अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

चतुर्थोऽध्यायः: तृतीयः खण्डः

कथं विद्या­मु­क्त­वा­नि­त्या­श­ङ्क्या­धि­दै­वतं तदुक्तिप्रकारं दर्शयति –
वायुरित्यादिना ।

प्राणो वाव संवर्ग इति वक्ष्य­मा­णे­ना­पु­न­रु­क्त­तायै वायुं व्याचष्टे –
वायुर्बाह्य इति ।
संव­र्ज­ना­दि­त्यस्य व्याख्या संग्रहणादिति ।

संग्रहणपक्षं समर्थयते –
वक्ष्यमाणा इति ।

किमिति संवर्गत्वं वायोरुपदिश्यते तत्र दृष्टा­न्त­श्रुतिं प्रमाणयति –
कृतायेति ।

संग्र­स­ना­द्वे­त्युक्तं पक्ष­मा­का­ङ्क्षा­पू­र्वकं व्युत्पादयति –
कथमित्यादिना ।

सूर्या­च­न्द्र­म­सो­र्वा­या­व­पि­ग­म­न­मा­क्षि­पति –
नन्विति ।
आप्र­ल­या­त्त­यो­र­धि­का­र­पदे स्थित्य­ङ्गी­का­रा­त्स्व­रू­पा­व­स्थि­तत्वं द्रष्टव्यम् ।

सूर्यादेः स्वरू­पा­व­स्था­नेऽपि वायावप्ययः सम्भवतीति समाधत्ते –
नैष दोष इति ।

अस्तमने सति सूर्या­दे­र­द­र्श­न­प्रा­प्ते­र्वा­य्व­धी­नत्वं व्युत्पादयति –
वायुना हीति ।
सूर्यग्रहणं चन्द्र­म­सोऽ­प्यु­प­ल­क्ष­णम् ।

गौणस्तर्हि वायावप्ययः सूर्या­दे­रि­त्या­शङ्क्य पक्षान्तरमाह –
अथवेति ।
सङ्गतिसमये हि संहरति वेत्यर्थः ॥१ – २॥

कथं प्राणस्य संव­र्ग­त्व­मि­त्या­श­ङ्क्याऽऽह –
स पुरुष इति ।
तस्मात्संवर्ग इत्यध्यात्ममिति शेषः ॥३॥

वायु­प्रा­णा­व­धि­दै­व­ता­ध्या­त्म­भे­देन संव­र्ग­गु­णा­वु­क्ता­वु­प­सं­ह­रति –
ताविति ॥४॥

अथ हेत्या­द्य­न­न्त­र­वाक्यं व्याचष्टे –
अथैतयोरिति ।
ब्रह्म­वि­च्छौण्डो ब्रह्मविदां मध्ये शूरमात्मानं मन्यमान इति यावत् । बुद्ध्वा लिङ्गविशेषेणेति शेषः ।

जिज्ञा­स­मा­ना­वि­त्यु­क्त­मेव व्यनक्ति –
किमयमिति ॥५॥

चतुर इति द्विती­या­ब­हु­व­च­न­द­र्श­ना­न्म­हा­त्मन इति तादृगेवेत्याह –
द्वितीयेति ।

यद्वा महात्मन इत्यस्य पञ्चम्यादौ चतुर इत्यस्य च समीचीने प्रयोगदर्शनादिह तथा मा भूदिति मत्वाऽऽह –
महात्मन इति ।
अतो हि जगारेति सम्बन्धः ।

कः शब्दः प्रजापतिविषयो व्याख्यातः । सम्प्रति पक्षान्तरमाह –
कः स इति ।
यस्ताञ्जगार स कः स्यादिति प्रश्नमेके वदन्तीत्यर्थः ।

अत्तारं प्राणमात्मानं चैकत्वेन पश्य­न्ब्र­ह्म­चारी मह्यं भिक्षां यन्न ददतुर्भवन्तौ तत्तस्मै देवायैव न दद­तु­रि­त्य­ज्ञ­त्व­मेव तयोर्दर्शयन्नाह –
यस्मा इति ॥६॥

दर्शनमेव प्रश्नद्वारा विशदयति –
कथमित्यादिना ।
अधि­दै­व­त­म­ग्न्या­दीनां वायुरूपेण जनितेति सम्बन्धः ।

तस्य प्राथमिकं [कत्वं] कृत्वा दर्शयति –
आत्मनीति ।
अग्न्या­दी­न्प्र­ल­य­काले देवः स्वात्मनि वायुरूपेण ग्रसित्वा पुन­रु­त्प­त्त्य­व­स्था­या­मु­त्पा­द­यि­तेति योजना ।

अध्यात्मं वागादीनपि स्वापावस्थायां स्वात्मनि प्राणरूपे संहृत्य पुनः प्रबोधावस्थायां तेषामुत्पादयिता देवः प्राण­रू­पे­णे­त्याह –
अध्यात्मं चेति ।

देवा­ना­म­ग्न्या­दीनां प्रजानां वागादीनां च जनितेत्युक्तं सम्प्रति व्याख्यान्तरमाह –
अथ वेति ।
अभग्नदंष्ट्रः सर्वसंहर्तुरपि च काचन ग्लानि­र्भ­व­ती­त्यर्थः ।

