अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

सप्तमोऽध्यायः: प्रथमः खण्डः

षष्ठ­स­प्त­म­यो­र­ध्या­ययोः सम्बन्धं वक्तुकामः षष्ठे वृत्तं कीर्तयति –
परमार्थेति ।
उत्तमाधिकारिणं प्रत्य­बा­धि­त­त­त्त्व­बो­धनं प्रधानं तत्प­रोऽ­ती­तोऽ­ध्यायः स सतो ब्रह्मणः प्रत्य­ङ्नि­श्च­य­प­र­त्वे­नैव व्याख्यात इत्यर्थः ।

अध्या­या­न्त­र­भू­मि­का­मा­र­च­यति –
न सत इति ।
मध्यममधिकारिणं प्रति परम्परया ब्रह्मा­त्म­त्व­मु­प­देष्टुं सप्त­म­प्र­पा­ठ­क­प्र­वृ­त्ति­रि­त्यर्थः ।

नन्वत्रापि ब्रह्मा­त्म­त्व­मे­वो­प­दे­ष्टु­मिष्टं चेत्किमिति तर्हि नामादीनि तत्त्वानि निर्दिश्यन्ते तत्राऽह –
अनि­र्दि­ष्टे­ष्विति ।
वाशब्दः शङ्कानिरासार्थः ।

यद्वा द्वयो­र­ध्या­य­यो­र­द्वि­ती­य­ब्र­ह्मा­त्म­वि­ष­य­त्वा­वि­शे­षेऽपि साक्षा­त्पा­र­म्प­र्या­र­भ्या­म­पौ­न­रु­क्त्य­मुक्तं संप्रति नामा­दी­ना­मु­त्त­रो­त्त­र­भू­य­स्त्व­वि­शि­ष्टानां सन्मा­त्र­वि­ज्ञा­ने­ना­वि­ज्ञा­ना­दे­क­वि­ज्ञा­नेन सर्व­वि­ज्ञा­न­म­यु­क्त­मि­त्या­शङ्क्य ब्रह्मविदः सर्वज्ञत्वं स्पष्टी­क­र्तु­मु­त्त­र­ग्र­न्था­रम्भ इत्याह –
अनि­र्दि­ष्टे­ष्विति ।

नामा­दि­सं­की­र्त­नस्य तात्प­र्या­न्त­र­माह –
अथवेति ।
अधमोऽधिकारी नामादीनि ब्रह्म­त्वे­नो­पास्य तत्फलं च भुक्त्वा क्रमेण साक्षा­द्ब्र­ह्म­भावं प्राप्नोतीति प्रद­र्श­यि­तु­मु­त्तरो ग्रन्थ इत्यर्थः ।

शाखा­च­न्द्र­नि­द­र्श­न­न्या­येन मध्य­म­स्या­धि­का­रिणो ब्रह्म­सि­द्धि­स्वी­का­रार्थं मध्य­म­स्या­धि­का­रिणो ध्यानार्थं वा नामा­दि­सं­की­र्त­न­मि­त्यु­क्तम् । इदा­नी­मु­त्त­म­मे­वा­धि­का­रि­ण­म­धि­कृत्य भूमस्तुत्यर्थं नामादिवचनमिति मतान्तरमाह –
अथवा नामादीति ।

अध्या­य­सं­ब­न्ध­मु­क्त्वाऽऽ­ख्या­यि­का­स­म्ब­न्ध­माह –
आख्यायिका त्विति ।

स्तुत्य­र्थ­त्व­मेव प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।
तथा च परविद्यया कृता­र्थ­त्वा­त्तस्याः स्तुतिरत्र विवक्षितेति शेषः ।

अती­ता­ध्या­या­दि­ष्ट­स­दा­त्म­वि­ज्ञा­ना­द­न्य­देव देवतोपासनं मोक्ष­सा­ध­न­मि­त्या­शङ्क्य तन्निषेधेन सदा­त्म­वि­ज्ञा­न­स्यैव मोक्षसाधनत्वं दृढी­क­र्तु­मा­ख्या­यिका प्रवृत्तेति पक्षान्तरमाह –
अथवेति ।

द्विती­य­मा­ख्या­यि­का­ता­त्पर्यं प्रपञ्चयति –
येनेत्यादिना ।
सर्वस्यापि ज्ञेयस्य यद्विज्ञानं तस्य साधनमुत्पादनं तत्र शक्त्या संपन्नो वेद­वे­दा­ङ्गा­भि­ज्ञ­त्वेन तस्यापीति यावत् । अस्ति हि नार­द­स्यो­त्त­मा­भि­जने जन्म । ब्रह्मणो मान­स­पु­त्र­त्वा­दस्ति चोत्तमकर्म विद्याऽस्ति च वृत्तं सदाचरणमस्ति च श्रवणध्यानादि साधनशक्तीनां धर्मा­ध­र्म­सा­ध­नस्य वा शरीरस्य शक्तेः संपत्तिश्च जन्मादयो निमि­त्त­म­स्या­भि­मा­नस्य तं त्यक्त्वेति यावत् । इति­श­ब्दोऽ­ध्या­या­ख्य­यि­कयोः संब­न्धो­क्ति­स­मा­प्त्यर्थः । अध्ययनेन ज्ञानं लक्ष्यते । तथा चाधीष्व ज्ञापयेत्यर्थः । मन्त्रः उपसदनस्येति शेषः । न्यायतः समि­त्पा­णि­रि­त्या­दि­शा­स्त्रो­क्त­वि­धि­व­शा­दिति यावत् ॥१॥

