आनन्दगिरिटीका (छान्दोग्य)
अष्टमोऽध्यायः: सप्तमः खण्डः
दहरविद्यायामुपास्य स्तुत्यर्थमुक्तमनुवदति –
अथेति ।
विवेकानन्तर्यमथशब्दार्थो व्याख्यातः । शरीरात्समुत्थानं तस्मिन्नहंममाभिमानत्यागः ।
स्वरूपं विशिनष्टि –
एष इति ।
उक्तिकर्तृत्वमाचार्यस्य दर्शितमेव ।
प्राणो वा संप्रसादो विज्ञानात्मा वेति संशयात्पृच्छति –
तत्रेति ।
प्रकृतं वाक्यं सप्तम्यर्थः ।
तस्य च संप्रसादस्य परमात्मविषयं ज्ञानं केनोपायेन भवतीति प्रश्नान्तरमाह –
कथं वेति ।
किं तस्य परमात्माधिगमेनेत्याशङ्क्याऽऽह –
यथेति ।
तथा तस्याधिगमः कथमिति सम्बन्धः ।
अभिनिष्पद्यमानरूपश्चाऽऽत्मा सविशेषो निर्विशेषो वेतिप्रश्नान्तरं करोति –
येनेति ।
आत्मनो हि सच्चिदानन्दैकतानादर्थान्तराणि रूपाणि दृश्यमानानि शरीरसम्बन्धप्रयुक्तानि । तथा च ततः शरीरादुपाधेर्यदन्यत्तस्य स्वरूपं तत्कथं सर्वप्रमाणाप्रतिपन्नमस्तीति प्रश्नान्तरमाह –
सम्प्रसादस्य चेति ।
एतेषां प्रश्नानामुत्तरत्वेनोत्तरग्रन्थमवतारयति –
इत्येत इति ।
प्रजापतेरिन्द्रविरोचनयोश्च संवादरूपा याऽत्राऽख्यायिका दृश्यते सा किमर्थेत्याशङ्क्याऽह –
आख्यायिका त्विति ।
शिष्यस्य विद्याया ग्रहणे गुरोस्तस्याःसम्यक्प्रदाने च यो विधिः श्रद्धालुत्वादिप्रकारस्तत्प्रदर्शनार्थेति यावत् । यद्वा विद्याया ग्रहणं स्वीकरणं यत्र संप्रदाने तद्दानपात्रे शिष्ये दृश्यते तस्य विधिर्ब्रह्मचर्यादिस्तत्प्रदर्शनार्थेत्यर्थः ।
आख्यायिकायास्तात्पर्यान्तरमाह –
विद्येति ।
प्रजापतिना प्रोक्ता देवैरसुरैश्च प्रार्थितेन्द्रविरोचनाभ्यां देवासुराधिपतिभ्यामायासेन महता प्रेप्सिता देवराजेन च कथंचित्प्राप्ता तस्मान्महार्हेयं विद्येति तस्याः स्तुत्यर्थाऽऽख्यायिकेत्यर्थः ।
महद्भिरुपासितस्य महार्हत्वे दृष्टान्तमाह –
राजसेवितमिति ।
यन्मायोपाधि सविशेषं चैतन्यं निरुपाधि निर्विशेषमिति सविशेषनिर्विशेषयोरभेदाभिप्रायेण प्रजापतिवाक्यं व्याकर्तुमादत्ते –
य आत्मेति ।
तत्र सोऽन्वेष्टव्य इति वाक्ये सशब्दार्थमाह –
यस्येति ।
उपासनमपि किमर्थमित्यपेक्षायामाह –
उपलब्ध्यर्थमिति ।
तस्यैतत्फलमिति सम्बन्धः ।
कथं निर्गुणविद्यायाः सर्वलोककामावाप्तिः फलमित्याशङ्क्याऽऽह –
सर्वात्मतेति ।
परिच्छेदभ्रमव्यावृत्त्या पूर्णस्वरूपेणावस्थितिरित्यर्थः ।
प्रजापतिवाक्यात्प्रतीयमानविधिस्वरूपमाह –
अन्वेष्टव्य इति ।
एवकारव्यावर्त्यं दर्शयति –
नापूर्वविधिरिति ।
शब्दादेव विद्योदये तदुत्पत्त्यर्थोऽपूर्वविधिरग्निहोत्रादिविधिवन्न सम्भवतीत्यर्थः ।
कथमिह नियमविधिरपि स्यादवघातविधिवदित्याशङ्क्याऽऽह –
एवमिति ।
मिथ्याज्ञानसंस्कारप्राबल्यादनात्माभिनिवेशस्य पक्षे प्राप्तौ शास्त्राचार्याभ्यामात्मान्वेषणमेव कार्यमिति नियम इत्यर्थः ।
इतश्च नियमविधिरेव नापूर्वविधिरित्याह –
दृष्टार्थत्वादिति ।
अन्वेषणविजिज्ञासनाभ्यां ज्ञानसाधनमुक्तं तस्य च विद्याद्वाराऽविद्यानिवृत्तिर्दृष्टमेव फलमन्वयव्यतिरकाभ्यां तद्धेतुत्वावगमात्तथा च तत्र नापूर्वविधेरवकाशोऽस्तीत्यर्थः ।
तयोर्दृष्टफलत्वे वाक्यशेषमनुकूलयति –
दृष्टार्थत्वं चेति ।
