अद्वैतशारदा

आनन्दगिरिटीका (छान्दोग्य)

तृतीयोऽध्यायः: षोडशः खण्डः

वृत्तमनूद्य पुरुषो वावे­त्या­दि­ख­ण्डा­न्त­र­म­व­ता­र­यति –
पुत्रायुष इति ।

किमित्यात्मनो दीर्घजीवनं समर्थ्यते तत्राऽऽह –
जीवन्निति ।

यथो­क्त­फ­ल­हे­तु­भूतं विद्या­मु­त्था­प­यति –
इत्यत आत्मनमिति ।

कथं­भू­त­स्याऽऽ­त्मनो यज्ञत्वं सम्पाद्यते तत्राऽऽह –
पुरुष इति ।

अवधारणार्थं समर्थयते –
तथा हीति ।
यज्ञा­व­य­व­सा­दृ­श्या­त्पु­रुषे यज्ञदृष्टिः कर्त­व्ये­त्यु­क्तम् ।

कथं सादृ­श्या­द्य­ज्ञ­स­म्पा­द­न­मिति पृच्छति –
कथमिति ।

तत्र षोडशाधिकं वर्षशतं पुरुषस्याऽऽयुः फलभूतं तत्त्रेधा प्रविभज्य चतु­र्विं­श­ति­व­र्षा­युषि प्रातः­स­व­न­दृष्टिः कर्तव्येत्याह –
तस्येति ।

गाय­त्र्या­श्छ­न्ध­स­श्च­तु­र्विं­श­त्य­क्ष­र­त्वेऽपि कथं शब्दोक्ता प्रातः­स­व­न­दृ­ष्टि­रि­त्या­श­ङ्क्याऽऽह –
गायत्रीति ।
विधि­तोऽ­नु­ष्ठी­य­मा­नस्य बाह्ययज्ञस्य प्रातः­का­लो­प­ल­क्षितं कर्म प्रातःसवनं तत्र स्तोत्रादि गाय­त्र­च्छ­न्दस्कं “गायत्रं प्रातःसवनम्”(छा.उ. ३ । १६ । १) इति च श्रुतिरित्यर्थः ।

यथोक्ते पुरुषायुषि प्रातःसवने चतु­र्विं­श­त्य­क्ष­राणि फलितमाह –
अत इति ।

तथाऽपि कथं पुरुषायुषस्य यज्ञत्वं तदाह –
अत इति ।
अतः­श­ब्द­स्यै­वार्थो विधि­य­ज्ञ­सा­दृ­श्या­दिति । विधि­नाऽ­नु­ष्ठी­य­मानो यज्ञो विधियज्ञस्तेन सादृश्यं पुरुषस्य प्रातः­स­व­न­स­म्ब­न्ध­स्त­स्मा­त्पु­रुषो यज्ञ इत्यर्थः ।

यथा यथोक्ते पुरुषायुषि प्रातः­स­व­न­स­म्प­त्ति­स्तथा वक्ष्यमाणयोरपि पुरु­षा­यु­षो­र्मा­ध्य­न्दिनं सवनं तृतीयसवनमिति सव­न­द्व­य­स­म्प­त्ति­र्द्र­ष्ट­व्ये­त्याह –
तथेति ।

चतु­र्विं­श­ति­व­र्ष­मि­त­पु­रु­षा­युषिं प्रातःसवनमतः संख्या­सा­मा­न्या­द्व­क्ष्य­मा­ण­पु­रु­षा­युषोः सवनद्वयसम्पत्तौ किं कार­ण­मि­त्या­श­ङ्क्याऽऽह –
त्रिष्टुबिति ।
चतु­श्च­त्वा­रिं­श­द­क्षरा त्रिष्टु­प्प्र­सिद्धा । त्रैष्टुभं च माध्यन्दिनं सवनम् । अष्टा­च­त्वा­रिं­श­द­क्षरा जगती । जागतं च तृतीयसवनम् । अतः संख्या­सा­मा­न्या­दु­त्त­रयोः पुरुषायुषोः सव­न­द्व­य­स­म्प­त्ति­र्यु­क्ते­त्यर्थः ।

