अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

चतुर्थोऽध्यायः: पञ्चदशः खण्डः

कथ­मु­प­स­न्ना­याऽ­चार्यो ब्रह्मचारिणे ब्रह्म­वि­द्या­मु­क्त­वा­नि­त्यत आह –
य एष इति ।
अक्षिस्थाने तदुपलक्षितो द्रष्टा य एष पुरुषो दृश्यत इति सम्बन्धः ।

नासौ सर्वेषां छाया­त्मा­ति­रिक्तो दृष्टि­गो­च­र­ता­मा­च­र­ती­त्या­श­ङ्क्या­धि­का­रिणो विशिनष्टि –
निवृत्तेति ।
निवृत्तानि विषयेभ्यो विमुखानि चक्षूंषि बाह्यानि करणानि येषां तैरिति यावत् ।

बाह्यकरणानां स्ववशत्वाधीनं विशे­ष­णा­न्त­र­मा­धत्ते –
ब्रह्मचर्यादीति ।

मनसो विष­य­पा­र­व­श्य­रा­हित्ये विशेषणान्तरमाह –
शान्तैरिति ।

तेषां निवृ­त्त­च­क्षुष्ट्वं हेतुमाह –
विवेकिभिरिति ।

पुरुषोऽक्षिणि द्रष्टेत्यत्र बृह­दा­र­ण्य­क­श्रुतिं प्रमाणयति –
चक्षुष इति ।

आचा­र्ये­णा­पू­र्व­वि­द्यो­प­दे­शा­द­ग्नी­ना­मु­क्ति­र्मिथ्या प्राप्तेति शङ्कते –
नन्विति ।

अग्निवचनस्य गत्यन्तरमाह –
भविष्यदिति ।

नाग्नी­ना­मु­क्ति­र्मृषा नापि तेषां भवि­ष्य­द्वि­ष­या­ज्ञा­न­मिति दूषयति –
नैष दोष इति ।
यत्सु­ख­गु­ण­क­मा­का­श­मु­पा­स्य­म­ग्नि­भि­रु­प­दिष्टं तस्यैव कारणब्रह्मणो द्रष्टृ­रू­प­स्या­क्षिणि दृश्यत इत्यनुवादो गति­व्या­ख्या­ना­याऽऽ­चा­र्येण क्रियते तन्नास्ति दोष­द्व­य­मि­त्यर्थः ।

अक्षिणि दृश्यत इति प्रयो­गा­दा­चा­र्येण च्छायात्मा विवक्षित इत्याशङ्क्याऽऽह –
एष इति ।

इतश्च नायं पुरु­ष­श्छा­या­त्मे­त्य­न­न्त­र­वा­क्य­म­व­तार्य व्याकरोति –
एतदित्यादिना ।
इतिशब्दो यथो­क्त­गु­णै­रु­पास्यः पुरुषो न च्छायात्मा भवि­तु­म­र्ह­ती­त्यर्थः ।

असङ्गत्वाच्च नायं छायात्मेत्याह –
किञ्चेति ।
माहात्म्यं स्थान­द्वा­रे­णो­च्यत इति शेषः ।

किमेतावता पुरु­ष­स्याऽऽ­या­त­मि­त्या­श­ङ्क्याऽऽह –
स्थानस्यापीति ॥१॥

तस्यै­वो­पा­स्य­त्वार्थं गुणान्तरं दर्शयति –
एतमिति ।

पुरुषस्य संयद्वामत्वं ब्रह्म­वि­दुक्त्या सिद्धमपि नाव­य­वा­र्थ­म­न्त­रेण व्यक्तीभवतीति शङ्कते –
कस्मादिति ।

अव­य­वा­र्थो­प­न्या­सेन परिहरति –
यस्मादिति ।

गुणोपास्तिफलमाह –
तथेति ।
उपा­स्य­गु­णा­नु­सा­रे­णे­त्यर्थः एवंविदं संय­द्वा­म­गु­ण­वि­शि­ष्ट­पु­रु­षोऽ­स्मीति वेदि­ता­र­मि­त्ये­तत् ॥२॥

गुणा­न्त­र­मु­पा­स्य­त्वाय दर्शयति –
एष इति ।

तद्व्युत्पादयति –
एष इति ॥३॥

गुणान्तरं ध्यानायोक्त्वा व्युत्पादयति –
एष इत्यादिना ।

आदि­त्या­दि­रू­पे­णा­स्यैव दीप्यमानत्वे श्रुत्य­न्त­र­म­नु­कू­ल­यति –
तस्येति ।

गुणोपास्तिफलमाह –
य एवमिति ॥४॥

गतिं वक्तुं पूर्वो­क्त­ब्र­ह्म­वि­द्या­या­म­धि­क­गु­णा­ने­वाऽऽ­चा­र्योऽ­न्व­वा­दी­दि­दानीं तामेव गतिमवतारयति –
अथेति ।

