आनन्दगिरिटीका (छान्दोग्य)
सप्तमोऽध्यायः: प्रथमः खण्डः
षष्ठसप्तमयोरध्याययोः सम्बन्धं वक्तुकामः षष्ठे वृत्तं कीर्तयति –
परमार्थेति ।
उत्तमाधिकारिणं प्रत्यबाधिततत्त्वबोधनं प्रधानं तत्परोऽतीतोऽध्यायः स सतो ब्रह्मणः प्रत्यङ्निश्चयपरत्वेनैव व्याख्यात इत्यर्थः ।
अध्यायान्तरभूमिकामारचयति –
न सत इति ।
मध्यममधिकारिणं प्रति परम्परया ब्रह्मात्मत्वमुपदेष्टुं सप्तमप्रपाठकप्रवृत्तिरित्यर्थः ।
नन्वत्रापि ब्रह्मात्मत्वमेवोपदेष्टुमिष्टं चेत्किमिति तर्हि नामादीनि तत्त्वानि निर्दिश्यन्ते तत्राऽह –
अनिर्दिष्टेष्विति ।
वाशब्दः शङ्कानिरासार्थः ।
यद्वा द्वयोरध्याययोरद्वितीयब्रह्मात्मविषयत्वाविशेषेऽपि साक्षात्पारम्पर्यारभ्यामपौनरुक्त्यमुक्तं संप्रति नामादीनामुत्तरोत्तरभूयस्त्वविशिष्टानां सन्मात्रविज्ञानेनाविज्ञानादेकविज्ञानेन सर्वविज्ञानमयुक्तमित्याशङ्क्य ब्रह्मविदः सर्वज्ञत्वं स्पष्टीकर्तुमुत्तरग्रन्थारम्भ इत्याह –
अनिर्दिष्टेष्विति ।
नामादिसंकीर्तनस्य तात्पर्यान्तरमाह –
अथवेति ।
अधमोऽधिकारी नामादीनि ब्रह्मत्वेनोपास्य तत्फलं च भुक्त्वा क्रमेण साक्षाद्ब्रह्मभावं प्राप्नोतीति प्रदर्शयितुमुत्तरो ग्रन्थ इत्यर्थः ।
शाखाचन्द्रनिदर्शनन्यायेन मध्यमस्याधिकारिणो ब्रह्मसिद्धिस्वीकारार्थं मध्यमस्याधिकारिणो ध्यानार्थं वा नामादिसंकीर्तनमित्युक्तम् । इदानीमुत्तममेवाधिकारिणमधिकृत्य भूमस्तुत्यर्थं नामादिवचनमिति मतान्तरमाह –
अथवा नामादीति ।
अध्यायसंबन्धमुक्त्वाऽऽख्यायिकासम्बन्धमाह –
आख्यायिका त्विति ।
स्तुत्यर्थत्वमेव प्रश्नपूर्वकं प्रकटयति –
कथमित्यादिना ।
तथा च परविद्यया कृतार्थत्वात्तस्याः स्तुतिरत्र विवक्षितेति शेषः ।
अतीताध्यायादिष्टसदात्मविज्ञानादन्यदेव देवतोपासनं मोक्षसाधनमित्याशङ्क्य तन्निषेधेन सदात्मविज्ञानस्यैव मोक्षसाधनत्वं दृढीकर्तुमाख्यायिका प्रवृत्तेति पक्षान्तरमाह –
अथवेति ।
द्वितीयमाख्यायिकातात्पर्यं प्रपञ्चयति –
येनेत्यादिना ।
सर्वस्यापि ज्ञेयस्य यद्विज्ञानं तस्य साधनमुत्पादनं तत्र शक्त्या संपन्नो वेदवेदाङ्गाभिज्ञत्वेन तस्यापीति यावत् । अस्ति हि नारदस्योत्तमाभिजने जन्म । ब्रह्मणो मानसपुत्रत्वादस्ति चोत्तमकर्म विद्याऽस्ति च वृत्तं सदाचरणमस्ति च श्रवणध्यानादि साधनशक्तीनां धर्माधर्मसाधनस्य वा शरीरस्य शक्तेः संपत्तिश्च जन्मादयो निमित्तमस्याभिमानस्य तं त्यक्त्वेति यावत् । इतिशब्दोऽध्यायाख्ययिकयोः संबन्धोक्तिसमाप्त्यर्थः । अध्ययनेन ज्ञानं लक्ष्यते । तथा चाधीष्व ज्ञापयेत्यर्थः । मन्त्रः उपसदनस्येति शेषः । न्यायतः समित्पाणिरित्यादिशास्त्रोक्तविधिवशादिति यावत् ॥१॥