प्रजा­प­ते­र्म­हि­म्नोऽ­ति­प्र­मा­णत्वं प्रकटयति –
यस्मादिति ।
इति­श­ब्दा­त्प­र­स्ता­द्य­च्छ­ब्दस्य सम्बन्धः तदर्थश्च यस्मा­दि­त्यु­क्त­स्त­स्मा­त्प्र­जा­प­ते­र्म­हि­मा­न­म­ति­प्र­मा­ण­मा­हु­रिति पूर्वेण सम्बन्धः ।

वै वयमित्यादिभागं पद­च्छे­द­पू­र्व­क­मा­दाय व्याचष्टे –
वयमित्यादिना ।

क्रियापदेन वयमित्यस्य सम्ब­न्ध­मु­क्त­मु­प­पा­द­यति –
वयमिति ।

ब्रह्म­चा­रि­न्निदं वयमा समन्तादुपास्महे ब्रह्मे­त्युक्त्वा प्रकारान्तरेण पदच्छेदपूर्वकं व्याख्या­ना­न्त­र­माह –
अन्ये नेति ।

शौन­क­स्या­भि­प्र­ता­रि­णश्च ज्ञानातिशयं दर्शयित्वा यतिश्च ब्रह्मचारी चेत्या­दि­स्मृ­ति­म­नु­सृ­त्याऽऽह –
दत्तेति ॥७॥

आख्यायिकाद्वारा प्रकृतायां संव­र्ग­वि­द्या­या­मात्मा देव­ना­मि­त्या­दि­गु­ण­जा­त­मु­प­दिश्य गुणा­न्त­र­मु­प­दे­ष्टु­म­न­न्त­र­वा­क्य­म­व­ता­र­यति –
ते वा इति ।

तद्व्याचष्टे –
ये ग्रस्यन्त इति ।
त एते वागादिभ्यः सकाशादन्ये पञ्चेति सम्बन्धः ।

अधि­दै­व­त­म­ग्न्या­दी­न्वा­यु­स­हि­ता­न्प­ञ्चोक्त्वा तेनैव प्रका­रे­णा­ध्या­त्म­मपि तेभ्यः सकाशादन्ये प्राणसहिता वागादयः पञ्च सन्तीत्याह –
तथेति ।

अवा­न्त­र­सं­ख्या­वि­नि­वे­श­मुक्त्वा तत्रैव महासंख्यानिवेशं दर्शयति –
ते सर्व इति ।
दश­सं­ख्या­स­म्ब­न्धा­त्तेषां संख्ययेति ।

कृतायोपलक्षितं द्यूतं कृतमित्युच्यते । तत्र दश­सं­ख्या­व­त्त्वस्य वक्तव्यत्वादिति द्रष्टव्यम् । यदु­क्त­म­ग्न्या­दयो वागादयश्च दश सन्तस्तत्कृतं भवतीति तदुपपादयति –
चतुरङ्क इत्यादिना ।
एकस्तावदयो द्यूते चतुरङ्को दृश्यते तद्वदग्न्यादयो वागादयश्च ग्रस्य­मा­ना­श्च­त्वारो भवन्ति । यथा च द्यूते त्रेता­ना­म­कोऽ­य­स्त्र्यङ्को गृह्यते तथाऽग्न्यादयो वागा­द­य­श्चै­कै­क­न्यू­ना­स्त्रयः । तथा च द्वापरनामायो द्व्यङ्को जायते तद्व­द्वा­गा­दि­ष्व­ग्न्या­दिषु च द्वौ द्वौ वर्जयित्वा द्वौ द्वौ भवतः । तथा च तत्र कलिसंज्ञायो भवत्येकाङ्कः योऽग्न्यादीनां ग्रसिता वायुर्वागादीनां ग्रसिता प्राण­श्चै­क­स्तेभ्यो ग्रस्य­मा­ने­भ्योऽन्य इत्येवं ग्रसितृत्वेन ग्रस्यमानत्वेन च दश सन्तस्ते पूर्वोक्तं कृतं भवतीत्यर्थः ।

द्यूतस्य सर्वा­न्ना­त्तृ­त्व­प्र­सिद्ध्या दशसंख्यावतां देवानां कृत­त्व­स­म्पा­द­ने­ना­त्तृत्वं सम्पादितम् । इदानीं दश­सं­ख्या­व­त्त्वे­नैव विरा­ट्त्व­स­म्पा­द­नेन तेषामन्नत्वं सम्पादयति –
यत इति ।

अग्न्यादिषु वागादिषु च मिलितेषु दश­सं­ख्या­व­त्त्वेऽपि कथमनेन तद्वत्त्वं तथा च कथं संख्यासामान्यं तेषा­म­न्न­सं­ख्या­सा­मा­न्य­स­म्पा­द­न­मि­त्या­श­ङ्क्याऽऽह –
दशाक्षरेति ।

