आनन्दगिरिटीका (छान्दोग्य)
षष्ठोऽध्यायः: चतुर्थः खण्डः
कथमुदाहरणतोऽवधारणमित्याशङ्क्यानन्तरवाक्यमवतारयति –
यत्तदिति ।
उदाहरणशब्दं व्युत्पादयति –
उदाहरणं नामेति ।
तत्रैव श्रुतिमवतार्य व्याचष्टे –
तदेतदित्यादिना ।
अत्रिवृत्कृतानां रूपमिति विद्धीति सम्बन्धः । तत्राग्नौ रूपत्रये पूर्वोक्तरीत्या पृथक्कृते सतीति यावत् । इदानीं विवेकदशायामित्यर्थः ।
अक्षरार्थमुक्त्वा वाक्यतात्पर्यार्थमाह –
प्रागिति ।
रूपत्रयविवेकात्प्रागवस्थायामग्निशब्दबुद्धी तद्विवेकादूर्ध्वं तन्निवृत्तिरित्येतमर्थं दृष्टान्तेन समर्थयते –
यथेत्यादिना ।
अग्निविषये श्रुतं हित्वाऽधिककल्पनायां नास्ति निबन्धनमिति शङ्कते –
नन्विति ।
रोहितादिरूपत्रयविवेके सत्यग्नेरग्नित्वमपगच्छतीत्यत्र दृष्टान्तमाह –
यथेति ।
शब्दबुद्धिप्रक्षेपेऽपि न श्रुतत्यागोऽस्तीति परिहरति –
नैवमिति ।
तत्र प्रमाणत्वेनानन्तरवाक्यमादाय व्याचष्टे –
यत इति ।
अग्नेर्नाममात्रत्वमतःशब्दार्थः ॥१॥
प्रक्रमपर्यालोचनायामुदाहरणे न्यूनत्वमस्तीति शङ्कते –
नन्विति ।
यद्वापीकूपादे रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्येत्युदाहरणसम्भवान्न न्यूनतेति परिहरति –
नैष दोष इति ।
तर्हि तेजोविषयमप्युदाहरणमूहनीयं किमित्युदाहृतमित्याशङ्क्याऽऽह –
तेजस इति ।
यदि क्वचिदपि नोदाहरणमुच्यते नोपलक्षणमेव सिध्येदग्नेस्त्रयाणां रूपत्त्वेन यथोक्तरूपविभागस्य तेषु स्फुटत्वसम्भवात्तेजसो दृष्टान्तप्रदर्शनमन्नादिविषयोदाहरणोपलक्षणार्थं, तेन नोपेक्षितमित्यर्थः ।
अबन्नयोरपि त्रिवृत्करणमुपलक्षितं चेत्तर्हि तत्र रसगन्धयोरसाधारण्यात्तयोस्त्रिवृत्करणमुदाहर्तव्यमित्याशङ्क्याऽऽह –
गन्धरसयोरिति ।
यथा यदबन्नयोर्भास्वरं लोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्येति शक्यते रूपं विवेक्तुं न तथाऽमुको रसो गन्धो वा तेजसोऽपामग्नेश्चास्तीति ज्ञातुं शक्यमित्यनुदाहरणं तयोरित्यर्थः ।
ननु त्रिवृत्करणे त्रिष्वपि रूपवद्गन्धरसौ सम्भावितौ तत्कथं तयोस्रयाणामसम्भवोक्तिस्तत्राऽऽह –
न हीति ।
सम्भावितावपि तौ त्रिषु विवेक्तुमशक्यावित्यनुदाहरणीयावित्यर्थः ।
तर्हि सर्वेषु भूतेषु सम्भावितयोः स्पर्शशब्दयोरुदाहरणं किं न स्यादित्याशङ्क्याऽऽह –
स्पर्शशब्दयोरिति ।
यथा लोहितादिरूपत्रयं त्रयाणां विभागेन दर्शयितुं शक्यं न तथा शब्दत्रयं स्पर्शत्रयं च त्रयाणां विभागेन दर्शयितुं शक्यं, नो खल्वेकत्रोष्णशीतानुष्णाशीतस्पर्शत्रयं दृश्यते नापि खरमधुरमध्यमशब्दत्रयमेकत्रोपलब्धमित्यर्थः ।
सर्वस्य त्रिवृत्कृतत्वे फलितमाह –
यदीति ।
यथाऽग्न्यादि त्रिवृत्कृतं तथा सर्वमेव जगद्यदि त्रिवृत्कृतमित्यङ्गीकृतं तदाऽग्नेरग्नित्ववज्जगतो जगत्त्वमपगतं त्रीणि रूपाणीत्येव सत्यमिति योजना ।
तथाऽपि कथं सन्मात्रपरिशेषः स्यादित्याशङ्क्याऽऽह –
तथेति ।
रूपत्रयव्यतिरेकेण जगतोऽभाववत्कृष्णस्यापि रूपस्य पृथिवीशब्दितस्य शुक्लरूपमात्रजलकार्यत्वात्तदतिरेकेणासत्त्वं पृथिवीवदपामपि शुक्लरूपमात्राणां लोहितरूपमात्रतेजोविकारत्वात्तद्व्यतिरेकेणाभावस्तस्यापि सत्कार्यत्वात्ततो भेदेनासत्त्वं सन्मात्रमेव परिशिष्टमित्येतत्त्रिवृत्करणप्रकरणे विवक्षितमित्यर्थः ।
