आनन्दगिरिटीका (छान्दोग्य)
प्रथमोऽध्यायः: नवमः खण्डः
आकाशशब्दस्य भूताकाशविषयत्वं व्यावर्त्यं परमात्मविषयत्वं वाक्यशेषवशाद्दर्शयति –
आकाश इति चेति ।
किञ्च परस्याऽऽत्मनः सर्वभूतोत्पादकत्वं कर्मेति वेदान्तमर्यादा, तदिहाऽऽकाशे श्रुतं तथा च परमात्मैवाऽऽकाशशब्द इत्याह –
तस्य हीति ।
किञ्च परस्मिन्नेव भूतानां प्रलयः स चात्राऽऽकाशे श्रुतस्तस्मात्पर एवाऽऽत्माऽऽकाश इत्याह –
तस्मिन्नेवेति ।
सर्वोत्पादकत्वं परस्य कर्मेत्यत्र मानमाह –
तत्तेजोऽसृजतेति ।
परस्मिन्नेव लयो भूतानामित्यत्रापि मानमाह –
तेज इति ।
भवतु परस्याऽऽत्मनः सर्वोत्पादकत्वं कर्म तथाऽपि किमायातमाकाशस्येति चेत्तत्राऽऽह –
सर्वाणीति ।
कथमयं क्रमो लभ्यते ।
अविशेषेण हि ततः सर्वोत्पत्तिः श्रुतेत्याशङ्क्याऽऽह –
सामर्थ्यादिति ।
आत्मन आकाशः सम्भूतस्तत्तेजोऽसृजतेत्यादिश्रुतिबलादित्यर्थः ।
तथाऽपि कथमाकाशे सर्वभूतलयस्तत्राऽऽह –
आकाशं प्रतीति ।
विपर्ययेण तु क्रमोऽत इति न्यायेनाऽह –
विपरीतेति ।
आकाशस्य परमात्मत्वे हेत्वन्तरमाह –
यस्मादिति ।
परायणत्वमपि तत्रैव लिङ्गमित्याह –
अत इति ॥ १ ॥
आकाशस्तल्लिङ्गादिति न्यायेनाऽऽकाशस्य परमात्मत्वमुक्तमिदानीं तस्योद्गीथे सम्पादितस्य परोवरीयस्त्वं गुणमुपदिशति –
यस्मादिति ।
उत्तरमुत्तरं श्रेष्ठादपि श्रेष्ठोऽयमित्येतत् ।
साममात्रस्य कथमयं गुणः स्यादित्याशङ्क्याऽऽह –
परमात्मेति ।
आकाशस्य परमात्मत्वे लिङ्गान्तरमाह –
अत एवेति ।
परमात्मसम्पन्नत्वादिति यावत् । आकाशो हि प्रकृतोद्गीथे सम्पादितोऽनन्तः श्रुतः । न चाऽऽनन्त्यं ब्रह्मणोऽन्यत्र युक्तम् । सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतेः । तस्मादाकाशो ब्रह्मेत्यर्थः ।
संप्रत्याकाशशब्दितस्य परस्योद्गीथे सम्पादितस्य परोवरीयस्त्वगुणविशिष्टस्योपास्तिं विदधाति –
तमेतमिति ।
परं परमुपर्युपरीति यावत् । तस्मादेवमुपासीतेति भावः ॥ २ ॥
विधिशेषमर्थवादं दर्शयति –
किञ्चेति ।
इतश्चात्र विधिरस्तीत्येतत् । तेभ्यस्तत्सन्ततिजा ये यथोक्तोद्गीथवेदितारस्तदर्थमित्यर्थः ॥ ३ ॥
तथा दृष्टविशिष्टतरजीवनवदित्यर्थः । अदृष्टेऽपीति च्छेदः । स य एतमित्याद्युत्तरं वाक्यं शङ्कोत्तरत्वेनोत्थ्याप्य व्याचष्टे –
स्यादित्यादिना ।
अस्मिन्युगे भवन्तीत्यैदंयुगीनास्तेषामैदंयुगीनानां लोकः परोवरीयानिति शेषः । पुनरुक्तिरुद्गीथोपास्तिसमाप्त्यर्था ॥ ४ ॥
इति श्रीमदानन्दगिरिटीकायां प्रथमाध्यायस्य नवमः खण्डः ॥