अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

पञ्चमोऽध्यायः: तृतीयः खण्डः

प्राणविद्या तदङ्गकर्म चेत्यु­भ­य­मु­क्त­मि­दा­नी­म­ग्नि­वि­द्या­मा­ख्या­तु­का­म­स्ता­व­दा­ख्या­यि­का­ता­त्प­र्य­माह –
ब्रह्मादीति ।

तासां च वक्तव्यत्वे हेतुमाह –
वैराग्यहेतोरिति ।
राजा कुमारेति सम्बो­ध­य­न्न­भि­मानं श्वेत­के­तो­र­प­नि­नी­षति ॥१॥

यथे­त्य­स्या­र्थ­माह –
येनेति ।
विद्व­द­वि­दु­षो­स्तु­ल्य­मा­र्गयोः सतोर्द्वा मार्गौ तयोर्मध्ये देव­या­न­स्ये­त्यादि योज्यम् ।

उक्तं वाक्यार्थं संक्षिपति –
इतरेतरेति ।
विदुषां च कर्मिणां च मार्ग­द्व­य­म­धि­कृत्य सह प्रस्थितानां यत्र मिथो वियोगो भवति तत्किं वेत्थेत्यर्थः ॥२॥

पितृ­लो­क­स­म्ब­न्धिनं लोकमेव व्याकरोति –
यं प्राप्येति ।
आहुतिनिर्वृत्ता इत्यस्य व्याख्या­न­मा­हु­ति­सा­ध­ना­श्चेति । अपू­र्व­रू­पा­णा­मपां भूता­न्त­र­स­मु­च्च­या­र्थ­श्च­कारः । अथवा पयो­घृ­ता­दि­रू­पे­णाऽऽ­हुतिं साधयन्तीति चाऽऽहुत्या पुनरपूर्वात्मना निष्पन्ना इत्यर्थः ।

क्रमेणेति ।
श्रद्धा­सो­म­वृ­ष्ट्य­न्न­रे­तसां हवनद्वारेणेति यावत् । षष्ठा­हु­ति­भू­ता­ना­म­न्त्ये­ष्टि­वि­धा­नेन शरीराहुतिद्वारा सूक्ष्मतां गतानामित्यर्थः ॥३॥

त्वत्पृ­ष्टा­र्थ­जा­ता­ति­रि­क्त­वि­ष­य­म­नु­शा­सनं ममा­स्ती­त्य­नु­शि­ष्टोऽ­स्मी­त्यु­क्त­मि­त्या­श­ङ्क्याऽऽह –
यो हीति ॥४॥

अननुशिष्य त्वामन्वशिषमिति कथ­मु­क्त­वा­न­स्मी­त्या­श­ङ्क्याऽऽह –
यत इति ।
नैक­ञ्च­ने­त्यु­क्त­मेव नञ्पदं नाशकमिति सम्बन्धं दर्शयितुं पुनरुपात्तम् । अतो मां प्रति तव मिथ्यावादिता सिद्धेति शेषः ।

पिता स्वकी­य­मि­थ्या­वा­दि­त्व­शङ्कां परिहरति –
स होवाचेति ।

यथा मा त्वमि­त्या­दि­वाक्यं पूरयित्वा व्याख्या­या­न­न्त­र­वा­क्य­मा­का­ङ्क्षा­पू­र्व­क­मु­त्था­प­यति –
कथमित्यादिना ।

तद्व्याचष्टे -
यथेति ।
अज्ञा­ना­वि­शे­षोऽ­तः­श­ब्दार्थः । अन्यथाभावो ज्ञातेऽपि विषये तावनुक्तिरिति यावत् ।

त्वदीयमज्ञानं कुतो हेतोर्मया ज्ञात­व्य­मि­त्या­श­ङ्का­मु­द्भा­व्या­न­न्त­र­वा­क्ये­नो­त्त­र­माह –
कुत इत्यादिना ।
अतस्तव पात्र­भू­त­स्या­नु­प­दे­शा­न्म­दी­य­म­ज्ञानं ज्ञातव्यमिति शेषः । अर्हणां योग्यां पूजामित्यर्थः । सभागपदं सप्तम्यन्तं राजविषयं प्रथमान्तं गौतमविषयमिति भेदः ।

गौतममागतं योगक्षेमार्थिनं बुद्ध्वा राजा प्रसन्नः सन्नु­क्त­वा­नि­त्याह –
तं होवाचेति ।

तर्हि कृतकृत्यस्य तव किमि­त्या­ग­म­न­मि­त्या­श­ङ्क्याऽऽह –
यामेवेति ।

कृच्छ्री­भा­व­म­भि­न­यति –
कथमिति ॥५ -६॥

गौतमस्य वचनं[यदि]राज्ञो दुःखीभावकारणं तर्हि प्रत्या­ख्या­य­ता­मि­त्या­श­ङ्क्याऽऽह –
स हेति ।

किमिति तर्हि चिरं वसे­त्यु­क्त­वा­नि­त्यत आह –
न्यायेनेति ।
संवत्सरं वसेति यावत् । वक्तव्या विद्येति शेषः ।

कथं राज्ञो ब्राह्मणं प्रत्याज्ञां कुर्वतो न प्रत्यवायः स्यादि­त्या­श­ङ्क्याऽऽह –
यत्पूर्वमिति ।
प्रत्या­ख्या­ना­दि­वि­षयं हेतुवचनम् । न केवलं विद्यावशादेव श्रैष्ठ्यं किन्तु जाति­तोऽ­पी­त्य­पे­रर्थः ।

तर्हि ब्रूहि तां वाच­मि­त्या­श­ङ्क्याऽऽह –
तत्रेति ।
विद्याप्रवचने प्रस्तुते सतीति यावत् ।

यथे­त्य­स्या­पे­क्षितं पूरयति –
तथेति ।

प्रसिद्धमेव स्फोरयति –
तस्मादिति ।
ब्राह्मणानामनया विद्यया प्रशास्तृत्वस्य प्रागभावादिति यावत् ।

इति­श­ब्दो­पा­त्त­मर्थं कथयति –
क्षत्त्रियेति ।
उक्त­प्र­त्या­ख्या­ना­दि­का­र­ण­म­तः­श­ब्दार्थः ॥७॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां पञ्चमाध्यायस्य तृतीयः खण्डः ॥