अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

चतुर्थोऽध्यायः: षष्ठः खण्डः

अवशिष्टं पादत्रयं कथं द्रष्टव्यमिति बुभुत्समानं सत्यकामं प्रत्याह –
सोऽग्निरिति ।

अविदुषो विद्या­भि­मा­न­नि­मि­त्त­क­र्म­त्यागो न युक्त इति मत्वाऽऽह –
सत्यकाम इति ।
अभि सायं बभूवुः सायंकालं प्राप्ता इति यावत् ।

तस्य ब्रह्म­च­र्य­म­व्या­वृ­त्त­मिति सूचयति –
तत्रेति ।
उपोपविवेश तत्रो­प­श­ब्दाभ्यां गवामग्नेश्च सामीप्ये निवे­श­न­म­स्यो­च्यते ।

अर्थिने विद्या वक्तव्येति सूचयति –
ऋषभेति ॥१॥

आत्म­गो­च­र­म­ग्ने­श्चास्य विद्य­मा­न­मि­त्यर्थः । यद्वा पृथि­व्या­दि­रू­पे­णा­ग्ने­र­व­स्था­ना­द­ग्नि­वि­ष­य­मि­त्यर्थः । यथोक्तपादे गुणविशेषं निर्दिशति –
एष वा इति ॥३॥

द्विती­य­पा­दो­पा­स­कस्य द्विविधं फलं दर्शयति –
स य इति ।
यथोक्तं चतुष्कलमिति यावत् । तथै­वो­पा­स्य­गु­णा­नु­रो­धे­ने­त्यर्थः । तद्गुणस्तेन गुणेन गुण­वा­न­न­न्त­वा­न­वि­च्छि­न्न­स­न्तानो भवतीत्यर्थः । अनन्तवतो लोका­न­क्ष­या­नि­त्ये­तत् ॥४॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां चतुर्थाध्यायस्य षष्ठः खण्डः ॥