अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

षष्ठोऽध्यायः: पञ्चदशः खण्डः

नन्वेष संसारिणो मरणक्रमो नतु विदुषः सत्स­म्प­त्ति­क्र­म­स्त­यो­र्वि­शे­षस्य वक्तव्यत्वादत आह –
संसारिण इति ।
करणोपरमे तेजः­स­ह­च­रि­त­भू­त­सू­क्ष्मो­प­सं­हारे च विशे­ष­वि­ज्ञा­ना­भावः समान एव विद्व­द­वि­दु­षो­रि­त्यर्थः ।

कस्तर्हि तयो­र्वि­शे­ष­स्त­त्राऽऽह –
अविद्वानिति ।
सत­स्त­स्मा­द­ज्ञा­ता­त्स­दा­त्मनः सकाशादिति यावत् ।

एक­दे­शि­म­त­मु­त्थाप्य प्रत्याचष्टे –
अन्ये त्विति ।

भवतु विदुषोऽपि तद­भि­स­न्धि­पू­र्वकं गम­न­मि­त्या­श­ङ्क्याऽऽह –
न हीति ।
आदिशब्देन गत्यागती गृह्येते ।

सद्विज्ञानवतो गमनयोगे हेत्वन्तरमाह –
अविद्येति ।

विदु­षोऽ­वि­द्या­का­म­क­र्म­णा­म­भावे प्रमाणमाह –
पर्या­प्त­का­म­स्येति ।

ननु कामप्रविलय एवात्र श्रूयते नावि­द्या­का­म­क­र्म­नि­र्मो­क­स्त­त्राऽऽह –
नदीति ।
यथा नद्यो गङ्गाद्या नामरूपे विहाय समुद्रं प्रविशन्ति तथा विद्वान्नामरुपे हित्वा परं पुरु­ष­मु­पै­ती­ति­दृ­ष्टा­न्त­पू­र्वि­कायाः श्रुते­र्ना­म­रू­प­बी­जा­व­स्था­वि­द्याया लयो गम्यते न चावि­द्या­का­म­यो­र­भावे कर्मो­प­प­त्ति­स्त­स्मान्न विदुषो गतिपुर्विका सत्स­म्प­त्ति­रि­त्यर्थः ॥२॥

विमतः सत्सम्पन्नः पुन­रा­वृ­त्ति­म­र्हति सत्स­म्प­न्न­त्वा­न्म­र­ण­काले सत्स­म्प­न्न­व­द्वि­मतो वा विशे­ष­वि­ज्ञा­ना­भावो नाऽऽत्यन्तिको विशे­ष­वि­ज्ञा­ना­भा­व­त्वा­न्म­र­ण­का­ली­न­वि­शे­ष­वि­ज्ञा­ना­भा­व­व­दि­त्य­नु­मा­ना­द्वि­द्व­द­वि­दु­षो­र­वि­शेषं मन्वानः शङ्कते –
यदीति ।

तत्रा­नृ­ता­भि­स­न्धत्वं तादृ­ग­भि­स­न्धि­म­न्नि­ष्ठत्वं वोपा­धि­रि­त्य­नु­मा­न­द्वयं दूषयितुमुत्तरं ग्रन्थ­मु­त्था­प­यति –
तथेति ॥३॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां षष्ठाध्यायस्य पञ्चदशः खण्डः ॥