अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

तृतीयोऽध्यायः: षष्ठः खण्डः

अमृतानि ध्येया­न्युक्त्वा तदुपजीविनो देव­ता­ग­णा­न­नु­चि­न्त­नी­या­नु­प­दि­शति –
तत्तत्रेति ।
कबलग्राहं कबलं गृहीत्वा यथा लोकोऽश्नाति तद्वदित्येतत् ।

नन्वशनपानाभावे न युक्त­मु­प­जी­व­न­व­च­न­मि­त्या­शङ्क्य परिहरति –
कथमित्यादिना ।

चक्षुषेति वक्तव्ये कथं सर्व­क­र­णै­रि­त्य­धि­क­मु­च्यते तत्राऽऽह –
दृशेरिति ।

चक्षुषैव रूपग्रहणमिति नियममाश्रित्य शङ्कते –
नन्विति ।

कर्मफलभूतस्य रसस्य लोहि­ता­मृ­ता­त्म­कस्य नास्ति चक्षु­र्मा­त्र­ग्रा­ह्य­त्व­मिति परिहरति –
नेत्यादिना ।

किमेतावता रसस्याऽऽयातं तदाह –
रसो हीति ।
इति तस्यापि श्रोत्रा­दि­ग्रा­ह्य­तेति शेषः ।

एत­दे­वे­त्या­दि­वा­क्य­मु­प­सं­ह­रति –
देवा इति ।

किं तेषां स्वतन्त्राणां तृप्तिर्नेत्याह –
आदित्येति ।
वैगन्ध्यं दौर्गन्ध्यम् । आदिपदेन सम्भाविताः सर्वेऽपि देहकरणदोषा गृह्यन्ते ॥१॥

एत­स्मा­द्रू­पा­दिति व्याख्या­त­स्या­नु­वा­द­मा­त्रम् । उत्साहवतां देवानां यथो­क्ता­मृ­तो­प­जी­वि­त्व­मि­त्यत्र लोक­प्र­सि­द्धि­म­नु­कू­ल­यति –
न हीति ॥२॥

पाठक्रमेणोक्तं ध्येय­स्व­रू­प­म­नूद्य साधिकारं ध्यानविधिं दर्शयति –
स य इति ।
वसुदेवभोग्यतां वसु­भि­र्दे­वै­रु­प­जी­व्य­त्व­मिति यावत् । एतदित्यस्माकं मधु निदर्शयति ।

एवंशब्दार्थं विशदयति –
यथोदितमिति ।
तथैव श्रुत्यु­क्त­क्र­मे­णै­वे­त्यर्थः ॥३॥

भोगकालपरिमाणं प्रश्नपूर्वकं निर्धारयति –
कियन्तमिति ।

आधिपत्यं स्वाराज्यमिति विशे­ष­ण­यो­स्ता­त्प­र्य­माह –
न यथेति ॥४॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां तृतीयाध्यायस्य षष्ठः खण्डः ॥