त्रिवृत्करणपक्षे नैकविज्ञानेन सर्वविज्ञानं सिद्ध्यति परिशिष्टविज्ञेयसद्भावादिति शङ्कते –
नन्विति ।
इतिपदं कथमित्यादिना सम्बध्यते ।
गन्धादयश्च शब्दान्ता गुणा गुणिश्वनन्तर्भूताः सन्तीति न सद्विज्ञानेन तद्विज्ञानोपपत्तिरित्याह –
गन्धेति ।
तद्विज्ञाने = सद्विज्ञानेन वाय्वादिविज्ञाने, तत्र प्रकारान्तरं तत्कार्यत्वादतिरिक्तमिति यावत् ।
आकाशादेस्त्रिष्वेवान्तर्भावसम्भवान्न परिशिष्टविज्ञेयमस्तीति परिहरति –
नैष दोष इति ।
कथं तेजोबन्नेषु सर्वस्य आकाशादेर्दर्शनमित्याह –
कथमिति ।
तत्र शब्दस्पर्शयोराकाशवाय्वोश्च भूतत्रये प्रत्यक्षानुमानाभ्यामुपलब्धिं दर्शयति –
तेजसीति ।
तेजोग्रहणमबन्नयोरुपलक्षणं तत्रापि स्पर्शाद्युपलब्धेरविशेषाद्यत्तु गन्धादि ज्ञेयान्तरमिति तत्राऽऽह –
तथेति ।
भूतत्रये स्पर्शाद्यन्तर्भाववदिति यावत् ।
त्रिष्वेवान्तर्भावे फलितमाह –
रूपवतामिति ।
भूतत्रये रूपवत्याकाशादेरन्तर्भावं व्यतिरेकद्वारा समर्थयते –
न हीति ।
अन्तर्भावोक्तिप्रयासं परिहर्तुं पक्षान्तामाह –
अथवेति ।
प्रदर्शनार्थं पञ्चीकरणस्येति शेषः ।
कथं पञ्चीकरणे सन्मात्रपरिशेषः सिद्ध्यतीत्याशङ्क्याऽऽह –
यथेति ।
यदा पञ्चापि भूतानि प्रत्येकं द्वेधा विभज्य पुनरेकैकं भागं चतुर्धा कृत्वा स्वभागातिरिक्तेषु पूर्वेषु भागेष्वेकैकशो निक्षिप्यते तदा पञ्चीकरणं श्रुत्युपलक्षितं लभ्यते तत्रापि पञ्चानां भागानां पृथक्करणे पञ्चैव तन्मात्राण्यवशिष्यन्ते तान्यपि पृथिव्यादीन्यबादिकार्यत्वात्तत्तत्कारणव्यतिरेकेण न सिद्ध्यन्तीति त्रिवृत्करणवत्पञ्चीकरणेऽपि न्यायसाम्यात्सर्वस्य सद्विकारत्वात्तद्व्यतिरेकेणाभावात्तेन विज्ञातेन तदपि विज्ञातमेव स्यात्सन्मात्रं तु परमार्थसत्यं परिशिष्टं भवतीत्यर्थः ।
उक्तन्यायेनैकविज्ञानेन सर्वविज्ञानश्रुतिरविरुद्धेत्युपसंहरति –
तदेकस्मिन्निति ॥२-३-४॥
त्रिवृत्करणपक्षेऽप्येकविज्ञानेन सर्वविज्ञानश्रुतिविरुद्धेत्युपपाद्य त्रिवृत्करणमुदाहरणान्तरेण दर्शयितुमारभते –
एतदिति ।
त्रिवृत्करणमिति यावत् । ते पुनरिति त्रिवृत्करणविज्ञानवन्तो निर्दिश्यन्ते ॥५॥
वेदनप्रकारमेवाऽऽकाङ्क्षापूर्वकं प्रकटयति –
कथमित्यादिना ।
अन्यदग्न्यादिभ्यः सकाशादिति शेषः ।
यदनेकरूपत्वात्कपोतादिरूपेण सन्दिह्यमानमेतद्दृश्यते तस्मिन्कपोतादिस्वरूपे यत्किञ्चिद्रोहितमिव रूपं गृह्यमाणं पूर्वेषामासीत्तत्तेजसो रूपमिति ते विदितवन्त इति योजना । अत्यन्तदुर्लक्ष्यं नामरूपाभ्यां दुर्ज्ञानं द्वीपान्तरागतं पक्ष्यादीत्यर्थः ।
अगृह्यमाणमिति च्छेदः यथा नु खल्वित्यादिवाक्यं वृत्तानुवादपूर्वकमवतारयति –
एवं तावदिति ।
यथा खल्वेकैका देवता पुरुषं प्राप्य त्रिवृत्त्रिवृद्भवति तथेदानीं तदाध्यात्मिकं त्रिवृत्करणमेवमेवेति जानीहीति सम्बन्धः । आध्यात्मिकं त्रिवृत्करणमिति शेषः ॥६-७॥
इति श्रीमदानन्दगिरिटीकायां षष्ठाध्यायस्य चतुर्थः खण्डः ॥