तां वक्तुं पातनिकां करोति –
यद्यदीति ।

करणाकरणाभ्यां विदुषो न वृद्धिर्नापि हानिरित्यत्र श्रुत्यन्तरं प्रमाणयति –
न कर्मणेति ।

अथ यदु चैवे­त्या­दि­वा­क्यस्य तात्पर्यं दर्शयति –
शवकर्मणीति ।

तात्पर्यान्तरं दर्शयति –
न पुनरिति ।

यदि विदुषोऽपि शवकर्म कर्तव्यं कस्तर्हि तस्य विशेषस्तत्राऽऽह –
अक्रियमाणे हीति ।

अन्य­त्रे­त्य­वि­द्या­वा­नु­च्यते –
इहेति ।
प्रस्तु­त­वा­क्यस्य विद्यावतो वोक्तिरिति शव­क­र्म­ण्य­ना­द­र­पू­र्व­क­मिति शेषः । विद्यावतः शव­क­र्म­भा­वा­भा­व­यो­र­प्र­ति­बन्धः फलं सिद्ध्यति । अविद्यावतस्तु शवकर्माकरणे कर्माणि न फलदानीति विद्या­स्तु­ति­रि­हा­भि­प्रे­तेति भावः ।

तेऽर्चि­ष­मे­वे­त्यत्र तच्छब्दार्थं व्याचष्टे –
ये सुखाकाशमिति ।

सत्य­लो­क­स्थ­मि­ति­दे­श­व्य­व­च्छे­देन किमिति व्याख्यायते मुख्यमेव ब्रह्म­श­ब्द­ल­म्बनं किं नोच्यते तत्राऽऽह –
गन्तृगन्तव्येति ।
एतेभ्यो हेतुभ्यः सत्यलोकस्थं ब्रह्म न मुख्यमिति सम्बन्धः ।

मुख्य­ब्र­ह्म­प्रा­प्ता­वपि यथोक्तव्यपदेशा भवि­ष्य­न्ती­त्या­श­ङ्क्याऽऽह –
सन्मात्रेति ।
तदनुपपत्तर्न तादृग्ब्रह्म ब्रह्मशब्दमिति शेषः ।

अनुपपत्तिमेव स्फोरयति –
ब्रह्मैवेति ।
तत्रेति मुख्य­प्रा­प्ति­रु­च्यते ।

कस्यचिदपि सन्मा­त्र­ब्र­ह्म­प्रा­प्ति­रत्र नास्ती­त्या­श­ङ्क्याऽऽह –
सर्वभेदेति ।
वक्ष्यति षष्ठेऽध्याये श्रुतिरिति शेषः ।

जीवस्य सन्मात्रं ब्रह्म पारमार्थिकं रूपं चेदुपासकस्यापि न गतिरुचिता तस्यापि ब्रह्मा­ति­रि­क्त­स्व­रू­पा­भा­वा­दि­त्या­श­ङ्क्याऽऽह –
न चेति ।
एकत्वलक्षणो मार्गो न दृष्टश्चेदगमनाय नोपतिष्ठते । न हि ध्यान­नि­ष्ठ­स्या­दृ­ष्ट­मे­कत्वं गमनं वारयितुं पार­य­त्य­ज्ञा­न­प्र­ति­ब­न्धात् । तस्य गम­न­भ्रा­न्ति­स­म्भ­वा­दि­त्यर्थः । यद्वैकत्वलक्षणो मार्गो नावगतो न गमनाय मोक्षायोपस्थितो भवतीत्यर्थः ।

तत्र प्रमाणमाह -
स एनमिति ।
स परमात्मा प्रत्य­क्त्वे­ना­ज्ञातः सन्नेनमधिकारिणं मुक्तिप्रदानेन न पालयतीत्यर्थः ।

प्रकृतां गतिमुपसंहरति –
एष इति ।

गतिफलं निगमयति –
एतेनेति ।
इम­मि­ति­वि­शे­ष­णा­द­ना­वृ­त्ति­र­स्मि­न्कल्पे । कल्पान्तरे त्वावृत्तिरिति सूच्यते ।

आवर्तशब्दं व्याकरोति –
आवर्तन्त इति ।
सफलाया यथोक्तेन गतिपूर्वकेण फलेन सहिताया इति यावत् । कार्य­ब्र­ह्मो­पा­स­न­मु­च्चिता कार­ण­ब्र­ह्मो­पा­सना यथोक्ता न विद्या­स­हि­ताऽ­वि­द्याऽत्र विवक्षिता तस्या इत्यर्थः ॥५॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां चतुर्थाध्यायस्य पञ्चदशः खण्डः ॥