अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

चतुर्थोऽध्यायः: चतुर्दशः खण्डः

अग्नीनां मिथो विसंवादं व्यावर्तयति –
ते पुनरिति ।

तथाऽ­प्या­त्म­विद्या श्रोत­व्ये­त्या­श­ङ्क्याऽऽह –
आत्मविद्येति ।

कथ­मा­चा­र्यो­प­दे­श­म­न्त­रेण भगवदुपदेशवशादेव मे विद्या फल­व­त्या­चा­र्या­द्धैव विद्या विदिता साधिष्ठमित्यादि हि प्रागुक्तमत आह –
आचार्यस्त्विति ॥१॥

अपनिहनुत इवे­त्य­त्रे­व­श­ब्द­ता­त्पर्यं दर्शयति –
न चेति ।

उक्त­म­भि­प्रा­य­मा­का­ङ्क्षा­पू­र्वकं विवृणोति –
कथमित्यादिना ।
काक्वा स्वरभङ्गेन भीतः सन्नु­क्त­वा­न­स्फु­ट­मिति यावत् ।

भीतिं शिष्य­स्या­प­न­य­न्ना­चार्यो ब्रूते –
किं नु सोम्येति ।

आचा­र्य­वा­क्य­स्थ­मि­ति­श­ब्द­म­नूद्य व्याचष्टे –
इत्येवमिति ।
पृष्टः सन्निति पूर्वेण सम्बन्धः ।

यस्मा­द­ग्नि­भि­रु­क्त­मा­चा­र्याय प्रतीकद्वारा शिष्यो निवे­दि­त­वां­स्त­स्मा­दा­चार्यः प्राप्तः सावकाशमित्याह –
यत इति ।

कं ब्रह्म खं ब्रह्मेत्यादिना ब्रह्मापि तैरु­क्त­मि­त्या­श­ङ्क्याऽऽह –
न ब्रह्मेति ।

कथं तर्हि साकल्येन ब्रह्म ज्ञातव्यमित्यत आह –
अहं त्विति ।

ब्रह्मज्ञाने किं स्यादि­त्या­श­ङ्क्याऽऽह –
शृण्विति ॥२ – ३॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां चतुर्थाध्यायस्य चतुर्दशः खण्डः ॥