अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

तृतीयोऽध्यायः: सप्तमः खण्डः

प्रथ­म­म­मृ­त­म­धि­कृत्य चिन्त­नी­य­मुक्त्वा द्विती­य­म­मृ­त­मा­श्रित्य तद्दर्शयति –
अथेति ॥१-३॥

विद्याफलं कथयति –
स यावदिति ।
यावद्वसूनां भोगकालस्ततो द्विगुणो रुद्राणां भोगकालः । यथा प्रथ­मा­मृ­त­ध्या­यिनां वसुभिस्तुल्यो भोगकालस्तथा द्विती­या­मृ­त­ध्या­यि­ना­मपि रुद्रैस्तुल्यो भोगकाल इत्यर्थः ॥४॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां तृतीयाध्यायस्य सप्तमः खण्डः ॥