अध्ययनवाचि पदं स्मरणपरतया कथं व्याख्या­त­मि­त्या­श­ङ्क्याऽह –
यद्वेत्थेति ।
गन्धयुक्तिः कुङ्कु­मा­दि­स­म्पा­द­नम् ॥२॥

तर्हि सर्वज्ञः स्वतन्त्रस्त्वं कृत­कृ­त्योऽ­सी­त्या­श­ङ्क्याऽऽह –
सोऽहमिति ।

कथं मन्त्र­वि­दि­त्यस्य कर्मविदिति व्याख्या­न­मि­त्या­श­ङ्क्याऽऽह –
मन्त्रेऽष्विति ।

मन्त्रविदेव नाऽऽत्म­वि­दि­त्यत्र विरोधं चोदयति –
नन्विति ।
मन्त्रवित्त्वे तत्प्र­का­श्या­त्म­वि­त्त्व­मपि स्यात्तदभावे मन्त्र­वि­त्त्व­मपि न युक्तमित्यर्थः ।

अभि­धा­न­म­भि­धे­य­मि­त्येवं रूपस्य भेदस्य विकारत्वेन मिथ्या­त्वा­दा­त्म­नश्च विका­र­त्वा­न­ङ्गी­का­रा­न्म­न्त्र­प्र­का­श्य­त्वा­भा­वान्न विरोध इति परिहरति –
नाभिधानेति ।

आत्मनो विका­र­त्वा­भा­वेऽ­प्य­भि­धे­य­त्व­मे­ष्ट­व्य­मिति शङ्कते –
नन्विति ।

श्रुत्य­न्त­रा­व­ष्ट­म्भेन निराचष्टे –
नेत्यादिना ।

आत्म­श­ब्दे­नाऽऽ­त्म­नोऽ­भि­धे­य­त्वा­भावे वाक्य­शे­षा­दि­वि­रोधः स्यादि­त्या­श­ङ्कते –
कथं तर्हीति ।

आत्म­श­ब्दे­ना­वा­च्य­स्याऽऽ­त्म­न­स्तेन लक्षणया प्रति­प­त्ति­सं­भ­वा­न्नो­प­क्र­मो­प­सं­हा­र­वि­रो­धोऽ­स्ती­त्यु­त्त­र­माह –
नैष दोष इति ।
विशिष्टे गृहीतशब्दो विशेषणे प्रयुक्ते यत्सन्मात्रं परिशिष्टं तदवाच्यमपि लक्षणया बोधयतीत्यर्थः ।

केव­ला­त्म­वि­ष­य­स्याऽऽ­त्म­श­ब्दस्य तद्दर्शनमन्तरेण विशि­ष्टा­त्म­दृ­ष्टि­मा­त्रेण कथं प्रयोगः कथं वा तत्प्रयोगेऽपि ततो विव­क्षि­ता­त्म­धी­रि­त्या­शङ्क्य दृष्टान्तेन परिहरति –
थेत्यादिना ।

आत्मनो मुख्यवृत्त्या मन्त्र­प्र­का­श्य­त्वा­भावे फलितमाह –
तस्मादिति ।

शब्दा­र्थ­ज्ञा­न­मा­त्रे­णाऽऽ­त्म­वित्त्वं न भव­ती­त्य­ने­नाऽऽ­चा­र्यो­प­दे­श­ज­नि­त­ज्ञा­न­वत एवाऽऽ­त्म­वि­त्त्व­मि­त्युक्तं तत्र प्रमाणमाह –
अत एवेति ।

औप­दे­शि­क­ज्ञा­न­वि­ष­यत्वं तर्हि स्वीकृ­त­मि­त्या­श­ङ्क्याऽऽह –
यत इति ।

मा तर्हि तवाऽऽत्मविद्या भूदित्याशङ्क्य शोक­नि­वृ­त्त्यु­पा­य­त्वेन तदपेक्षां सूचयति –
श्रुतमिति ।
आत्म­ज्ञा­नो­डु­पे­नाऽऽ­त्म­ज्ञा­ना­ख्येन प्लवेनेति यावत् ।

कथं मदीयमर्थज्ञानं सर्वं नाम­मा­त्र­मि­त्या­श­ङ्क्याऽऽह –
वाचाऽऽरम्भणमिति ॥३॥

उक्तमुपपादयति –
नाम वा इति ।

तदुपसंहरति –
नामैवेति ।

केन रूपेणेदं नामाऽऽ­द­र्त­व्य­मि­त्या­श­ङ्क्याऽऽह –
नामेति ।

उपास्तिप्रकारं दृष्टान्तेन स्फुटयति –
यथेति ॥४॥

नाम्नि ब्रह्म­दृ­ष्ट्यो­पा­स्य­माने किं स्यादित्याह –
स यस्त्विति ।

यो नामे­त्या­दि­वा­क्यस्य पौन­रु­क्त्य­मि­त्या­श­ङ्क्याऽऽह –
यो नामेति ॥५॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां सप्तमाध्यायस्य प्रथमः खण्डः ॥