पुरुषस्य यज्ञत्वे विधियज्ञेन सह सादृश्यान्तरमाह –
किंचेति ।

प्रातःसवने वसूनां तद्दे­व­ता­त्वे­ना­न्व­या­त्त­त्त्व­मेव संक्षिपति –
सवनदेवतात्वेन स्वामिन इत्यर्थ इति ।

वसूनां सव­न­स्वा­मि­त्व­मु­भ­यत्र तुल्यमित्युक्ते प्रसि­द्धा­न्व­सू­न्पु­रु­ष­य­ज्ञेऽपि प्राप्ता­न्प्र­त्यु­द­स्यति –
पुरुषयज्ञेऽपीति ।

तेषु वसु­श­ब्द­प्र­वृत्तिं साधयति –
ते हीति ।

निमित्तान्तरमाह –
प्राणेषु हीति ।

प्राणानां वसु­त्व­मु­प­पा­दि­त­मु­प­सं­ह­रति –
इत्यत इति ॥१॥

सम्प्रति पुरु­ष­य­ज्ञ­वि­द्या­ङ्ग­भू­त­मा­शी­र्वा­द­प्र­योगं दर्शयति –
तं चेदिति ।
अनु­स­न्त­नु­ते­त्य­त्रा­नु­प­द­मे­की­भावे । मन्त्रजपस्य सानुबन्धित्वं विधियज्ञेन ॥२॥ समानं तस्य यानि चतु­र्विं­श­ति­व­र्षा­णी­त्या­दि­नेति शेषः ।

प्राणेषु रुद्र­श­ब्द­प्र­वृत्तौ निमित्तमाह –
रुदन्तीति ।

यदुक्तं रोदयन्तीति रुद्रा इति तदुपपादयति –
क्रूरा हीति ॥३॥
यथा प्राणा वसवो रुद्रा­श्चो­क्ता­स्त­थेति यावत् ।

तेष्वा­दि­त्य­श­ब्द­प्र­वृत्तौ निमित्तमाह –
ते हीति ।

तं चेदित्यादिना पूर्वेण ग्रन्थेन तं चेदे­त­स्मि­न्नि­त्या­दि­व­क्ष्य­मा­ण­ग्र­न्थस्य तुल्या­र्थ­त्वान्न व्याख्या­ना­पे­क्षे­त्याह –
समानमन्यदिति ॥४ - ६॥

महिदासोदाहरणस्य तात्पर्यमाह –
निश्चिता हीति ।
तदे­त­द्य­ज्ञ­द­र्शनं विद्वानाह स्मेति सम्बन्धः । ह वा इति निपातयोः किलेत्यर्थः । उक्तस्य वोदाहरणस्य प्रसिद्धिविषयः । हे रोग कस्मान्मां त्वमुपतपसीति सम्बन्धः ।

कस्मा­दि­त्या­क्षेपे हेतुमाह –
योऽहमिति ।
यो यज्ञः सोऽहमनेनेति योजना ।

इति­श­ब्द­स्या­न्व­य­मा­चष्टे –
इत्येवमिति ।

निश्चिताया विद्याया ध्यानं प्रति फलं कथयति –
स एवमिति ।

यद्यपि महिदासस्य यथोक्तनिश्चयवतो यथोक्तं तथाऽ­पी­दा­नीं­त­नस्य किमा­या­त­मि­त्या­श­ङ्क्याऽऽह –
अन्योऽपीति ।
प्रजीवतीति जीवनस्य प्रकर्षो रोगा­द्यु­प­ता­प­रा­हित्यं प्रशब्देनोच्यते ।

एवंनिश्चय इत्युक्तं पुरुषं विशदयति –
य एवमिति ॥७॥
इति श्रीम­दा­न­न्द­गि­रि­टी­कायां तृतीयाध्यायस्य षोडशः खण्डः ॥