विरा­ड्द­श­सं­ख्या­वती प्रसिद्धा सा चान्नमिति श्रूयते, तथा च यथो­क्ते­ष्व­ग्न्या­दिषु वागादिषु च समुदितेषु संख्या­सा­मा­न्या­द्वि­राट्त्वं सम्पा­द्या­न्न­त्व­स­म्पा­दनं सुशकमित्याह –
अत इति ।

तेषु कृत­त्वे­नान्न(त्तृ?)त्वं सम्पा­दि­त­मु­प­सं­ह­रति –
तत एवेति ।
द्यूत­स्या­य­च­तु­ष्ट­य­वि­शि­ष्ट­त्वेन कृतोपलक्षितेन तत्र दशसंख्यायाः सत्त्वात्तत एव संख्या­सा­मा­न्या­द­ग्न्या­द­यश्च कृतं भवति ततश्च तेषा­म­त्तृ­त्व­मि­त्यु­क्त­मि­त्यर्थः ।

सम्प्रति प्रकृ­ते­ष्व­ग्न्या­दिषु विरा­ट्त्व­म­न्न­त्व­मिति त्रयमुपसंहरति –
सैषेति ।
विराजो विधे­य­त्वा­त्त­स्याश्च स्त्रीलिङ्गतया सैषेति विधेयलिङ्गभजनम् । त एते प्रकृता देवा विरा­डि­त्य­व­ग­न्तव्याः । सा च दशदेवतात्मिका दशसंख्यावती भवत्यन्नमिति देव­ता­ना­म­न्न­त्व­सिद्धिः । अन्नादीत्यस्य विराजा सम्ब­न्धा­द­न्ना­दि­नीति व्याख्यानम् । ततश्च देवतात्मिका विरा­ट्कृ­त­त्वे­ना­न्ना­दि­नीति तदा­त्म­का­ना­म­ग्न्या­दी­ना­म­प्य­त्तृ­त्व­सि­द्धि­रि­त्यर्थः ।

विरा­ट्त्वे­ना­न्नत्वं कृत­त्वे­ना­त्तृत्वं चेति सम्प­त्ति­द्व­य­म­ग्न्यादौ दर्शितमुपसंहरति –
कृते हीति ।
कृतोपलक्षिते द्यूते दश­सं­ख्याऽ­न्त­र्भूता प्रसिद्धा । सा चाग्न्यादौ दर्शिता । तथा च संख्या­सा­मा­न्या­द्द्यू­त­ग­त­म­त्तृ­त्व­म­ग्न्या­दिषु सम्पाद्यते तेनेदं दश­क­म­न्ना­दी­त्यु­च्यते विराड् वेदे दश­सं­ख्या­व­ती­त्यु­क्तम् । सा चान्नं , विरा­ड­न्न­मि­त्यु­क्त­त्वात् । ततश्च विरा­ट्स­म्पत्त्या भवति प्रकृतं दश­क­म­न्न­मि­त्यर्थः ।

सगुणं संव­र्ग­द­र्श­न­मुक्त्वा तत्फलं वक्तुं विद्वत्स्वरूपं सङ्गिरते –
तथेति ।
यथाऽग्न्यादीनां विरा­ट्त्वे­ना­न्नत्वं कृतत्वेन चान्नादत्वं तथा वायु­म­ग्न्या­द्या­त्मकं प्राणं च वागा­द्या­त्म­क­मे­की­कृ­त्याऽऽ­त्म­त्वेन विद्वा­न्द­श­दे­व­ता­स्व­रू­प­भूतः सन्दशसंख्याया विरा­ट्त्वे­नान्नं कृतशब्दितयुगं तद्ग­त­द­श­सं­ख्या­व­च्छि­न्न­तया कृतत्वेनान्नादी भवतीत्यर्थः ।

फलो­क्त्यु­प­यो­गि­त्वे­ना­र्था­न्त­र­माह –
तयेति ।
कृतो­प­ल­क्षि­त­द्यू­त­स्थ­सं­ख्या­व­च्छि­न्न­त्वे­ना­व­स्थि­त­याऽऽ­न्न­त्वे­ना­न्ना­दि­त्वेन व्यवस्थितया सर्वमिदं जगद्दशसु दिक्षु संस्थितं दृष्टमुपलब्धं भवति । न हि देवतादशकं हित्वा जगन्नाम किञ्चिदस्ति । तथा च दृष्टे देवतादशके दृष्टमेव सर्वं जग­द्भ­वे­दि­त्यर्थः ।

भूमिकामेवं कृत्वा फलं दर्शयति –
एवंविद इति ।
वायुं प्राण­म­त्ता­र­मा­त्म­त्वेन पश्यतः कृत­सं­ख्या­व­च्छि­न्न­तया स्थितस्य दशदेवताभूतस्य सर्वं जगद्दृष्टं भवति । दृष्ट­दे­व­ता­ति­रि­क्तस्य जग­तोऽ­भा­वा­दि­त्यर्थः । यो यथोक्तदर्शी प्राणो भूत्वा सर्व­त्रा­न्ना­दश्च भवतीति फलान्तरम् ॥८॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां चतुर्थाध्यायस्य तृतीयः खण्डः ॥