अध्ययनवाचि पदं स्मरणपरतया कथं व्याख्यातमित्याशङ्क्याऽह –
यद्वेत्थेति ।
गन्धयुक्तिः कुङ्कुमादिसम्पादनम् ॥२॥
तर्हि सर्वज्ञः स्वतन्त्रस्त्वं कृतकृत्योऽसीत्याशङ्क्याऽऽह –
सोऽहमिति ।
कथं मन्त्रविदित्यस्य कर्मविदिति व्याख्यानमित्याशङ्क्याऽऽह –
मन्त्रेऽष्विति ।
मन्त्रविदेव नाऽऽत्मविदित्यत्र विरोधं चोदयति –
नन्विति ।
मन्त्रवित्त्वे तत्प्रकाश्यात्मवित्त्वमपि स्यात्तदभावे मन्त्रवित्त्वमपि न युक्तमित्यर्थः ।
अभिधानमभिधेयमित्येवं रूपस्य भेदस्य विकारत्वेन मिथ्यात्वादात्मनश्च विकारत्वानङ्गीकारान्मन्त्रप्रकाश्यत्वाभावान्न विरोध इति परिहरति –
नाभिधानेति ।
आत्मनो विकारत्वाभावेऽप्यभिधेयत्वमेष्टव्यमिति शङ्कते –
नन्विति ।
श्रुत्यन्तरावष्टम्भेन निराचष्टे –
नेत्यादिना ।
आत्मशब्देनाऽऽत्मनोऽभिधेयत्वाभावे वाक्यशेषादिविरोधः स्यादित्याशङ्कते –
कथं तर्हीति ।
आत्मशब्देनावाच्यस्याऽऽत्मनस्तेन लक्षणया प्रतिपत्तिसंभवान्नोपक्रमोपसंहारविरोधोऽस्तीत्युत्तरमाह –
नैष दोष इति ।
विशिष्टे गृहीतशब्दो विशेषणे प्रयुक्ते यत्सन्मात्रं परिशिष्टं तदवाच्यमपि लक्षणया बोधयतीत्यर्थः ।
केवलात्मविषयस्याऽऽत्मशब्दस्य तद्दर्शनमन्तरेण विशिष्टात्मदृष्टिमात्रेण कथं प्रयोगः कथं वा तत्प्रयोगेऽपि ततो विवक्षितात्मधीरित्याशङ्क्य दृष्टान्तेन परिहरति –
थेत्यादिना ।
आत्मनो मुख्यवृत्त्या मन्त्रप्रकाश्यत्वाभावे फलितमाह –
तस्मादिति ।
शब्दार्थज्ञानमात्रेणाऽऽत्मवित्त्वं न भवतीत्यनेनाऽऽचार्योपदेशजनितज्ञानवत एवाऽऽत्मवित्त्वमित्युक्तं तत्र प्रमाणमाह –
अत एवेति ।
औपदेशिकज्ञानविषयत्वं तर्हि स्वीकृतमित्याशङ्क्याऽऽह –
यत इति ।
मा तर्हि तवाऽऽत्मविद्या भूदित्याशङ्क्य शोकनिवृत्त्युपायत्वेन तदपेक्षां सूचयति –
श्रुतमिति ।
आत्मज्ञानोडुपेनाऽऽत्मज्ञानाख्येन प्लवेनेति यावत् ।
कथं मदीयमर्थज्ञानं सर्वं नाममात्रमित्याशङ्क्याऽऽह –
वाचाऽऽरम्भणमिति ॥३॥
उक्तमुपपादयति –
नाम वा इति ।
तदुपसंहरति –
नामैवेति ।
केन रूपेणेदं नामाऽऽदर्तव्यमित्याशङ्क्याऽऽह –
नामेति ।
उपास्तिप्रकारं दृष्टान्तेन स्फुटयति –
यथेति ॥४॥
नाम्नि ब्रह्मदृष्ट्योपास्यमाने किं स्यादित्याह –
स यस्त्विति ।
यो नामेत्यादिवाक्यस्य पौनरुक्त्यमित्याशङ्क्याऽऽह –
यो नामेति ॥५॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य प्रथमः खण्डः ॥