कथमसकृत्प्रयुक्तेन न पश्यामीति वर्तमानापदेशेनान्वेषणादेर्दृष्टफलतेत्याशङ्क्य देहातिरिक्तात्मवादिनां वाक्योत्थज्ञानादनुमानाच्च मनुष्यत्वादिभ्रमनिवृत्तिप्रसिद्धेर्मैवमित्यभिप्रेत्याऽऽह –
पररूपेणेति ।
अन्वेषणादेर्दृष्टफलत्वे फलितमाह –
इति नियमार्थतेति ।
अपूर्वविधित्वं तद्विषयत्वमिति यावत् । इहेत्यन्वेषणादेरुक्तिरग्निहोत्रादिवदन्वेषणादेरत्यन्ताप्राप्त्यभावस्योक्तत्वादित्यर्थः॥१॥
इदानीमाख्यायिकां व्याख्यातुमाख्यायिका तु विद्याग्रहणसंप्रदानविधिप्रदर्शनार्थेत्यादिनोक्तं स्मारयति –
तद्धेति ।
अवतारिताख्यायिकाक्षराणि व्याचष्टे –
तद्धेत्यादिना ।
किमितीन्द्रविरोचनौ विद्यार्थिनावपि परिकरं परित्यज्य शरीरमात्रेण प्रजापतिं प्रगतवन्तौ तत्राऽह –
विनयेनेति ।
तयोरुक्तरूपगतिवशादेवदर्शितमर्थान्तरं कथयति –
त्रैलोक्येति ।
विद्येति दर्शयतीति पूर्वेण सम्बन्धः ।
तस्या गुरुतरत्वे हेतुमाह –
यत इति ।
सविदंमैत्रीम् ॥२॥
तमात्मानं ज्ञातुमिच्छन्ताववास्वेति वक्तव्येऽप्यवास्तमिति प्रजापतिवचोनुकर्षणमात्रमिति द्रष्टव्यम् । अथेन्द्रविरोचनयोर्मिथो वैरिणोरपि विद्यार्थित्वेन चिरमेकत्र ब्रह्मचर्यवासेन सूचितमर्थं दर्शयति –
तेनेति ॥३॥
शुद्धकल्मषौ प्रक्षालितदोषाविति यावत् । पुरुषो द्रष्टेति सम्बन्धः । अस्मदादिभिस्तत्र द्रष्टा दृष्टो नास्तीत्याशङ्क्याऽऽह –
निवृत्तेति ।
इन्द्रियाणां विषयेभ्यो वैमुख्ये हेतुमाह –
मृदितेति ।
योगिभिः समाधिनिष्ठैरन्तर्दृष्टिभिरिति यावत् ।
यआत्मेत्यादिवाक्येनास्यैकवाक्यतां दर्शयति –
एष इति ।
भूमविद्यया चास्यैकवाक्यत्वं सूचयति –
भूमाख्यमिति ।
इतिशब्दो वाक्यसमाप्त्यर्थः ।
उक्तेऽर्थे वाक्यं पातयति –
अथ योऽयमिति ।
प्रश्नार्थोऽथशब्दः । इतिशब्दः समाप्त्यर्थः ।
यश्चक्षुरुपलक्षितो द्रष्टैष एव मयोक्तोऽपहतपाप्मादिधर्मवानात्मा युवाभ्यां पुनरन्यथागृहीतमिति निपातेन सूचयन्नुक्तवान्प्रजापतिरित्याह –
एवमिति ।
प्रजापतिश्चेदेवमुक्तवान्कथं तर्हि तयोर्वैमुख्यं न निवृत्तमित्याशङ्क्याऽऽह –
एतदिति ।
यथोक्तवचोरूपं वस्त्विति यावत् ।
यत्प्रजापतिना मनसि निहितं तत्प्रकटीकर्तुं चोदयति –
नन्विति ।
शिष्टशिष्यगतं विपरीतग्रहणमाचार्येणानुज्ञातुमयुक्तमित्यङ्गीकृत्य प्रजापतेरभिप्रायमाह –
सत्यमेवमिति ।
कथं तर्हि तयोर्विपरीतग्रहणमपनेतव्यमित्याशङ्क्याऽऽह –
गृह्णीतां तावदिति ।
तावद्विपरीतमिति शेषः । चकारेण क्रियापदमनुकृष्यते ।
यद्यदाचरति श्रेष्ठ इति न्यायेन सर्वेषां मृषावादित्वं स्यादिति शङ्कते –
नन्विति ।
प्राजापत्यमभिप्रायमेव प्रकटयन्नतिप्रसङ्गं परिहर्तुं तदीयमनृतवादित्वं दूषयति –
न चेति ।
तदेवाऽऽकाङ्क्षापूर्वकं स्फुटयति –
कथमित्यादिना ।
शिष्याभ्यां गृहीतो योऽयमात्मा ततः सकाशादात्मना स्वेनैव प्रजापतिनोक्तो योऽस्त्यक्ष्युपलक्षितो द्रष्टा समनसि प्रजापतेः सन्निहिततरोऽतः स एव तेनोक्त इत्यर्थः ।
इतश्च द्रष्टा प्रजापतेर्मनसि सन्निहिततर इत्याह –
सर्वेषां चेति ।
प्रजापतेर्मनसि द्रष्टुः सन्निहितत्वेऽपि कथं तस्य न मृषावादित्वमत आह –
तमेवेति ।
इतश्च प्रजापतेर्नमृषावादित्वमित्याह –
तथा चेति ॥४॥
॥ इति श्रीमदानन्दगिरिटीकायामष्टमाध्यायस्य सप्तमः खण्डः॥