
यथा प्रपञ्चो ब्रह्मात्मना सत्योऽपि स्वरूपेण मिथ्येत्युक्तं तथा जीवशब्दवाच्योऽपि ब्रह्मात्मना सत्यः स्वरूपेण मिथ्येति स्वीकर्तव्यमित्याह –
तथेति ।
अथ भोक्ता स्वरूपेणापि सत्योऽस्तु भोग्यप्रपञ्चस्यैव मिथ्यात्वमिष्यतामित्याशङ्क्याऽऽह –
यक्षानुरूपो हीति ।
लौकिकन्यायानुसारेण भोग्यप्रपञ्चस्य मिथ्यात्वे भोक्तुरपि विभक्तस्वरूपेण तत्वसिद्धिरतो जीवशब्दवाच्यस्य मिथ्यात्वेऽपि तल्लक्ष्यस्य सन्मात्रस्य सत्यत्वमिति व्यवस्थेत्यर्थः ।
यच्च तार्किकैरुच्यते प्रपञ्चस्य मिथ्यात्वे सौगतमतानुमतिः सत्यत्वे चाद्वैतव्याहतिरित्युक्तं तदप्युक्तन्यायेन निरस्तमित्याह –
अत इति ।
अद्वैतवादे दोषाभावं वैधर्म्यदृष्टान्तेन स्पष्टयति –
यथेति ॥२॥
व्याकरवाणीत्येतदन्तं वाक्यं व्याख्याय तदनूद्य तासामित्यादि व्याचष्टे –
सैवमित्यादिना ।
व्याकरवाणीत्यैक्षतेति सम्बन्धः ।
कथं पुनरिदं त्रिवृत्करणमित्याशङ्क्य प्रथममेकैकां देवतां द्विधा द्विधा विभज्य पुनरेकैकभागं द्विधा द्विधा कृत्वा तदितरभागयोर्निक्षिप्य त्रिवृत्करणं विवक्षितमित्याह –
एकैकस्या इति ।
गुणप्रधानभावानङ्गीकारे समानपरिमाणसूत्रत्रयनिर्मितरज्जुवत्त्रिवृत्करणमेकमेव स्यादित्याह –
अन्यथेति ।
एवकारार्थं दर्शयति –
न त्विति ।
गुणप्रधानभावेन त्रिवृत्करणमुपसंहर्तुमितिशब्दः ।
इतश्च गुणप्रधानभावेन त्रिवृत्करणमेष्टव्यमित्याह –
एवं हीति ।
पृथङ्नामप्रत्ययलाभेनापि किं स्यादित्याशङ्क्याऽऽह –
पृथगिति ।
सेयमित्यादि व्याचष्टे –
एवमित्यादिना ॥३॥
संक्षेपेण त्रिवृत्करणं प्रतिज्ञायोदाहरणतः स्फुटीकर्तुमारभमाणो देहे त्रिवृत्करणस्याग्रे स्फुटीकर्तव्यत्वाद्देहातिरिक्तेषु प्रथमं तदुदाहर्तुमुपक्रमते –
तिष्ठतु तावदिति ॥४॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य तृतीयः खण्डः ॥