आनन्दगिरिटीका (छान्दोग्य)
षष्ठोऽध्यायः: सप्तमः खण्डः
अन्वयव्यतिरेकाभ्यां मनसोऽन्नरसोपचितत्वं दर्शयितुमन्नरसजनितां शक्तिं कलात्वेन कल्पयति –
अन्नस्येत्यादिना ।
षोडशदिनावच्छेदेन षोडशधा कल्पनं द्रष्टव्यम् ।
तथाऽपि पुरुषस्य कथं षोडशकलत्वमत आह –
तयेति ।
तामेव प्रकृतामन्नरसकृतां शक्तिं विशिनष्टि –
यस्यामिति ।
तया संयुक्तः पुरुषः षोडशकल इति पूर्वेण सम्बन्धः ।
अन्नरसजनितं मानसशक्तिप्रयुक्तं संघातस्य सामर्थ्यमित्यत्र वाक्यं प्रमाणयति –
वक्ष्यति चेति ।
आयो लाभोऽस्यास्तीत्यायी यावदन्नं प्राप्यात्ता भवति तावदेवास्य द्रष्टेत्यादिव्यवहारः सम्भवतीत्यर्थः ।
उक्तेऽर्थे लोकानुभवमनुकूलयति –
सर्वस्येति ।
तदेव स्पष्टयति –
मानसेनेति ।
किंच केचिन्मानसेनैव बलेन ध्यानाहारा दृश्यन्ते तच्च ध्यानमन्नपरम्परापरिनिष्पन्नमन्नस्यैव देहादिरूपेण परिणतत्वादित्याह –
ध्यानेति ।
एवं पातनिकां कृत्वा षोडशकलशब्दार्थमाह –
अत इति ।
यतोऽन्नकृतं मानसं वीर्यमतस्तदेव षोडशधा विभज्य कला यस्येति योजना । एतच्छब्देनान्नकृतं मानसं वीर्यं परामृश्यते । विच्छेत्स्यते विच्छेदमापत्स्यते यस्मात्तस्मादपः पिबेति पूर्वेण सम्बन्धः ।
अपां पानपरित्यागे प्राणविच्छेदे कारणमाह –
यस्मादिति ।
प्राणस्याम्मय्यत्वेऽपि किमित्यपां परित्यागे तस्योच्छेदस्तत्राऽऽह –
न हीति ॥१-३॥
ऋगाद्यप्रतिभानं तत्रेत्युच्यते । ईषदपि न देहात्कुतो बहु दहेदिति योजना ॥३-५॥
व्यावृत्तिर्व्यतिरेकोऽन्नोपयोगाभावे मनसः सामर्थ्याभावः । अनुवृत्तिरन्वयोऽन्नोपयोगे मनसः सामर्थ्यमिति भेदः । मनसोऽन्नमयत्वमुपपादयितुमुपक्रान्तमापोमयः प्राण इत्यादि कथमिहोच्यते तत्राऽऽह –
यथैतदिति ।
विद्यासमाप्तिमन्तरेण कथं द्विर्वचनमित्याशङ्क्याऽऽह –
द्विरभ्यास इति ॥६॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य सप्तमः खण्डः ॥