आनन्दगिरिटीका (छान्दोग्य)
पञ्चमोऽध्यायः: अष्टादशः खण्डः
उद्दालकान्तेषु विद्यार्थिषूपसन्नेषु सामस्त्येन वैश्वानरविद्यां वक्तुकामस्तेषां मिथ्याज्ञानमनुवदति –
तानित्यादिना ।
अनर्थकाविवानर्थकौ निपातौ न त्वनर्थकावेव । तेषां मिथ्याज्ञानित्वप्रसिद्धिस्मारकत्वात् । यूयमित्यन्वयार्थं प्रागुक्तमपि पाठक्रमेण पुनरनूद्य पृथगिव विद्वांस इति सम्बन्धः । ये जात्यन्धा हस्तिदर्शने भिन्नदृष्टयो भवन्ति तथा यूयं वैश्वानरमात्मानमेकमपि सर्वात्मकं सन्तं भिन्नमिव विद्वांसः परिच्छिन्नात्तृरूपेणाऽऽत्मानं बुद्धवन्तः । तथा च मिथ्यादर्शिनो यूयं प्रागेव प्रत्यवायान्मामागतवन्तः साधु कृतवन्त इत्यर्थः ।
प्रधानविद्यां वक्तुं पातनिकां कृत्वा तामिदानीमुपदिशति –
यस्त्वित्यादिना ।
एतमेवंभूतं यस्तूपास्ते स सर्वेष्वन्नमत्तीति सम्बन्धः ।
एवंशब्दार्थमाह –
यथोक्तेति ।
एकं समस्तं त्रैलोक्यात्मकमिति यावत् ।
प्रादेशमात्रमित्येतद्विभजते –
प्रादेशैरिति ।
यथोक्तैराधिदैविकैरवयवैरध्यात्मं प्रत्यगात्मन्येवायं मीयत इति व्युत्पत्त्या प्रादेशमात्रस्तमिति यावत् ।
प्रकारान्तरेण व्याचष्टे –
मुखादिषु वेति ।
तेषु हि प्रदेशेष्वयमत्तृत्वेन साक्षितया मीयत इति व्युत्पत्त्या तथोच्यत इत्यर्थः ।
विधान्तरेण व्याचष्टे -
द्युलोकादीति ।
अर्थान्तरमाह –
प्रकर्षेणेति ।
आमनन्ति चैनमस्मिन्निति न्यायेन पक्षान्तरमाह शाखान्तरेत्विति ।
अस्तु तर्हि जाबालश्रुत्यनुसारेण मूर्धानामारभ्याधारफलकपर्यन्ते देहावयवे सम्पादितो वैश्वानरःप्रादेशमात्रव्याचष्टे –
प्रत्यगात्मतयेति ।
सर्वेश्वरत्वं सर्वात्मत्वं सर्वप्रत्यक्षत्वं वा हेतूकृत्य वैश्वानरशब्दमनेकधा व्याकरोति –
विश्वानित्यादिना ।
ईश्वरो वैश्वानर इत्यत्र वैश्वानरपदमुभयत्र संबध्यते । स वैश्वानरविदन्नमदन्सर्वेषु लोकादिषु स्थित्वाऽऽन्नमत्तीति सम्बन्धः ।
कथमात्मशब्देन शरीरादयो गृह्यन्ते तत्राऽऽह –
तेषु हीति ।
सर्वेषु लोकेष्वित्यादिवाक्यस्य तात्पर्यार्थं दर्शयति –
वैश्वानरविदिति ॥१॥
वैश्वानरोपासकः सर्वात्मा सन्नन्नमत्तीत्येवं कस्माद्धेतोर्निश्चितमित्याशङ्कामनूद्य हेतुप्रदर्शनपरत्वेनोत्तरत्वेनोत्तरं वाक्यमुपादत्ते –
कस्मादित्यादिना ।
वैश्वानरस्य सर्वात्मत्वात्तदुपासकस्यापि तदात्मतया सर्वात्मत्वादसौ सर्वात्मा भूत्वा सर्वत्रान्नमत्तीति युक्तमित्यर्थः ।
तस्येत्यादिवाक्यस्य तात्पर्यान्तरमाह –
अथ वेति ।
प्रधानविद्यामुक्त्वा तदङ्गप्राणाग्निहोत्रं दर्शयितुकामो भूमिकां करोति –
अथेति ।
संपादयितुमिच्छन्नादौ तदङ्गान्यश्वपतिराहेत्यर्थः । वेदिरिति स्थण्डिलमात्रं गृह्यते । अग्निहोत्रे तावन्मात्रस्योपयुक्तत्वादितरस्य दर्शपूर्णमासाद्यङ्गत्वात् । वेद्यामास्तीर्यन्ते ये दर्भा[स्ते] बर्हिःशब्देनोच्यन्ते । हृदयस्य गार्हपत्यत्वं मनःप्रणयनहेतुत्वात्, प्रणीतमुत्पन्नमिवेत्यर्थः ।
आहवनीयसादृश्यं च मुखस्य दर्शयति –
आहवनीय इति ॥२॥
इति श्रीमदानन्दगिरिटीकायां पञ्चमाध्यायस्याष्टादशः खण्डः ॥