आनन्दगिरिटीका (छान्दोग्य)
सप्तमोऽध्यायः: पञ्चमः खण्डः
चित्तशब्दस्य मनःशब्देन पुनरुक्तिं परिहरति –
चित्तं चेतयितृत्वमिति ।
तस्याऽऽत्मत्वं व्यावर्तयति –
प्राप्तेति ।
इदं वस्त्वेवं प्राप्तमिति प्राप्तकालवस्तुनो वस्त्वनुरोधी चेतनाख्यो वृत्तिविशेषस्तद्वत्त्वं चित्तत्त्वमित्यर्थः ।
अतीतं भोजनं तृप्तिसाधनं दृष्टं भोजनत्वादागामिनोऽपि तस्य तदेव प्रयोजनमितिनिरूपणसामर्थ्यं चित्तमिति प्रसिद्धमित्याह –
अतीतेति ।
यथोक्तस्य चित्तस्य संकल्पाद्भूयस्त्वं प्राप्तमपूर्वत्वं व्युत्पादयति –
कथमित्यादिना ।
संकल्पप्रकरणं परामृशति –
पूर्ववदिति ॥१॥
यथा संकल्पस्य निमित्तत्वे सति स्तुत्यर्थमधिकरणत्वं युक्तं तथा चित्तस्य विभक्तस्य संकल्पादिषु निमित्तत्वेऽपि स्तुत्यर्थमेव तदधिकरणत्वमाह –
तानीति ।
इतश्च चित्तस्यास्ति वैशिष्ट्यमाह –
किंचेति ।
यद्यपि बहुशास्त्रार्थपरिज्ञानवान्संस्तथाऽपि यद्यचित्तो भवतीति योजना ।
अचित्तस्यासत्समत्वं श्रुतवैयर्थ्यं चेत्युक्तं प्रश्नद्वारा विवृणोति –
कस्मादित्यादिना ।
श्रुतमपीत्यपिशब्देन सत्त्वं गृह्यते ।
चित्ताभावे श्रुतादेर्वैयर्थ्योक्त्या तद्वैशिष्ट्यमादिष्टमिदानीं तद्वैशिष्ट्ये हेत्वन्तरमाह –
अथेति ।
चित्तवतोक्तार्थग्रहणार्थं श्रोतुमिच्छा लोकस्य भवतीत्यत्र हेतुमाह –
तस्मादिति ॥२॥
इति श्रीमदानन्दगिरिटीकायां सप्तमाध्यायस्य पञ्चमः खण्डः ॥