अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

चतुर्थोऽध्यायः: त्रयोदशः खण्डः

गार्हपत्यस्य दक्षि­णा­ग्ने­श्चो­पा­स­ना­न­न्त­र्य­म­थ­श­ब्दार्थः । तत्रावान्तरभेदं दर्शयति –
य एष इति ।
सोऽह­म­स्मी­त्या­द्य­न्य­त्स­मा­न­मिति सम्बन्धः ।

यथा पूर्वं ज्योति­ष्ट्वा­वि­शे­षाद् गार्ह­प­त्या­दि­त्य­यो­र­न्वा­हा­र्य­प­च­न­च­न्द्र­म­सोश्च साम्यमुक्तं तथा ज्योति­ष्ट्व­सा­मा­न्या­द्वि­द्यु­दा­ह­व­नी­य­यो­स्ता­दा­त्म्य­मे­ष्ट­व्य­मि­त्याह –
पूर्ववदिति ।

कथं तर्हि ताभ्यां दिवाकाशयोः सम्ब­न्ध­स्त­त्राऽऽह –
दिवा(द्व्या)का­श­यो­स्त्विति ।
आहवनीयस्य फलत्वाद्दिवो विषयत्वं तत्र होमादिद्वारा निष्प­न्ना­पू­र्वस्य द्युलो­क­फ­ल­त्वा­भ्यु­प­ग­म­द्वि­द्यु­त­स्त्वा­का­शा­श्र­यत्वं प्रसिद्धमतो विद्यु­दा­ह­व­नी­य­यो­र्भो­ग्य­त्वे­नैव दिवा(द्व्या)का­शयोः सम्बन्ध इत्यर्थः । स य एत­मे­व­मि­त्या­द्य­न्य­दि­त्यु­क्तम् ॥१-२॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां चतुर्थाध्यायस्य त्रयोदशः खण्डः ॥