आनन्दगिरिटीका (छान्दोग्य)
षष्ठोऽध्यायः: पञ्चदशः खण्डः
नन्वेष संसारिणो मरणक्रमो नतु विदुषः सत्सम्पत्तिक्रमस्तयोर्विशेषस्य वक्तव्यत्वादत आह –
संसारिण इति ।
करणोपरमे तेजःसहचरितभूतसूक्ष्मोपसंहारे च विशेषविज्ञानाभावः समान एव विद्वदविदुषोरित्यर्थः ।
कस्तर्हि तयोर्विशेषस्तत्राऽऽह –
अविद्वानिति ।
सतस्तस्मादज्ञातात्सदात्मनः सकाशादिति यावत् ।
एकदेशिमतमुत्थाप्य प्रत्याचष्टे –
अन्ये त्विति ।
भवतु विदुषोऽपि तदभिसन्धिपूर्वकं गमनमित्याशङ्क्याऽऽह –
न हीति ।
आदिशब्देन गत्यागती गृह्येते ।
सद्विज्ञानवतो गमनयोगे हेत्वन्तरमाह –
अविद्येति ।
विदुषोऽविद्याकामकर्मणामभावे प्रमाणमाह –
पर्याप्तकामस्येति ।
ननु कामप्रविलय एवात्र श्रूयते नाविद्याकामकर्मनिर्मोकस्तत्राऽऽह –
नदीति ।
यथा नद्यो गङ्गाद्या नामरूपे विहाय समुद्रं प्रविशन्ति तथा विद्वान्नामरुपे हित्वा परं पुरुषमुपैतीतिदृष्टान्तपूर्विकायाः श्रुतेर्नामरूपबीजावस्थाविद्याया लयो गम्यते न चाविद्याकामयोरभावे कर्मोपपत्तिस्तस्मान्न विदुषो गतिपुर्विका सत्सम्पत्तिरित्यर्थः ॥२॥
विमतः सत्सम्पन्नः पुनरावृत्तिमर्हति सत्सम्पन्नत्वान्मरणकाले सत्सम्पन्नवद्विमतो वा विशेषविज्ञानाभावो नाऽऽत्यन्तिको विशेषविज्ञानाभावत्वान्मरणकालीनविशेषविज्ञानाभाववदित्यनुमानाद्विद्वदविदुषोरविशेषं मन्वानः शङ्कते –
यदीति ।
तत्रानृताभिसन्धत्वं तादृगभिसन्धिमन्निष्ठत्वं वोपाधिरित्यनुमानद्वयं दूषयितुमुत्तरं ग्रन्थमुत्थापयति –
तथेति ॥३॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य पञ्चदशः खण्डः ॥